अध्यायः 093

शल्यकर्णयोः सँलापः ॥ 1 ॥ कृष्णार्जुनयोः सँलापः ॥ 2 ॥ अर्जुनेन कृष्णम्प्रति स्वसामर्थ्यकथनम् ॥ 3 ॥

सञ्जय उवाच ।
रथौ तयोः श्वेतहयौ दिव्यौ युक्तौ महास्वनौ । समास्थितौ लोकवीरौ शङ्खान्दध्मुः पृथक्पृथकम् ।
वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत ॥
तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा ।
अन्योन्यस्पांधेनोरुग्रं शक्रशम्बरयोरिव ॥
तयोर्ध्वजौ हि विमलौ शुशुभाते रथे स्थितौ ।
राहुकेतू यथाऽऽकाशे उदितौ जगतः क्षये ॥
कर्णस्याशीविषनिभा रत्नसारमयी दृढ़ा ।
पुरन्दरधनुः प्रख्या हस्तिकक्ष्या विराजते ॥
कपिश्रेष्ठस्तु पार्थस्य व्यादितास्य इवान्तकः ।
दंष्ट्राभिर्भीषयन्भाभिर्दुर्निरीक्ष्यो रविर्यथा ॥
युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः ।
कर्णध्वजमुपातिष्ठत्स्वस्थानाद्वेगवान्कपिः ॥
उत्पत्य च महावेगः कक्ष्यामभ्याहनत्तदा ।
नखैश्च दशनैश्चैव गरुडः पन्नगं यथा ॥
सा किङ्किणीकाभरणा कालपाशोपमा तदा ।
अभ्यद्रवत्सुसंरब्धा हस्तिकक्ष्याऽथ तं कपिम् ॥
तयोर्घोरतरे युद्धे द्वैरथे द्यूत आहिते ।
प्राकुर्वतां ध्वजौ युद्धं पूर्वं पूर्वतरं तदा ॥
हया हयानभ्यहेषन्स्पर्धमानाः परस्परम् । अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः ।
शल्यश्च पुण्डरीकाक्षं तथैवाभिसमैक्षत ॥
तत्राजयद्वासुदेवः शल्यं नयनसायकैः ।
कर्णं चाप्यजयदृष्ट्या कुन्तीपुत्रो धनञ्जयः ॥
अयाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम् ॥
यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् ।
किं करिष्यसि सङ्घामे शल्य सत्यमथोच्यताम् ॥
शल्य उवाच ।
यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः ।
उभावेकरयेनाहं हन्यां माधवपाण्डवौ ॥
सञ्जय उवाच ।
एवमेव तु गोविन्दमर्जुनः प्रत्यभाषत ।
तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः ॥
पतेद्दिवाकरः स्थानाच्छीर्येद्भूमिरनेकधा ।
शैल्यमग्निरियान्न त्वां हन्यात्कार्णो धनञ्जय ॥
यदि चैतत्कथञ्चित्स्याल्लोकपर्यसनं भवेत् ।
हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे ॥
इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः ।
अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् ॥
मम तावदपर्याप्तौ कर्णशल्यौ जनार्दन ।
सपताकध्वजं कर्णं सशल्यरथवाजिनम् ॥
सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् ।
द्रष्टाऽस्यद्य रणे कृष्ण शरैश्छिन्नमनेकधा ॥
अद्यैव सरथं साश्वं सशक्तिकवचायुधम् ।
सञ्चूर्णितमिवारण्ये वृक्षं पश्याद्य दन्तिना ॥
अद्य राधेयभार्याणां वैधव्यं समुपस्थितम् ।
ध्रुवं स्वप्नेष्वनिष्टानि ताभिर्दृष्टानि माधव ॥
द्रष्टासि ध्रुवमद्यैव विधवाः कर्णयोषितः ।
न हि मे शाम्यते मन्युर्यदनेन पुरा कृतम् ॥
कृष्णां सभागतां दृष्ट्वा मूढेनादीर्घदर्शिना ।
अस्मांस्तथाऽवहसता क्षिपता च पुनःपुनः ॥
अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया ।
वारणेनेव मत्तेन पुष्पितं गजतीरुहम् ॥
अद्य ता मधुरा वाचः श्रोतासि मधुसूदन ।
दिष्ट्या जयसि वार्ष्णेय इति कर्णे निपातिते ॥
अद्याभिमन्युजननीं प्रहृष्टः सांत्वयिष्यसि ।
कुन्तीं पितृष्वसारं च प्रहृष्टः सन् जनार्दन ॥
अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव ।
वाग्भिश्चामृतकल्पाभिर्धर्मराजं च पाण्डवम् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिनवतितमोऽध्यायः ॥ 93 ॥

8-93-6 क्रुद्धोऽभिलषितं गत्वा इति ख.ट.पाठः ॥ 8-93-9 द्यत आह्वये इति ख.ट.पाठः ॥ 8-93-93 त्रिनवतितमोऽध्यायः ॥

श्रीः