अध्यायः 073

युधिष्ठिराधिक्षेपादात्मवधोद्यतं पार्थं प्रति कृष्णेन तत्प्रतिनिधितया आत्मप्रशंसनचोदना ॥ 1 ॥ अर्जुनेनात्मप्रशंसनानन्तरं युधिष्ठिरक्षमापनम् ॥ 2 ॥

सञ्जय उवाच ।
इत्येवमुक्तस्तु जनार्दनेन पार्थः प्रशस्याथ सुहृद्वचस्तत् ।
ततोऽब्रवीदर्जुनो धर्मराज-- मनुक्तपूर्वं परुषं प्रसह्य ॥
मा त्वं राजन्व्याहरस्वाद्य पापं त्वं तिष्ठसि क्रोशमात्रे व्यपेत्य ।
भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वलोकप्रवीरैः ॥
काले हि शत्रून्परिपीड्य वीरो हत्वा प्रवीरान्वसुधाधिपानाम् ।
रथप्रधानोत्तमनागमुख्या युधिप्रवीरा निहताश्च शूराः ॥
सुदुष्करं कर्म करोति भीमः कर्तुं यथा नार्हति कश्चिदन्यः ।
रथादवस्कन्द्य गदां परामृशं-- स्तथा रणे हन्ति तथैव वारणान् ॥
स कुञ्जराणामधिकं सहस्रं हत्वा नदंस्तुमुलं सिंहनादम् ।
काम्भोजवानायुजपार्वतीया-- नीहामृगाभान्विनिहत्य वाजिनः ॥
महारथान्दविरदाञ्शैलकल्पा-- न्सहेत यः कुञ्जरान्वध्यमानान् ।
असौ भीमो धार्तराष्ट्रेषु मग्नः स मामुपालब्धुमरिन्दमोऽर्हति ॥
वरासिना चाथ नराश्वकुञ्जरां-- स्तथा रथाङ्गैर्धनुषा च हन्त्यरीन् ।
प्रमृद्य पद्ध्यामहितांस्तु हन्ति पुनश्च दोर्भ्यां शतमन्युविक्रमः ॥
महाबलो वैश्रवणान्तकोपमः प्रसह्य हर्ता द्विषतां यशांसि ।
स भीमसेनोऽर्हति गर्हणाय न त्वं नित्यं रक्ष्यमाणः सुहृद्भिः ॥
कलिङ्गवङ्गाङ्गनिपादमागधा-- न्सदा महाशैलवलाहकोपमान् ।
निहन्ति यः शत्रुगणाननेकशः स मां हि वक्तुं प्रभवत्यमानगसम् ॥
संयुक्तमास्थाय रथं हि काले धनुर्विधून्वञ्छरपूर्णमुष्टिः ।
सृजेच्च यो बाणसङ्घान्परेषु महाबलो मेघ इवाम्बुधाराः ॥
शतान्यष्टौ वारणानामदर्शय-- द्विशातितैः कुम्भघटाग्रहस्तैः ।
यो भीमसेनो निहतारिसङ्घः स मामुपालब्धुमरिन्दमोऽर्हति ॥
रथाश्च नागाश्च हयाश्च राज-- न्भीमेनाजौ निहताः सङ्घशोऽद्य ।
राजानश्च बहवो महाबलाः स मामुपालब्धुमरिन्दमोऽर्हति ॥
धृतराष्ट्रपुत्रा बलिनश्च येन महाबला निहताः प्रायशो वै ।
शूरो युद्धे ह्यप्रतिवार्यवीर्यः स मामुपालब्धुमरिन्दमोऽर्हति ॥
प्रतापयंस्तद्बलमुग्ररूपं योऽसौ रमे धार्तराष्ट्रस्य वीरः ।
एकः सहेताप्रतिसह्यपौरुष-- स्तेनास्मि वाच्यो न त्वया वै कदाचित् ॥
महारथा यत्र यत्रैव युद्धे भिन्दन्ति सैन्यं तव कामतोऽद्य ।
तत्रैव तत्रैव रणे महात्मा दृढं भीमः परसङ्घानमृद्रात् ॥
तेनास्मि वाच्यो न त्वया हं कदाचि-- न्मा मा वोचः क्रूरमिहाद्य पार्थ ।
नास्मद्विधो वै भवता तु वाच्यो यथा भवान्सर्वलोकस्य वाच्यः ॥
एवं हि मा ते ब्रुवतो नरेन्द्र कथं न दीर्येच्छतधाऽद्य जिह्वा ।
अहो बतेदं सुनृशंसरूपं कामादवोचस्त्वमिहाद्य यद्वै ॥
बलं न वाधिष्ठितं सत्तमानां यत्क्षत्रियाणां बहुलं वदन्ति ।
