अध्यायः 077

कृष्णेनार्जुनम्प्रति भीष्मादियुद्धनिधनप्रकारानुवादपूर्वकं तेषां वधे तस्यैव मुख्यकारणत्वकथनम् ॥ 1 ॥ वाल्यात्प्रभूति दुर्योधनापनयानुस्मराणपूर्वकं सर्वत्र कर्णस्यैव मूलतया महापराधित्वद्योतनेन तस्यावश्यं हननविधानम् ॥ 2 ॥

सञ्जय उवाच ।
ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत् ।
कृतसङ्कल्पमायान्तं वधे कर्णस्य भारत ॥
अद्य सप्तदशाहानि वर्तमानस्य नित्यशः ।
विनाशस्यातिघोरस्य नरवारणवाजिनाम् ॥
भूत्वा हि विपुला सेना तावकानां परैः सह ।
अन्योन्यं समरं प्राप्य किञ्चिच्छेषा विशाम्पते ॥
भूत्वा वै कौरवाः पार्थ प्रभूतगजवाजिनः ।
त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि ॥
एते ते पृथिवीपालाः सृञ्जयाश्च समागताः ।
त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः ॥
पाञ्चालैः पाण्डवैर्मात्स्यैः कारूशैश्चेदिभिः सह । `मगधैः पारिजातैश्च दाक्षिणात्यैः सकेरलैः' ।
त्वया गुप्तैरमित्रघ्नैः कृतः शत्रुगणक्षयः ॥
को हि शक्तो रणे जेतुं कौरवांस्तात संयुगे ।
अन्यत्र पाण्डवाद्युद्धे श्वेताश्वाद्वानरध्वजात् ॥
शक्तस्त्वं हि रणे जेतुं ससुरासुरमानुषान् ।
त्रींल्लोकान्समरे युक्तान्किं पुनः कौरवं बलम् ॥
भगदत्तं च राजानं कोऽन्यः शक्तस्त्वया विना ।
जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः ॥
तथेमां विपुलां सेनां गुप्तां पार्थ त्वयाऽनघ ।
न शेकुः पार्थिवाः सर्वे चक्षुर्भिरपि वीक्षितुम् ॥
तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे ।
धृष्टद्युम्नशिखण़्डिभ्यां द्रोणभीष्मौ निपातितौ ॥
को हि शक्तो रणे पार्थ भारतानां महारथौ ।
भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ ॥
को हि शान्तनवं भीष्मं द्रोणं वैकर्तनं कृपम् ।
द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च ॥
सैन्धवं मद्रराजं च राजानं च सुयोधनम् ।
वीरान्कृतास्त्रान्समरे सर्वानेवानिवर्तिनः ॥
अक्षौहिणीपतीनुग्रान्संहतान्युद्धदुर्मदान् ।
त्वामृते पुरुषव्याघ्र जेतुं शक्तः पुमानिह ॥
श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः ।
नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम् ॥
गणाश्च दासमीयानां वसातीनां च भारत । प्राच्यानां वाटधानानां भोजानां चाभिमानिनाम् ।
उदीर्णाश्वगजा सेना सर्वक्षत्रस्य भारत ।
त्वां समासाद्य निधनं गता भीमं च भारत ॥
उग्राश्च भीमकर्माणस्तुषारा यवनाः खशाः ।
दार्वाभिसारा दरदाः शका माठरतङ्कणाः ॥
आन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः ।
म्लेच्छाश्च पर्वतीयाश्च सागरानूपवासिनः ॥
संरम्भिणो युद्धशौण्डा बलिनो दण्डपाणयः ॥
एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह ।
न शक्या युधि निर्जेतुं त्वदन्येन परन्तप ॥
धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महद्बलम् ।
यदि त्वं न भवेस्त्राता प्रतीयात्को नु मानवः ॥
तत्सागरमिवोद्वूतं रजसा संवृतं बलम् ।
विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो ॥
मागधानामधिपतिर्जयत्सेनो महाबलः ।
