अध्यायः 076

कर्णेन योद्धुंनिर्गच्छतोऽर्जुनस्य शुभनिमित्तप्रादुर्भावः ॥ 1 ॥ श्रीकृष्णेनार्जुनस्य प्रोत्साहनम् ॥ 2 ॥

सञ्जय उवाच ।
प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना । सम्पूज्य देवताः सर्व ब्राह्मणान्स्वस्ति वाच्य च ।
सुमङ्गलं स्वस्त्ययनमारुरोह रथोत्तमम् ॥
तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः ।
आशिषोऽयुङ्क्त परमाः युक्तं कर्णरथं प्रति ॥
तमायान्तं महेष्वासं दृष्ट्वा भूतानि भारत ।
निहतं मेनिरे कर्णं पाण्डवेन महात्मना ॥
बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः । चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर ।
प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् ॥
बहवः पक्षिणो राजन्पुन्नामानः शुभाः शिवाः ।
त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे ॥
कङ्का गृध्रा बकाः श्येना वायसाश्च विशाम्पते ।
अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः ॥
निमित्तानि च धन्यानि पाण्डवस्य शशंसिरे ।
विनाशमरिसैन्यानां कर्णस्य च वधं तथा ॥
प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत ।
चिन्ता च विपुला जज्ञे कथं चेदं भविष्यति ॥
विषण्णं तु ततो ज्ञात्वा सव्यसाचिनमच्युतः ।
सञ्चोदयति तेजस्वी मधुहा वानरध्वजम् ॥
ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः ।
दृष्ट्वा पार्थं तथायान्तं चिन्तापरिगतं तदा ॥
गाण्डीवधन्वन्सङ्ग्रामे ये त्वया धनुषा जिताः ।
न तेषां मानुषो जेता त्वदन्य इह विद्यते ॥
एते हि बहवः शूराः शक्रतुल्यपराक्रमाः ।
त्वां प्राप्य समरे शूरं प्रयाताः परमां गतिम् ॥
को हि द्रोणं च भीष्मं च भगदत्तं च मारिष ।
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम् ॥
श्रुतायुं चाश्रुतायुं च शतायुं च महारथम् ।
प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वद्विधः प्रभुः ॥
तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च । असम्मोहश्च युद्धेषु विज्ञानस्य च सन्नतिः ।
वेधः पातश्च लक्षेषु योगश्चैव तथार्जुन ॥
भवान्देवान्सगन्धर्वान्हन्यात्सर्वांश्च राक्षसान् ।
पृथिव्यां तु रणे पार्थ न योद्धा त्वत्समः पुमान् ॥
धनुर्गृह्मन्ति ये केचित्क्षत्रिया युद्धदुर्मदाः ।
आत्मनस्तु समं तेषां न पश्यामि शृणोमि च ॥
ब्रह्मणा हि प्रजाः सृष्टा गाण्डीवं च महद्धनुः ।
येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः ॥
अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव ।
मावमंस्था महाबाहो कर्णमाहवशोभिनम् ॥
कर्णो हि बलवान्दृप्तः कृतास्त्रश्च महारथः ।
कृती च चित्रयोधी च देशकालस्य कोविदः ॥
बहुनात्र किमुक्तेन संक्षेपाच्छृणु पाण्डव । त्वत्समं त्वद्विशिष्टं वा कर्णं मन्ये महारथम् ।
परमं यत्नमास्थाय त्वया वध्यो महाहवे ॥
तेजसा वह्निसदृशो वायुवेगसमो जवे ।
अन्तकप्रतिमः क्रोधे सिंहसंहननो बली ॥
अष्टरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः ।
अभिमानी च शूरश्च प्रवीरः प्रियदर्शनः ॥
सर्वयोधगुणैर्युक्तो मित्राणामभयङ्करः ।
सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः ॥
सर्वैरवध्यो राधेयो देवैरपि सवासवैः ।
ऋते त्वामिति मे बुद्धिस्तदद्य जहि सूतजम् ॥
देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम् । अशक्यः स रथो जेतुं सर्वैरपि युयुत्सुभिः ॥
दुरात्मानं पापवृत्तं नृशंसं दुष्टप्रज्ञं पाण्डवेयेषु नित्यम् ।
हीनस्वार्थं पाण्डवेयैर्विरोधे हत्वा कर्णं निश्चितार्थो भवाद्य ॥
तं सूतपुत्रं रथिनां वरिष्ठं निष्कालिकं कालवशं नयाद्य ।
तं सूतपुत्रं रथिनां वरिष्ठं हत्वा प्रीतिं धर्मराजे कुरुष्व ॥
जानामि ते पार्थं वीर्यं यथाव-- द्दुर्वारणीयं च सुरासुरैश्च ।
सदावजानाति हि पाण्डुपुत्रा-- नसौ दर्पात्सूतपुत्रो दुरात्मा ॥
आत्मानं मन्यते वीरं येन पापः सुयोधनः ।
तमद्य मूलं पापानां जहि सौतिं धनञ्जय ॥
खङ्गजिह्वं धनुरास्यं शरदंष्ट्रं तरस्विनम् ।
दृप्तं पुरुषशार्दूलं जहि कर्णं धनञ्जय ॥
अहं त्वामनुजानामि वीर्येण च बलेन च ।
जहि कर्णं रणे शूरं मातङ्गमिव केसरी ॥
यस्य वीर्येण वीर्यं ते धार्तराष्ट्रोऽवमन्यते ।
तमद्य पार्थ सङ्ग्रामे कर्णं वैकर्तनं जहि ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट््सप्ततितमोऽध्यायः ॥ 76 ॥

8-76-23 रत्निस्त्वेकविंशत्यङ्गुलः । अष्टानां रत्नीनां अष्टषष्ट्यधिकं शतं अङ्गुलानि च भवन्ति ॥ 8-76-28 निष्कालिकं निर्गतः कालयिता जेतास्येति तम् ॥ 8-76-76 षट््सप्ततितमोऽध्यायः ॥

श्रीः