अध्यायः 081

पार्थपराक्रमः ॥ 1 ॥ भीमेन दुर्योधनचोदितस्य शकुनेः पराजयः ॥ 2 ॥

सञ्जय उवाच ।
श्रुत्वा तु रथनिर्घोषं सिंहनादं च संयुगे ।
अर्जुनः प्राह गोविन्दं शीघ्रं वाहय वाजिनः ॥
अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत् ।
एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः ॥
तं यान्तमश्वा हिमशङ्खवर्णाः सुवर्णमुक्तामणिजालनद्धाः ।
जम्भं जिघांसुं प्रगृहीतवज्रं हया यथा तत्र यथा वहंस्तदा ॥
रथाश्वमातङ्गपदातिसङ्घा बाणस्वनैर्नेमिखुरस्वनैश्च ।
सन्नादयन्तो वसुधां दिशश्च क्रुद्धा नृसिंहा जयमभ्युदीयः ॥
तेषां च पार्थस्य च मारिषासी-- द्देहासुपापक्षपणं सुयुद्धम् ।
त्रैलोक्यहेतोरसुरैर्यथासी-- द्देवस्य विष्णोर्जयतां वरस्य ॥
तैरस्तमुच्चावचमायुधं त-- देकः प्रचिच्छेद किरीटमाली ।
क्षुरार्धचन्द्रैर्निशितैश्च भल्लैः शिरांसि तेषां बहुधा च बाहून् ॥
छत्राणि वालव्यजनानि केतू-- नश्वान्रथान्पत्तिगणान्द्विपांश्च ।
ते पेतुरुर्व्यां बहुधा विकृत्ता वातप्रणुन्नानि यथा वनानि ॥
सुवर्णजालावनता महागजाः सवैजयन्तीध्वजयोधकल्पिताः ।
सुवर्णपुङ्घैरिषुभिः समाचिता-- शकाशिरे प्रज्वलिता यथाचलाः ॥
विदार्य नागाश्वरथान्धञ्जयः शरोत्तमैर्वासववज्रसन्निभैः ।
द्रुतं ययौ कर्णजिघांसया तथा यथा मरुत्वान्बलभेदने पुरा ॥
ततः स पुरुषव्याघ्रस्तव सैन्यमरिन्दमः ।
प्रविवेश महाबाहुर्मकरः सागरं यथा ॥
तं हृष्टास्तावका राजन्रथपत्तिसमन्विताः ।
गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् ॥
तेषामापततां पार्थमारावः सुमहानभूत् ।
सागरस्येव क्षुब्धस्य यथा स्यात्सलिलस्वनः ॥
ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः ।
अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा प्राणकृतं भयम् ॥
तेषामापततां तत्र शरवर्षाणि मुञ्चताम् ।
अर्जुनो व्यधमत्सैन्यं महावातो घनानिव ॥
तेऽर्जुनं सहिता भूत्वा रथवंशैः ग्रहारिणः ।
अभियाय महेष्वासा विव्यधुर्निशितैः शरैः ॥
ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् ।
प्रेषयामास विशिखैर्यमस्य सदनं प्रति ॥
ते वध्यमानाः समरे पार्थचापच्युतैः शरैः ।
तत्रतत्र स्म लीयन्ते भये जाते महारथाः ॥
तेषां चतुःशतान्वीरान्यतमानान्महारथान् ।
अर्जुनो निशितैर्बाणैरनयद्यमसादनम् ॥
ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः ।
अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो दश ॥
तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे ।
मेघौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः ॥
तां तु सेनां भृशं विद्ध्वा द्रावयित्वाऽर्जुनः शरैः ।
प्रायादभिमुखः पार्थः सूतानीकं हि मारिष ॥
तस्य शब्दो महानासीत्परानभिमुखस्य वै ।
गरुडस्येव पततः पन्नगार्थे यथा पुरा ॥
तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः ।
बभूव परमप्रीतः पार्थदर्शनलालसः ॥
श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान् ।
त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह ॥
स वायुवीर्यप्रतिमो वायुवेगसमो जवे ।
वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान् ॥
तेनाद्यमाना राजेन्द्र सेना तव विशाम्पते ।
व्यभ्रश्यत महाराज भिन्ना नौरिव सागरे ॥
तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम् ।
शरैरवचकर्तोग्रैः प्रेपयिष्यन्यमक्षयम् ॥
तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम् ।
व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये ॥
तथाऽर्दितान्भीमबलान्भीमसेनेन भारत ।
दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत् ॥
सैनिकांश्च महेष्वासान्योधांश्च भरतर्षभ ।
समादिशन्रणे सर्वान्हत भीममिति स्म ह ॥
तस्मिन्हते हतं मन्ये पाण्डुसैन्यमशेषतः ॥
प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः ।
भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः ॥
गजाश्च बहुला राजन्नराश्च जयगृद्धिनः ।
रथे स्थिताश्च राजेन्द्र परिवव्रुर्वृकोदरम् ॥
स तैः परिवृतः शूरैः शूरो राजन्समन्ततः ।
शुशुभे भरतश्रेष्ठो नक्षत्रैरिव चन्द्रमाः ॥
परिवेषी यथा सोमः परिपूर्णो विराजते । स रराज तथा सङ्ख्ये दर्शनीयो नरोत्तमः ।
निर्विशेषो महाराज विजयेनैव संयुगे ॥
तस्य ते पार्थिवाः सर्वे शरवृष्टिं समासृजन् ।
क्रोधरक्तेक्षणाः शूरा हन्तुकामा वृकोदरम् ॥
तां विदार्य महासेनां शरैः सन्नतपर्वभिः ।
निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि ॥
हत्वा दशसहस्राणि गजानामनिवर्तिनाम् ।
नृणां शतसहस्रे द्वे द्वे शते चैव भारत ॥
पञ्च चाश्वसहस्राणि रथानां शतमेव च ।
हत्वा प्रास्यन्दयद्भीमो नदीं शोणितवाहिनीम् ॥
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।