अद्य सप्तैव चाहानि हतः सङ्ख्येऽभिमन्युना ॥
ततो दशसहस्राणि गजानां भीमकर्मणाम् ।
जघान गदया भीमस्तस्य राज्ञः परिच्छदम् ॥
तथान्येऽभिहता नागा रथाश्च शतशो बलात् ।
तदेवं समरे पार्थ वर्तमाने महाभये ॥
भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः ।
सवाजिरथमातङ्गा मृत्युलोकमितो गताः ॥
तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः ।
भीष्मः प्रासृजदुग्राणि शरतालानि मारिष ॥
सचेदिकाशिपाञ्चालान्करूशान्मात्स्यकेकयान् ।
शरैः प्रच्छाद्य निधनमनयत्परमास्त्रवित् ॥
तस्य चापच्युतैर्बाणैः परदेहविदारणैः ।
पूर्णमाकाशमभवद्रुक्मपुह्खैरजिह्मगैः ॥
हन्याद्रथसहस्राणि एकैकेनैव मुष्टिना ।
लक्षं नरद्विपान्हत्वा समेतान्समहाबलान् ॥
गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान् ।
हित्वा नवगतीर्दुष्टाः स बाणानाहवेऽत्यजत् ॥
दिनानि दश भीष्मेण निघ्नता तावकं बलम् ।
शून्याः कृता रथोपस्था हताश्च गजवाजिनः ॥
`दशमेऽहनि सम्प्राप्ते कृत्वा घोरं पराक्रमम्' ।
दर्शयित्वाऽऽत्मनो रूपं रुद्रोपेन्द्रसमं युधि ॥
पाण्डवानामनीकानि प्रविगाह्य विशाम्पते ।
विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान् ॥
अहनत्पाण्डवीं सेनां रथाश्वगजसङ्कुलाम् ।
मज्जन्तमप्लुवे मन्दमुज्जिहीर्षुः सुयोधनम् ॥
तथा चरन्तं समरे तपन्तमिव भास्करम् ।
पदातिकोटिसाहस्राः प्रवरायुधपाणयः ॥
न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः ।
विचरन्तं तथा तं तु सङ्ग्रमे जितकाशिनम् ॥
सर्वोद्यमेन महता पाण्डवान्समभिद्रवत् । स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि ।
एक एव रणे भीष्म एकवीरत्वमागतः ॥
तं शिखण्डी समासाद्य त्वया गुप्तो महाव्रतम् ।
जघान पुरुषव्याघ्रं शरैः सन्नतपर्वभिः ॥
स एष पतितः शेते शरतल्पे पितामहः ।
त्वां प्राप्य पुरुषव्याघ्रं वृत्रः प्राप्येव वासवम् ॥
द्रोणः पञ्चदिनान्युग्रो विधम्य रिपुवाहिनीम् ।
कृत्वा व्यूहमभेद्यं च पातयित्वा महारथान् ॥
जयद्रथस्य समरे कृत्वा रक्षां महारथः ।
अन्तकप्रतिमश्चोग्रो रात्रियुद्धेऽदहत्प्रजाः ॥
दग्ध्वा योधाञ्छरैर्वीरो भारद्वाजः प्रतापवान् ।
धृष्टद्युम्नं समासाद्य स गतः परमां गतिम् ॥
यदि वाऽद्य भवान्युद्धे सूतपुत्रमुखान्रथान् ।
नावारयिष्यः सङ्ग्रामे न स्म द्रोणो व्यनङ्क्ष्यत ॥
भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम् ।
ततो द्रोणो हतो युद्धे पार्षतेन धनञ्जय ॥
कश्च शक्तो रणे कर्तुं त्वदन्यः पुरुषब्रुवः ।
यादृशं ते कृतं पार्थ जयद्रथवधं प्रति ॥
निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान् ।
निहतः सैन्धवो राजा त्वयाऽस्त्रबलतेजसा ॥
आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः ।
अनाश्चार्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः ॥
त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत ।
नश्यमानमहं युक्तं मन्येयमिति मे मतिः ॥
सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे ।
हतसर्वस्वभूयिष्ठा भीष्मद्रोणौ हतौ यथा ॥
