अध्यायः 084

सङ्कुतxxxxx ॥ 1 ॥

सञ्जय उवाच ।
xxxxxxxxxxxप्रबरैर्वलैर्भीममभिद्रुतम् ।
xxxxxxxxxx कौन्तेयमुस्थिहीर्षुर्धनञ्जयः ॥
xxxxxxxxx सेनां मारत सायकैः ।
xxxxxxxxxx परवीरान्धनञ्जयः ॥
xxxxxxxxxxx शरजालानि भागशः ।
अदृश्यन्त तथान्ये च निजघ्नुस्तव वाहिनीम् ॥
स पक्षिसङ्घाचरितमाकाशं पूरयञ्शरैः । धनञ्जयो महाबाहुः कुरूणामन्तकोऽमयत्
ततो भल्लैः क्षुरप्रैश्च नाराचैर्विमलैरपि ।
गात्राणि प्राच्छिनत्पार्थः शिरांसि च चकर्त ह ॥
छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः ।
पातितैश्च पतद्भिश्च योधैरासीत्समावृता ॥
धनञ्जयशराभ्यस्तैः स्यन्दनाश्वरथद्विपैः । सञ्छिन्नभिन्नविध्वस्तैर्व्यङ्गाङ्गावयवैः स्तृता ।
गतसत्वैः ससत्वैश्च संवृताऽऽसीद्वसुन्धरा ॥
सुदुर्गमा सुविषमा घोराऽत्यर्थं सुदुर्दृशा ।
रणभूमिरभूद्राजन्महावैतरणी यथा ॥
ईषाचक्राक्षभल्लैश्च व्यश्वैः साश्वैश्च युध्यताम् ।
ससूतैर्हतसूतैश्च रथैः स्तीर्णाऽभवन्मही ॥
सुवर्णवर्मसन्नाहैर्योधैः कनकमालिभिः ।
आस्थिताः क्लृप्तवर्माणो भद्रा नित्यमदा द्विपाः ॥
क्रुद्धाः क्रुरैर्महामात्रैः प्रेषितार्जुनमभ्ययुः ।
चतुः शता रथवरा हताः पेतुः किरीटिना ॥
पर्यस्तानीव शृङ्गाणि ससत्वानि महागिरेः ।
धनञ्जयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः ॥
समन्ताज्जलदप्रख्यान्वारणान्मदवर्षिणः ।
अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान् ॥
हतैर्गजमनुष्याश्वैर्भिन्नैश्च बहुधा रथैः । विशस्त्रयन्त्रकवचैर्युद्धशौण्डैर्गतासुभिः ।
उपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै ॥
विस्फारितं च गाण्डीवमत्यासीद्भैरवस्वनम् सुघोषं वज्रनिष्पेषं स्तनयन्निव तोयदः ॥
ततः प्रादीर्यत चमूर्धनञ्जयशराहता ।
महावातसमाविद्धा महानौरिव सागरे ॥
नानारूपाः प्राणहराः शरा गाण्डीवचोदिताः ।
अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन् ॥
महागिरौ वेणुवनं निशि प्रज्वलितं यथा ।
तथा तव महासैन्यं प्रास्फुरच्छरपीडितम् ॥
तद्विनष्टं सुविध्वस्तं तव सैन्यं किरीटिना ।
हतप्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः ॥
सश्वापदा मृगगणा दावाग्नित्रासिता यथा ।
कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना ॥
उत्सृज्य च महाबाहुं भीमसेनं तथा रणे ।
बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम् ॥
ततः कुरुषु भग्नेषु बीभत्सुरपराजितः ।
भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत ॥
समागम्य च भीमेन मन्त्रयित्वा च फल्गुनः ।
विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम् ॥
भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनञ्जयः ।
नादन्रथघोषेण पृथिवीं द्यां च भारत ॥
ततः परिवृतो वीरैर्दशभिः शत्रुतापनः ।
दुःशासनादवरजैस्तव पुत्रैर्धनञ्जयः ॥
ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम् ।
आततेष्वसना वीरा नृत्यन्त इव भारत ॥
अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः ।
नियुक्तान्हि स तान्मेने यमायाशु किरीटिना ॥
तथान्ये प्राणदन्मूढाः पराङ्मुखमिवार्जुनम् ॥
तेषां नानदतां केतूनश्वांश्चापानि सारथीन् ।
नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यकृन्तत ॥
*अथान्यैर्दशभिर्भल्लैः शिरांस्येषामपातयत् ।
रोषसंरक्तनेत्राणि सन्दष्टौष्ठानि भूतले ॥
तेषां वक्राणि विबभुर्व्योम्नि तारागणा इव ॥
तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान् ।
रुक्माङ्गदाव्रुक्मपुङ्खैर्हत्वा प्रायादमित्रहा ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुरशीतितमोऽध्यायः ॥ 84 ॥

8-84-* अत्रार्जुनकृतं दशधृतराष्ट्रपुत्रहननं विचारणीयम् । 8-84-17 विनिर्दहन्नित्यत्राडभाव आषेः ॥ 8-84-84 चतुरशीतितमोऽध्यायः ॥

श्रीः