अध्यायः 092

कर्णार्जुनसमाश्रयात् लोकक्षयभीरुणा प्रजापतिना ब्रह्माणं प्रति उभयोः साम्येन जयप्रार्थना ॥ 1 ॥ इन्द्रेण सकारणनिरूपणमर्जुनस्यैव जये प्रार्थिते ब्रह्मेशानाभ्यां तदङ्गीकारे देवैर्हर्षात्पुष्पवर्षणम् ॥ 2 ॥

सञ्जय उवाच ।
प्रजापतिस्तु तं दृष्ट्वा देवभागं समागतम् ।
अब्रवीत्तु ततो राजन्पश्यतो वै स्वयंभुवः ॥
उभावतिरथौ शूरावुभौ दृढपराक्रमौ ।
उभौ सदृशकर्माणौ वज्रिचक्रायुधौपमौ ॥
अहो बत महद्युद्धं कर्णार्जुनसमागमे ।
भविष्यति महाघोरं वृत्रवासवयोरिव ॥
प्रजापतिरथोक्त्वैवं स्वयम्भुवमचोदयत् ।
समोऽस्तु विजयः काममुभयोर्नरसिंहयोः ॥
कर्णार्जुनविवादेन मा नश्येदखिलं जगत् ।
स्वयंभो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः ॥
एवमुक्तस्तु भगवाञ्जये ताभ्यामनिश्चिते ।
इत्यब्रवीन्महाराज महाब्रह्मा प्रजापतिम् ॥
द्वावप्येतौ हि कृतिनौ द्वावप्यतिबलोत्कटौ ।
भविष्यत्यनयोर्युद्धं त्रैलोक्यस्य भयावहम् ॥
ततः प्रजापतिं तत्र सहस्राक्षोऽभ्यचोदयत् ।
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः ॥
मनस्वी बलवाञ्शूरः कृतविद्यस्तपोधनः ।
विभर्ति च महातेजा धनुर्वेदमशेषतः ॥
पार्थः सर्वगुणोपेतो देवकार्यमिदं यतः ।
क्लिश्यन्ते पाण्डवा नित्यं वनवासादिभिर्भृशं ॥
सम्पन्नस्तपसा चैव पर्याप्तः पुरुषर्षभः ।
अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन् ॥
अतिक्रमे च लोकानामभावो नियतो भवेत् ।
नावस्थानं च पश्यामि क्रुद्धयोः कृष्णयोः क्वचित् ॥
स्रष्टारौ जगतश्चैतौ ततश्च पुरुषर्षभौ ।
नरनारायणावेतौ पुराणावृषिसत्तमौ ॥
अनियम्यौ नियन्तारौ जगतः पुरुषर्षभौ ।
[नैतयोस्तु समः कश्चिद्दिवि वा मानुषेषु वा ॥
अनुगम्यास्त्रयो लोकाः सह देवर्षिचारणैः । सर्वदेवगणाश्चापि सर्वभूतानि यानि च ।
अनयोस्तु प्रभावेन वर्तते निखिलं जगत् ॥]
कामं तु सुकृताँल्लोकानाप्नोतु पुरुषर्षभः ।
कर्णो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः ॥
वसूनां समलोकत्वं मरुतां वासमाप्नुयात् ।
सहितो द्रोणभीष्माभ्यां नाकपृष्ठे महीयताम् ॥
`क्लेशितो हि वने पार्थो दिर्घकालं पितामह ।
तस्मादेष जयेद्युद्धे तपसाऽभ्यधिकोऽर्जुनः ॥
पूर्वं भगवता प्रोक्तः कृष्णयोर्विजयो ध्रुवः ।
तत्तथास्तु नमस्तेऽस्तु प्रमो ब्रूहि पितामह ॥
तत्सहस्राक्षवचनं निशम्य भगवान्प्रभुः ।
नोवाच तज्जयं तुल्यं तयोः कर्णकिरीटिनोः ॥
तस्मादाशां गतः शक्रस्तूष्णीम्भूते पितामहे ।
विजयः पाण्डवेयस्य कर्णस्य च वधो भवेत् ॥
ब्रह्मेशानौ ततो वाक्यमूचतुर्भुवनेश्वरम् ।
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः ॥
मनस्वी जयतां शूरः कृतविद्यस्तपोधनः ।
बिभर्ति च महातेजा धनुर्वेदमशेषतः ॥
अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन् ।
अतिक्रमे च लोकानामभावो नियतो भवेत् ॥
न च विद्म ह्यवस्थानं क्रुद्धयोः कृष्णयोः क्वचित् ।
स्रष्टारौ जगतश्चैव सतश्च पुरुषर्षभौ ॥
कामं तु सुकृताँल्लोकान्प्राप्नोत्वेष परन्तपः ।
कर्णो वैकर्तनः शूरो विजयस्तु नरे ध्रुवः ॥
तथोक्ते देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः ।
आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात् ॥
श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम् ।
तत्तथा व्येतु ते रोगः शमाप्नुत विमन्यवः ॥
इति श्रुत्वेन्द्रवचनं सर्वभूतानि मानिष । विस्मितान्यभवन्राजन्पूजयाञ्चक्रिरे तदा ।
नोचुस्तदा जयं तुल्यं तयोः पुरुषसिंहयोः ॥
व्यसृजंश्च सुगन्धीनि पुष्पवर्षाणि हर्षिताः ।
नानारूपाणि विबुधा देवतूर्याण्यवादयन् ॥
दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः ।
विस्मयोत्फुल्लनयना नान्या बुबुधिरे क्रियाः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विनवतितमोऽध्यायः ॥ 92 ॥

8-92-11 दिष्टमपि दैवविहितमपि ॥ 8-92-92 द्विनवतितमोऽध्यायः ॥

श्रीः