अध्यायः 005

धृतराष्ट्रेण कर्णगुणानुवर्णनपूर्वकं शोचनम् ॥ 1 ॥

जनमेजय उवाच ।
श्रुत्वा कर्णं हतं युद्वे पुत्रांश्चैव पलायिनः ।
नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत् ॥
प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत् ।
तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः ॥
वैशम्पायन उवाच ।
श्रुत्वा कर्णस्य निधनमश्रद्वेयमिवाद्भुतम् ।
भूतसम्मोहनं भीमं मेरोः संसर्पणं यथा ॥
चित्तमोहमिवायुक्तं भार्गवस्य महामतेः ।
पराजयमिवेन्द्रस्य द्विषद्ध्यो भीमकर्मणः ॥
दिवः प्रपतनं भानोरुरव्यामिव महाद्युतेः ।
संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः ॥
महीवियद्दिगम्बूनां सर्वनाशमिवाद्भुतम् ।
कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः ॥
सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः ।
नेदमस्तीति सञ्चिन्त्य कर्णस्य समरे वधम् ॥
प्राणिनामेवमात्मत्वात्स्यादपीति विचार्य च ।
शोकाग्निना दह्यमानो धम्यमान इवाशये ॥
विस्रस्ताङ्गः श्वसन्दीनो हाहेत्युक्त्वा सुदुःखितः ।
विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः ॥
धृतराष्ट्र उवाच ।
सञ्जयाधिरथिर्वीरः सिंहद्विरदविक्रमः ।
वृषभप्रतिमस्कन्धो वृषभाक्षगतिस्वरः ॥
वृषभो वृषभस्येव यो युद्धे न निवर्तते ।
शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा ॥
यस्य ज्यातलशब्देन शरवृष्टिरवेण च ।
रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे ॥
यमाश्रित्य महाबाहुं द्विषत्सङ्घघ्नमच्युतम् ।
दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महारथैः ॥
स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे ।
निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः ॥
यो नामन्यत वै नित्यमच्युतं च धनञ्जयम् ।
न वृष्मीन्सहितानन्यान्स्वबाहुबलदर्पितः ॥
शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ ।
अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे ॥
इति यः सततं मन्दमवोचल्लोभमोहितम् ।
दुर्योधनमवाचीनं राज्यकामुकमातुरम् ॥
योऽजयत्सर्वकाम्भोजानावन्त्यान्केकयैः सह । गान्धारान्मद्रकान्मात्स्यांस्त्रिगर्तांस्तङ्कणाञ्शकान् ।
पाञ्चालांश्च विदेहांश्च कुलिन्दान्काशिकोसलान् सूह्मानङ्गांश्च वङ्गांश्च निषादान्पुण्ड्रकीकटान् ॥
वत्सान्कलिङ्गान्दरदानश्मकानृषिकानपि ।
`शबरान्हारहूणांश्च प्रघूणान्सरलानपि ॥
म्लेच्छराष्ट्राधिपांश्चैव दुर्गानाटविकांस्तथा' ।
जित्वैतान्समरे वीरः प्रदीप्तैः कङ्कपत्रिभिः ॥
करमाहारयामास जित्वा सर्वानरींस्तथा । दुर्योधनस्य वृद्ध्यर्थं राधेयो रथिनां वरः ।
दिव्यास्त्रविमन्हातेजाः कर्णो वैकर्तनो वृषः ॥
सेनागोपश्च स कथं शत्रुभिः परमास्त्रवित् ।
घातितः पाण्डवैः शूरैः समरे वीर्यशालिभिः ॥
वृषो महेन्द्रो देवेषु वृषः कर्णो नरेष्वपि ।
तृतीयमन्यं लोकेषु वृषं नैवानुशुश्रुम ॥
उच्चैः श्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः ।
वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः ॥
योऽजितः पार्थिवैः शूरैः समर्थैर्वीर्यशालिभिः ।
दुर्योधनस्य वृद्ध्यर्थं कृत्स्नामुर्वीमथाजयत् ॥
यं लब्ध्वा मागधो राजा सांत्वमानोऽथ सौहृदैः ।
अरौत्सीत्पार्थिवं क्षत्रमृते यादवकौरवान् ॥
तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना ।
शोकार्णवे निमग्नोऽहं भिन्ना नौरिव सागरे ॥
तं वृषं निहतं श्रुत्वा द्वैरथे रथिनां वरम् ।
शोकार्णवे निमग्नोऽहमप्लुवः सागरे यथा ॥
ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय ।
वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम् ॥
ज्ञातिसंबन्धिमित्राणामिमं श्रुत्वा पराभवम् ।
को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम् ॥
विषमग्निं प्रपातं च पर्वताग्रादहं वृणे । `महाप्रस्थानगमनं जलं प्रायोपवेशनम्' ।
न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

8-5-1 पुत्रांश्चैव निपातितान् इति झ.पाठः ॥ 8-5-4 भार्गवस्य रामस्य शुक्रस्य वा ॥ 8-5-7 कर्णस्य वधं सञ्चिन्त्य मनस्यालोच्य इदं कृत्स्नं जगत्स्वसैन्यं वा नास्तीति सञ्चिन्त्य निश्चित्य विललापेति तृतीयेन सम्बन्धः ॥ 8-5-17 अवाचीनं चिन्तयाऽधोमुखम् ॥ 8-5-24 जलवर्षित्वाद्देवेषु महेन्द्रो वृषः । धनवर्षित्वान्मनुष्येषु कर्णोवृषः । तृतीयमेवमभितो वृष्टिकर्तारं वृषम् ॥ 8-5-29 नौकाहीनः ॥ 8-5-5 पञ्चमोऽध्यायः ॥

श्रीः