त्वं चाबलो भारत निष्ठुरोऽसि त्वमेव मां वेत्सि यथाविधोऽहम् ॥
नकुलेन राजन्गजवाजियोधा हताश्च वीराः सहसा समेत्य ।
त्यक्त्वा प्राणान्समरे युद्धकाङ्क्षी स मामुपालब्धुमरिन्दमोऽर्हति ॥
कृतं कर्म सहदेवेन दुष्करं यो युध्यते परसैन्यावमर्दी ।
न चाब्रवीत्किञ्चिदिहागतो बली पश्यान्तरं तस्य चेवात्मनश्च ॥
धृष्टद्युम्नः सात्यकिर्द्रौपदेया युधामन्युश्चोत्तमौजाः शिखण्डी ।
एतेऽद्य युधि सम्प्रपीडिता-- स्ते मामुलपालब्धुमर्हन्ति न त्वम् ॥
त्वन्मूलमस्माभिरिदं हि वैरं प्राप्तं तथा व्यसनं चातिघोरम् ।
द्यूप्रमत्तेन कृतं त्वयाऽसकृ-- त्कस्मादुपालब्धुमिहार्हसि त्वम् ॥
त्वमेव राजन्सततं प्रमत्त-- स्त्वमेव मूढो भारतानामसाधुः ।
त्वां प्राप्य राज्यं च विनष्टमेत-- त्प्राप्ता महत्पाण्डवाश्चापि दास्यम् ॥
त्वत्तः कृतोऽस्मकद्वनवासदुःखं राज्यस्य नाशो ह्यभिमन्योश्च घोरः ।
आत्मानमेवं सुनृशंसरूपं ज्ञात्वा किमर्थं गर्हसे माद्य वीर ॥
लज्जस्व राजन्यदि तेऽस्ति लज्जा तूष्णीम्भूतः पश्य सर्वं कृतघ्नः ।
भीमो नित्यं समरस्य कर्ता दर्पस्य भेत्ता पुनरेव नित्यम् ॥
स्वयं ह्यशक्तेन नरेन्द्र युद्धे नरेण कार्या सततं क्षमैव ।
बलं हि वाचि द्विजसत्तमानां क्षात्रं द्विजा बाहुबलं वदन्ति ॥
त्वं वाग्बलो भारत निष्ठुरोऽसि त्वमेव मां वेत्सि यथाविधोऽहम् ।
घटामि नित्यं तव कर्तुमिष्टं दारैः सुतैर्जीवितेनात्मना च ॥
एवञ्च मां वाक्छलाकैर्हिनत्सि त्वत्तः सुखं न वयं विद्म किञ्चित् ।
मा मामवंस्था द्रौपदीतल्पकसंस्थो महारथान्प्रतिहन्मि त्वदर्थे ॥
सर्वातिशङ्की भवसि प्रमत्त-- स्त्वत्तः सुखं नाभिजानामि किञ्चित् ।
प्रोक्तः स्वयं सत्यसन्धेन मृत्यु-- स्तव प्रियार्थं नरदेव युद्धे ॥
शिखण्डिनाम्ना प्रधने तवार्थे मयाभिगुप्तेन हतश्च भीष्मः ।
द्रोणो हतो यः सततोपकारी धृष्टद्युम्नेन स्यन्दनाद्विप्रकृष्टः ॥
द्रौणिश्च रुद्धः सगणो महात्मा तथापि ते वै वचनं नृशंसवत् ।
दुःखं प्रियं ते नरदेव कर्तुं यस्य प्रियं ते न करोम्यहं वै ॥
न युच्यते वै दिवि चेह यः पुमा-- न्यस्ते मदन्योऽप्रियमारभेत ।
न चाभिनन्दामि तथाहि राज्यं यतस्त्वमक्षेषु दृढं प्रसक्तः ॥
स्वयं कृतं पापमनार्यजुष्ट-- मस्माभिराजौ व्यसनं तितीर्षसि ॥
अक्षेषु दोषा बहवो विधर्म्याः श्रुतास्त्वया सहदेवोऽब्रवीद्यान् ॥
तान्नेच्छसि त्यक्तुमनार्यजुष्टा-- न्घोरे स्म सर्वे निरये त्वयाऽस्ताः ।
त्वं देविता त्वत्कृते राज्यनाशं-- स्त्वत्सम्भवं व्यसनं नो नरेन्द्र ॥
मास्मान्क्रूरैर्षाक्प्रतोदैस्तुदस्त्वं भूयो राजन्कोपयस्यल्पबुद्ध्या ॥
सञ्जय उवाच ।
एता वाचः परुषाः सव्यसाची स्थिरप्रतिज्ञः श्रावयित्वा नरेन्द्रम् ।
विनिः श्वसञ्ज्येष्ठमनिष्टमुक्त्वा ततस्तु कोशादसिमुद्वबर्ह ॥