नरमीनाश्वनक्रान्तां केशशैवलशाद्वलाम् ॥
सञ्छिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् ।
ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमावृताम् ॥
धनुःकाशां शरावापां गदापरिघकेतनाम् ।
हंसछत्रध्वजोपेतामुष्णीषवरफेनिलाम् ॥
हारपद्माकरां चैव भूमिरेणूर्मिमालिनीम् ।
आर्यवृत्तवतीं सङ्ख्ये सुतरां भीरुदुस्तराम् ॥
योधग्राहवतीं सङ्ख्ये वहन्तीं पितृसादनम् ।
क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम् ॥
यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः ।
तथा दुस्तरणीं घोरां भीरूणां भयवर्धनीम् ॥
यतोयतः पाण्डवेयः प्रविष्टो रथसत्तमः ।
ततस्ततः प्रापतन्वै योधाः शतसहस्रशः ॥
एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे ।
दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत् ॥
जहि मातुल सङ्ग्रामे भीमसेनं महाबलम् ।
अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम् ॥
ततः प्रायान्महाराज सौबलेयः प्रतापवान् ।
रणाय महते युक्तो भ्रातृभिः परिवारितः ॥
स समासाद्य सङ्ग्रामे भीमं भीमपराक्रमम् ।
वारयामास तं वीरो वेलेव मकरालयम् ॥
सन्न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः । शकुनिस्तस्य राजेन्द्र वामपार्श्वे स्तनान्तरे ।
प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान् ॥
वर्म भित्त्वा तु ते घोराः पाण्डवस्य महात्मनः ।
न्यम़ञ्जन्त महाराज कङ्कबर्हिणवाससः ॥
सोऽतिविद्धो रणे भीमः शरं रुक्मविभूषितम् ।
प्रेषयामास स रुषा सौबलं प्रति भारत ॥
तमायान्तं शरं घोरं शकुनिः शत्रुतापनः ।
चिच्छेद सप्तधा राजन्कृतहस्तो महाबलः ॥
तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशाम्पते ।
धनुश्छिच्छेद भल्लेन सौबलस्य हसन्निव ॥
तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान् । अन्यदादाय वेगेन धनुर्भल्लांश्च षोडश ।
तैस्तस्य तु महाराज भल्लैः सन्नतपर्वभिः ॥
द्वाभ्यां स सारथिं ह्यार्च्छद्भीमं सप्तभिरेव च । ध्वजमेकेन चिच्छेद द्वाभ्यां छत्रं विशाम्पते ।
चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः ॥
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् ।
शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम् ॥
सा भीमभुजनिर्मुक्ता नागजिह्वेन चञ्चला ।
निपपात रणे तूर्णं सौबलस्य महात्मनः ॥
ततस्तामेव संगृह्य शक्तिं कनकभूषणाम् ।
भीमसेनाय चिक्षेप क्रुद्धरूपो विशाम्पते ॥
सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः ।
निपपात तदा भूमौ यथा विद्युन्नभश्च्युता ॥
अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः ।
न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् ॥
अन्यद्गृह्य धनुः सज्यं त्वरमाणो महाबलः । मुहूर्तादिव राजेन्द्र च्छादयामास सायकैः ।
सौबलस्य बलं सङ्ख्ये त्यक्त्वा नादं महाबलः ॥
तस्याश्वांश्चतुरो हत्वा सूतं चैव विशाम्पते ।
ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी ॥
हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः ।
तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन् ॥
शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः ॥
प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान् ।
धनुश्चिच्छेद सङ्क्रुद्धो विव्याध च शितैः शरैः ॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।
निपपात तदा भूमौ किञ्चित्प्राणो नराधिपः ॥
ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशाम्पते ।
अपोवाह रथेनाजौ भीमसेनस्य पश्यतः ॥
शकुनिं विह्वलं दृष्ट्वा धार्तराष्ट्राः पराङ्मुखाः ।
प्रदुद्रुवुर्दिशो भीता भीमसेनभयात्प्रभो ॥
सौबले निर्जिते राजन्भीमसेनेन धन्विना । भयेन महताऽऽविष्टः पुत्रो दुर्योधनस्तव ।
अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति ॥
पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत ।
विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः ॥
तान्दृष्ट्वा विद्रुतान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।
जवेनाभ्यापतद्भीमः किरञ्शरशतान्बहून् ॥
ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः ।
कर्णमासाद्य समरे स्थिता राजन्समन्ततः ॥
स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः ।
भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः ॥
भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये ।
तथा कर्णं समासाद्य तावकाः पुरुषर्षभ ॥
समाश्वस्ताः स्थिता राजन्सम्प्रहृष्टाः परस्परम् ।
समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकाशीतितमोऽध्यायः ॥ 81 ॥

श्रीः