शीर्णप्रवरयोधाढ्या हतवाजिरथद्विपा ।
हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती ॥
विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रम ।
आसुरीव महासेना देवराजपराक्रमैः ॥
तेषां हतावशिष्टास्तु सन्ति पञ्च महारथाः ।
द्रौणिश्च कृतवर्मा च कर्णो मद्राधिपः कृपः ॥
तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान् ।
हतामित्रः प्रयच्छोर्वी राज्ञे सद्वीपपत्तनाम् ॥
साकाशजलपातालां सपर्वतमहावनाम् ।
प्रयच्छामितवीर्याय पार्थायाद्य वसुन्धराम् ॥
एतां पुरा विष्णुरिव हत्वा दैतेयदानवान् ।
प्रयच्छ मेदिनीं राज्ञे शक्रायैव हरिर्यथा ॥
अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया ।
विष्णुना निहतेष्वेव दानवेयेषु देवताः ॥
यदि वा द्विपदां श्रेष्ठं द्रोणं मानयतो गुरुम् ।
अश्वत्थाम्नि कृपा तेऽस्ति कृपे वाचार्यगौरवात् ॥
अत्यन्तापचितान्बन्धून्मानयन्मातृबान्धवान् ।
कृतवर्माणमासाद्य न नेष्यासि यमक्षयम् ॥
भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम् ।
यदि त्वमरविन्दाक्ष दयावान्न जिघाससि ॥
एतत्ते सुकृतं कर्म नात्र किञ्चन विद्यते ।
वयमप्यनुजानीमो नात्र दोषोऽस्ति कश्चन ॥
इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति ।
कर्णमद्य नरश्रेष्ठ जहि पार्थ शितैः शरैः ॥
दहने यत्सपुत्राया निशि मातुस्तवानघ । द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः ।
तस्य सर्वस्य दुष्टात्मा कर्णो वै मूलमित्युत ॥
प्रोत्साहयति दुष्टात्मा धार्तराष्ट्रं सुदुर्मतिम् ।
समितौ गदते कर्णस्तमद्य जहि भारत ॥
यश्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान् ।
तस्य सर्वस्य दुर्बुद्धिः कर्णो मूलमिहार्जुन ॥
कर्णं हि मन्यते त्राणं नित्यमेव सुयोधनः ।
ततो मामपि संरब्धो निग्रहीतुं पराक्रमात् ॥
स्थिता बुद्धिर्नरेन्द्राणां धार्तराष्ट्रस्य चोभयोः ।
कर्णः पार्थान्रणे सर्वान्नाशयिष्यति सायकैः ॥
कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रस्य विग्रहः ।
रुचितो भवता सार्धं जानतोऽपि बलं तव ॥
कर्णो जल्पति वै नित्यमहं पार्थान्समागतान् । वासुदेवं च दाशार्हं विजेष्यामि महारणे ।
समितौ वल्गते कर्णस्तमद्य जहि फल्गुन ॥
यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रतापवान् ।
सभायां कृतवान्नित्यं कर्णमाश्रित्य वै पुरा ॥
यच्च तं धार्तराष्ट्राणां षड्भिः शूरैर्महारथैः ।
पश्यतां संवृतं शूरं सौभद्रमपराजितम् ॥
द्रोणद्रौणिकृपान्वीरान्कम्पयानं महेषुभिः ।
विधमन्तमनीकानि प्रमथन्तं महारथान् ॥
मनुष्यवाजिमातङ्गान्प्रेषयन्तं यमक्षयम् ।
शरैः सौभद्रमायान्तं दहन्तमरिवाहिनीम् ॥
निर्मनुष्याश्च मातङ्गा विरथाश्च महारथाः ।
प्रद्रवन्ति स्म समरे दिशो भीताऽभिमन्यवे ॥
विगतासूंश्च तुरगान्पत्तीन्व्यायुधजीवितान् । कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम् ।
तन्मे दहति गात्राणि सखे सत्येन ते शपे ॥
यत्तदासीत्सुदुष्टात्मा कर्णो विनिहतः प्रभुः ।
न शक्तो ह्यभिमन्योस्तु कर्णः स्थातुं रणाग्रतः ॥
