अध्यायः 094

कर्णाल्लंनयोर्युद्धारम्भः ॥ 1 ॥ द्रौणिना दुर्योधनाय हिताख्यानम् ॥ 2 ॥ तेन तदनादृत्य रणाय सेनानियोजनम् ॥ 3 ॥

सञ्जय उवाच ।
तद्देतनागासुरसिद्धयक्षै-- र्गन्धर्वरक्षोप्सरसां च सङ्घैः ।
ब्रह्मर्षिराजर्षिसुपर्णजुष्टं बभौ वियद्विस्मयनीयरूपम् ॥
नानद्यमानं निनदैर्मनोज्ञै-- र्वादित्रगीतस्तुतिनृत्यहासैः ।
सर्वेऽन्तरिक्षं ददृशुर्मनुष्याः खस्थाश्च तद्विस्मयनीयरूपम् ॥
ततः प्रहृष्टाः कुरुपाण्डुयोधा वादित्रशङ्खस्वनसिंहनादैः ।
विनादयन्तो वसुधां दिशश्च स्वनेन सर्वान्द्विषतो निजघ्नुः ॥
नराश्वमातङ्गरथैः समाकुलं शरासिशक्त्यृष्टिनिपातदुःसहम् ।
अभीरुजुष्टं हतदेहसङ्कुलं रणाजिरं लोहितमाबभौ तदा ॥
[बभूव युद्धं कुरुपाण्डवानां यथा सुराणामसुरैः सहाभवत् ।]
तथा प्रवृते तुमुले सुदारुणे धनञ्जयश्चाधिरथिश्च सायकैः । दिशश्च सैन्यं च शितैरजिह्मगैः परस्परं प्रावृणुतां सुदंशितौ ॥
ततस्त्वदीयाश्च परे च सायकैः कृतेऽन्धकारे ददृशुर्न किञ्चन ।
भयातुरा एकरथौ समाश्रयं-- स्ततोऽभवत्त्वद्भुतमेव सर्वतः ॥
ततोऽस्त्रमस्त्रेण परस्परं तौ विधूय वाताविव पूर्वपश्चिमौ ।
घनान्धकारे वितते तमोनुदौ यथोदितौ तद्वदतीव रेजतुः ॥
न चाभिसर्तव्यमिति प्रचोदिताः परे त्वदीयाश्च तथाऽवतस्थिरे ।
महारथौ तौ परिवार्य सर्वतः सुरासुराः शम्बरवासवाविव ॥
मृदङ्गभेरीपणवानकस्वनै-- र्निनादिते वाहनशङ्खनिस्वनैः ।
तौ सिंहनादैर्बभतुर्नरोत्तमौ पतङ्गचन्द्राविव दुःसहावुभौ ॥
महाधनुर्मण्डुलमध्यगावुभौ सुवर्चसौ बाणसहस्रदीधिती ।
दिधक्षमाणौ सचराचरं जग-- द्युगान्तसूर्याविव दुःसहौ रणे ॥
उभावजेयावहितान्तकावुभा-- वुभौ जिघांसू कृतिनौ परस्परम् ।
महाहवे वीतभयौ समीयतु-- र्महेन्द्रजम्भाविव कर्णपाण्डवौ ॥
ततो महास्त्राणि महाधनुर्धरौ विमुञ्चमानाविषुभिर्भयानकैः ।
नराश्वनागानमितान्निजघ्नतुः परस्परं चापि महारथौ नृप ॥
ततो विसस्रुः पुनरर्दिता नरा नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः ।
सनागपत्त्यश्वरथा दिशो द्रुता-- स्तथा यथा सिंहहता वनौकसः ॥
ततस्तु दुर्योधनभोजसौबलाः कृपो गुरोश्चापि सुतो महाहवे ।
महारथाः पञ्च धनञ्जयाच्युतौ शरैः शरीरार्तिकरैरताडयन् ॥
धनूंषि तेषामिषुधीन्ध्वजान्हया-- न्रथांश्च सूतांश्च धनञ्जयः शरैः ।
समं प्रमध्याशु परान्समन्ततः शरोत्तमैर्द्वादशभिन्न सूतजम् ॥
अथाभ्यधावंस्त्वरिताः शतं रथाः शतं गजाश्चार्जुनमाततायिनः ।