तमाह कृष्णः किमिदं पुनर्भवा-- न्विकोशमाकाशनिभं करोत्यसिम् ।
प्रब्रूहि सत्यं पुनरुत्तरं सखे वचः प्रवक्ष्याभि तवार्थसिद्धये ॥
इतीव पृष्टः पुरुषोत्तमेन सुदुःखितः केशवमाह पार्थः ।
अहं हनिष्ये स्वशरीरमेत-- त्प्रसह्य येनाहितमुक्तवान्गुरुम् ॥
निशम्य तत्पार्थवचोऽब्रवीदिदं जनार्दनो धर्मभृतां वरिष्ठः ।
प्रब्रूहि पार्थ स्वगुणानिहात्मन-- स्ततो हतात्मा भवसीति निश्चयः ॥
तथा तु कृष्णस्य वचो निशम्य ततोऽर्जुनः प्राह धनुः प्रगृह्य ।
युधिष्ठिरं धर्मभृतां वरिष्ठं शृणुष्व राजन्निति दुर्वचः स्वयम् ॥
अर्जुन उवाच ।
न मादृशोऽन्यो नरदेव विद्यते धनुर्धरो देवमृते पिनाकिनम् ।
अहं हि तेनानुमतो महात्मना
क्षणेन हन्यां सचराचरं जगत् ॥
मया हि राजन्सदिगीश्वरा दिशो विजित्य सर्वा भवतः कृता वशे ।
स राजसूयश्च समाप्तदक्षिणः सभा च दिव्या भवतो ममौजसा ॥
पाणी पृषत्कालिखिताविमौ पुन-- र्धनुश्च सव्ये विततं सबाणम् ।
पादौ च मे लक्षणतः प्रशस्तौ न मादृशं युद्धगतं जयन्ति ॥
हता उदीच्या निहताः प्रतीच्याः प्राच्या निरस्ता दाक्षिणात्या विशस्ताः ।
संशप्तकानां किञ्चिदेवावशिष्टं सर्वस्य लोकस्य हतं मयाऽर्धम् ॥
शेते मया निहता शत्रुसेना छिन्नैर्गात्रैर्भूमितले स्खलन्ती ।
अनस्त्रज्ञान्नैव निहन्मि चास्त्रै-- स्तस्मान्न भस्मैव करोमि लोकान् ॥
जैत्रं रथं भीममास्थाय कृष्ण यावच्छीघ्रं सूतपुत्रं निहन्तुम् ।
राजा भवत्वद्य सुनिर्वृतोऽयं कर्णं रणे नाशयितास्मि बाणैः ॥
इत्येवमुक्त्वा पुनराह पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम् ।
अद्यापुत्रा सूतमाता भवित्री कुन्ती वाथो वा मया तेन वापि । सत्यं वदाम्यद्य न कर्णमाजौ शरैरहत्वा कवचं विमोक्ष्ये ॥
सञ्जय उवाच ।
इत्येवमुक्त्वा पुनरेव पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम् ।
विमुच्य शस्त्राणि धनुर्विसृज्य कोशे च खङ्गं विनिधाय तूर्णम् ॥
स व्रीडया नम्रशिराः किरीटी युधिष्ठिरं प्राञ्जलिरभ्युवाच ।
प्रसीद राजन्क्षम यन्मयोक्तं काले भवान्वेत्स्यति तन्नमस्ते ॥
ततस्तु पादावुपगृह्य पार्थः समुत्थितो दीप्ततेजाः किरीटि ।
प्रसाद्य राजानममित्रसाहं स्थितोऽब्रवीच्चैनमभिप्रतप्तम् ॥
याम्येष भीमं समराद्विमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम् ।
भवत्प्रियार्थं मम जीवितं हि ब्रवीमि सत्यं तदवेहि राजन् ॥
नेदं चिरात्क्षिप्रमिदं भविष्य-- दावर्ततेऽसावभियामि चैनम् ।
अद्याप्यपुत्रा तेन हतेन राधा कुन्ती मया वा तदिदं विद्धि राजन् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिसप्ततितमोऽध्यायः ॥ 73 ॥

8-73-29 सत्यसन्धेन भीष्मेण ॥ 8-73-73 त्रिसप्ततितमोऽध्यायः ॥

श्रीः