सौभद्रशरनिर्भिन्नो विसंज्ञः शोणितोक्षितः ।
निश्वसन्क्रोधसन्दीप्तो विमुखः सायकार्दितः ॥
तस्थौ स विह्वलः सङ्ख्ये प्रहारजनितच्छविः ।
अपयानकृतोत्साहो निरुत्साहश्च भारत ॥
दुर्योधनं रणे दृष्ट्वा लज्जमानो मुहुर्मुहुः ।
नापयासीत्तततः पार्थ सोऽभिमन्योर्महारणे ॥
दृष्ट्वा द्रोणं वधोपायमभिमन्योश्च पृष्टवान् ।
श्रुत्वा द्रोणवचः क्रूरं ततश्चिच्छेद कार्मुकम् ॥
ततश्छिन्नायुधं तेन दृष्ट्वा पञ्च महारथाः ।
स चैव निकृतिप्राज्ञः प्राहिणोच्छरवृष्टिभिः ॥
प्रहसन्स तु दुष्टात्मा कर्णो राजा च कौरवः । यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ।
प्रमुखे पाण्डवेयानां कुरूणां चैव पश्यताम् ॥
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ।
पतिमन्यं पृथुश्रोणि वृणीष्व मृदुभाषिणि ॥
एषा त्वं धृतराष्ट्रस्य दासीभूता निवेशनम् ।
प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव ॥
न पाण्डवाः प्रभवन्ति तव कृष्णे कथञ्चन ।
दासभार्या च पाञ्चालि स्वयं दासी च शोभने ॥
अद्य दुर्योधनो राजा पृथिव्यां नृपतिः स्मृतः ।
सर्वे चास्य महिपाला योगक्षेममुपासते ॥
पश्येदानीं यदा भद्रे निविष्टाः पाण्डवाः समम् ।
अन्योन्यं समुदीक्षन्ते धार्तराष्ट्रस्य तेजसा ॥
व्यक्तं षण्डतिला ह्येते नरके च निमज्जिताः ।
प्रेष्यवच्चापि राजानमुपस्थास्यन्ति कौरवम् ॥
उक्तवान्स च पातात्मा तथा परमदुर्मतिः ।
पापः पापवचः कर्णः पश्यतस्ते धनञ्जय ॥
अस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः ।
शमयन्ति शिलाधौता नाशयन्तोऽस्य जीवितम् ॥
अद्य कर्णं रणे ग्रस्तं पश्यन्तु कुरवस्त्वया ।
स्वर्गावतरणे यत्नं स्वर्गद्वारगतं यथा ॥
अद्य ते समरे वीर्यं पश्यन्तु कुरुयोधिनः ।
सूतपुत्रे हते पार्थ जानन्तु त्वां महारथम् ॥
अद्य काकवला गृध्रा वायसा जम्बुकास्तथा ।
विप्रकर्षन्तु गात्राणि सूतपुत्रस्य मारिष ॥
अद्याधिरथिराक्षिप्तो निहतश्च त्वया रणे ।
कुरूणां शोकमाधत्तां पाण्वानां मुदं तदा ॥
अद्य त्वां प्रतिमर्दन्तु पाञ्चालाः पाण्डवैः सह ।
यथा वृत्रवधे वृत्ते देवाः सर्वे शतक्रतुम् ॥
अद्य कर्णं रणे हत्वा प्राप्य चैवोत्तमं यशः ।
विशोको विज्वरः पार्थ भव बन्धुपुरस्कृतः ॥
नरसिंहवपुः कृत्वा यथा शस्तो महासुरः ।
हिरण्यकशिपुर्दैत्यो विष्णुना प्रभविष्णुना ॥
तथा त्वमपि राधेयं घोरां कृत्वा महातनुम् ।
जहि युद्धे महाबाहो त्रायस्व च भयात्स्वकान् ॥
कर्णं हाहाकृतं दीनं विषण्णं त्वच्छरार्दितम् ।
प्रपतन्तं महीं कर्णं पश्यन्तु वसुधाधिपाः ॥
तं च स्वशोणिते मग्नं शयानं पतितं भुवि ।
अपविद्धायुकधं कर्णमद्य पश्यन्तु बान्धवाः ॥
तच्चैवाद्य महत्कर्म गाण्डीवप्रेषितैः शरैः ।
रथोपस्थे विशीर्येत ताराराज इवाम्बरात् ॥
आशु चाद्य शरास्तस्य सम्पतन्तो महाजवैः ।
त्वच्छरैः सन्निकृत्ताग्रा विशीर्यन्ते महीतले ॥
त्वया चाद्य हते तस्य विक्रमे भरतर्षभ ।
विमुखाः सर्वराजानो भवन्तु गतजीविताः ॥
तथा चाधिरथौ याते प्रयान्तु कुरवो दिशः ।
मन्वानास्तं रथश्रेष्ठं सर्वलोकेषु धन्विनाम् ॥
स वै चाद्य भयात्त्यक्त्वा धार्तराष्ट्रो महाचमूम् ।