शकास्तुषारा यवनाश्च सादिनः सहैव काम्भोजवरैर्जिघांसवः ॥
वरायुधान्पाणिगतैः शरैः सह क्षुरैर्न्यकृन्तत्प्रपतञ्शिरांसि च ।
हयांश्च नागांश्च रथांश्च युध्यतो धनञ्जयऋ शत्रुगणान्क्षितौ क्षिणौत् ॥
ततोऽन्तरिक्षे सुरतूर्यनिःस्वनाः ससाधुवादा हृषितैः समीरिताः ।
निपेतुरप्युत्तमपुष्पवृष्टयः सुरूपगन्धाः पवनेरिताः शुभाः ॥
तदद्भुतं देवमनुष्यसाक्षिकं समीक्ष्य भूतानि विसिस्मियुस्तदा ।
तवात्मजः सूतसुतश्च न व्यथां न विस्मयं जग्मतुरेकनिश्चयौ ॥
अथाब्रवीद्द्रोणसुतस्तवात्मजं करं करेण प्रतिपीड्य सान्त्वयन् ।
प्रसीद दुर्योधन शाम्य पाण्डवै-- रलं विरोधेन धिगस्तु विग्रहम् ॥
हतो गुरुर्ब्रह्मसमो महास्त्रवि-- त्तथैव भीष्मप्रमुखा महारथाः ।
अहं त्ववध्यो मम चापि मातुलः प्रशाधि राज्यं सह पाण्डवैश्चिरम् ॥
धनञ्जयः स्यास्यति वारितो मया जनार्दनो नैव विरोधमिच्छति ।
युधिष्ठिरो भूतहिते रतः सदा वृकोदरस्तद्वशगस्तथा यमौ ॥
त्वया तु पार्थैश्च कृते च संविदे प्रजाः शिवं प्राप्नुयुरिच्छया तव ।
व्रजन्तु शेषाः स्वपुराणि पार्थिवा निवृत्तवैराश्च भवन्तु सैनिकाः । न चेद्वचः श्रोष्यसि मे नराधिप ध्रुवं हि तप्तोऽसि हतोऽरिभिर्युधि ॥
वृद्धं पितरमालोक्य गान्धारीं च यशस्विनीम् ।
कृपालुर्धर्मराजो हि याचितः शममेष्यति ॥
यथोचितं च वै राज्यमनुज्ञास्यति ते प्रभुः ।
विपश्चित्सुमतिर्वीरः सर्वशास्त्रार्थतत्त्ववित् ॥
वैरं नेष्यति धर्मात्मा स्वजने नास्त्यतिक्रमः ।
न विग्रहमतिः कृष्णा स्वजने प्रतिनन्दति ॥
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ । वासुदेवमते चैव पाण्डवस्य च धीमतः ।
स्थास्यन्ति पुरुषव्याघ्रास्तयोर्वचनगौरवात् ॥
रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् ।
जीवने यत्नमातिष्ठ जीवन्भद्राणि पश्यति ॥
राज्यं श्रीश्चैव भद्रं ते जीवमाने च कल्पते ।
मृतस्य तु खलु कौरव्य नैव राज्यं कुतः सुखम् ॥
लोकवृत्तमिदं वृत्तं प्रवृत्तं पश्य भारत ।
शाम्य त्वं पाण्डवैः सार्धं शेषं रक्ष कुलस्य च ॥
मा भूत्स कालः कौरव्य यदाऽहमहितं वचः ।
ब्रूयां कामं महाबाहो माऽवमंस्था वचो मम ॥
धर्मिष्ठमिदमत्यर्थं राज्ञश्चैव कुलस्य च । एतद्धि परमं श्रेयः कुरुवंशस्य वृद्धये ।
प्रयाहि तं च गान्धारे कुलस्य च सुखावहम् ॥
पथ्यमायतिसंयुक्तं कर्णोऽप्यर्जुनमाहवे ।
न जेष्यति नरव्याघ्र इति मे निश्चिता मतिः ॥