दुर्योधनो भयोद्विग्नो द्रवतु स्वं निवेशनम् ॥
तथा चाद्य हतं श्रुत्वा धृतराष्ट्रो जनेश्वरः ।
क्षणेन निपतेद्भूमौ विसंज्ञो वै महीपतिः ॥
अद्य जानन्तु ते पार्थ विक्रमं सर्वयोधिनः ।
यदुवाच सभामध्ये परुषं भारत त्वयि ॥
यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि ।
तान्यद्य भरतश्रेष्ठ नाशयन्तु शरास्तव ॥
शान्तिं कुरु परिक्लेशा कृष्णायाः शत्रुपातन ।
हत्वा शत्रुं रणे श्लाघ्यं गर्जन्तमतिपौरुषम् ॥
अद्य चाधिरथिर्वेद्धस्तव बाणैः समन्ततः ।
मन्यतां त्वां नरव्याघ्र प्रवरं सर्वधन्विनाम् ॥
गाण्डीवप्रसृतान्वाणानद्य गात्रस्पृशः शरान् ।
यातु कर्णो रणे पार्थ श्वाविच्छललतो यथा ॥
तं कथं कर्णमासाद्य विद्रवेयुर्महारथाः । यस्त्वेकः सर्वपाञ्चालानहन्यहनि नाशयन् ।
कालवच्चरते वीर पाञ्चालानां रथव्रजे ॥
तमप्यासाद्य समरे मित्रार्थे मित्रवत्सल । तथा ज्वलन्तमस्त्रैश्च शूरं सर्वधनुष्मताम् ।
निर्दहन्तं समारूढं दुर्धर्षं द्रोणमञ्जसा ॥
ते नित्यमुदिता जेतुं युधि शत्रुमरिन्दमाः ।
न चेदाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः ॥
तेषामापततां शूरः पाञ्चालानां तरस्विनाम् ।
आदत्तासूञ्शरैः कर्णः पतङ्गानामिवानलः ॥
एते द्रवन्ति पाञ्चाला द्राव्यन्ते योधिभिर्ध्रुवम् ।
कर्णेन भरतश्रेष्ठ पश्यपश्य तथाकृतान् ॥
तान्समारोहतः शूरान्मित्रार्थे त्यक्तजीवितान् ।
निस्तारय महाबाहो कर्णास्त्रात्पावकोपमात् ॥
अस्त्रं हिरामात्कर्णेन भार्गवादृषिसत्तमात् ।
यदवाप्तं तदा घोरं तस्य रूपमुदीर्यते ॥
तापनं सर्वसैन्यस्य घोररूपं भयानकम् ।
यमाश्रित्य महासेना ज्वलते स्वेन तेजसा ॥
एते चरन्ति सङ्ग्रामे कर्णचापच्युताः शराः ।
प्रभया इह शत्रूणां घातयन्तो जनान्प्रभो ॥
एते भ्रमन्ति पाञ्चाला उत्क्रयन्ति च मारिष ।
कर्णास्त्रं समरे प्राप्य दुर्निवार्यं महात्मभिः ॥
एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः ।
सृञ्जयैर्योऽजयत्कर्णं पीड्यते निशितैः शरैः ॥
पाञ्चालान्सृञ्जयांश्चैव पाण्डवांश्चैव भारत ।
उपेक्षितो दहेत्कर्णो रोगो देहमिवान्तकः ॥
नान्यं त्वत्तो हि पश्यामि योधं यौधिष्ठिरे बले ।
यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहान् ॥
तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ ।
यथा प्रतिज्ञां त्व पार्थ तीर्त्वा कीर्तिमवाप्स्यसि ॥
त्वं हि शक्तो रणे कर्णं विजेतुं सह पार्थिवैः ।
नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥
एतत्कृत्वा महत्कार्म हत्वा कर्णं महारथम् ।
कृतार्थः सफलः पार्थ सुखी भव नरोत्तम ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तसप्ततितमोऽध्यायः ॥ 77 ॥

8-77-23 यदि त्वं त्राता न भवेस्तर्हि तद्धार्तराष्ट्रं बलं कोनु प्रतीयाद्गच्छेदिति सम्बन्धः ॥ 8-77-51 त्वांहीति । क्षणेन सर्वं भस्मीकर्तुं समर्थं त्वां प्राप्य एकाहान्नश्यमानं क्षत्रं युक्तं बलवत्तरं मन्येयं जानीयाम् । क्षणेन नाश्यमपि पूर्णैकाहपर्यन्तं स्थायित्वादिति भावः ॥ 8-77-111 परिक्लेशा परिक्लेशानाम् ॥ 8-77-77 सप्तसप्ततितमोऽध्यायः ॥

श्रीः