रोचतां ते नरश्रेष्ठ ममैतद्वचनं शुभम् ।
अतोऽन्यथा हि राजेन्द्र विनाशः सुमहान्भवेत् ॥
इदं च दृष्टं जगता सह त्वया कृतं यदेकेन किरीटमालिना ।
यथा न कुर्याद्बलभिन्न चान्तको न च प्रचेता भगवान्न यक्षराट् ॥
अतोऽपि भूयान्स्वगुणैर्धनञ्जयो न चातिवर्तिष्यति मे वचोऽखिलम् ।
तवानुयात्रां च सदा करिष्यति प्रसीद राजेन्द्र शमं त्वमाप्नुहि ॥
ममाभिमानः परमः सदा त्वयि ब्रवीम्यतस्त्वां परमाच्च सौहृदात् ।
निवारयिष्यामि च कर्णमाहवे महान्हि मेऽस्ति प्रणयोऽथ सूतजे ॥
वदन्ति मैत्रीं सहजां विचक्षणा-- स्तथैव साम्ना च धनेन चार्जिताम् ।
प्रतापतश्चोपनतां चतुर्विधां तदस्ति सर्वं तव पाण्डवेषु ॥
निसर्गतस्ते तव वीर बान्धवाः पुनश्च साम्ना हितमाप्नुयुः प्रभो ।
त्वयि प्रसन्ने यदि मित्रतां गते हितं कृतं स्याज्जगतस्त्वयाऽतुलम् ॥
इतीदमुक्तः सुहृदा वचो हितं विचिन्त्य निःश्वस्य च दुर्मनाऽब्रवीत् ।
यथा भवानाह सखे तथैव त-- न्ममापि विज्ञापयतो वचः शृणु ॥
निहत्य दुःशासनमुक्तवान्बहु प्रहस्य शार्दूलवदेष दुर्मतिः ।
वृकोदरस्तद्वृदये मम स्थितं न तत्परोक्षं भवतः कुतः शमः ॥
न चापि कर्णं प्रसहेद्रणेऽर्जुनो महागिरिं मेरुमिवोग्रमारुतः ।
न चाश्वसिष्यन्ति पृथात्मजा मयि प्रसह्य वैरं बहुशो विचिन्त्य ॥
न चापि कर्णं गुरुपुत्र संयुगा-- दुपारमेत्यर्हसि वीर भाषितुम् ।
श्रमेण युक्तो महताद्य फल्गुन-- स्तमेष कर्णः प्रसभं हनिष्यति ॥
`वसुन्धरायाः परिवर्तनं भवे-- द्व्रजेच्च शोषं मकरालयोऽर्णवः ।
प्लवेयुरप्यद्रिवरा महाम्बुधौ न चार्जुनो जेष्यति कर्णमाहवे ॥
अपां पृथिव्या नभसो नभस्वतः सुतिग्मदीप्तेश्च हिरण्यरेतसः ।
अभाव एषामपि सर्वतो भवे-- न्न चार्जुनो जेष्यति कर्णमाहवे' ॥
तमेवमुक्त्वाऽप्यनुनीय चासकृ-- त्तवात्मजः स्वाननुशास्ति सैनिकान् ।
द्रुतं घ्नताभिद्रवताहितानिमा-- नहीनसत्वाः किमु जोषमासते ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुर्नवतितमोऽध्यायः ॥ 94 ॥

8-94-6 एकौ मुख्यौ रथौ रथिनौ कर्णार्जुनौ ॥ 8-94-7 तमोनुदौ सूर्यबन्द्रौ ॥ 8-94-8 नच अभिसर्तव्यं नापयातव्यमिति नियमेन प्रचोदिताः प्रेरिताः ॥ 8-94-23 ध्रुवं हि तप्तासि इति क.ख.ड.पाठः ॥ 8-94-41 दुःशासनमुक्तवान्वच इति झ.पाठः तत्र वचो दुर्योधनस्य हतस्य शिरः पदा ताडयिष्यामीत्येवंरूपम् ॥ 8-94-94 चतुर्नवतितमोऽध्यायः ॥

श्रीः