अध्यायः 006

कर्णवधश्रवणानन्तरीयकधृतराष्ट्रप्रवृत्तिं पृष्टेन वैशम्पायनेन कर्णदुर्योधनस्तुतिनिन्दापूर्वकं सञ्जयम्प्रति कर्णार्जुनयुद्धकथनचोदनारूपधृतराष्ट्रप्रवृत्तिकथनम् ॥ 1 ॥

सञ्जय उवाच ।
श्रिया कुलेन यशसा तपसा च श्रुतेन च ।
त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् ॥
श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव ।
पर्यवस्थापयात्मानं मा विषादे मनः कृथाः ॥
धृतराष्ट्र उवाच ।
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
यत्र सालप्रतीकाशः कर्णोऽहन्यत संयुगे ॥
हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान् ।
प्रताप्य शरवर्षेण दिशः सर्वा महारथः ॥
मोहियित्वा रणे पार्थान्वज्नहस्त इवासुरान् ।
स कथं निहतः शेते वायुरुग्ण इव द्रुमः ॥
शोकस्यान्तं न पश्यामि पारं जलनिधेरिव ।
चिन्ता मे वर्धतेऽतीव मुमूर्षा चापि जायते ॥
कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च ।
अश्रद्धेयमहं मन्ये वधं कर्णस्य सञ्जय ॥
वज्रसारमिदं नूनं हृदयं दुर्भिदं मम ।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते ॥
आर्युर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा ।
यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः ॥
धिग्जीवितमिदं चैव सुहृद्वीनस्य सञ्जय । अद्य चाहं दशामेतां गतः सञ्जय गर्हिताम् ।
कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः ॥
अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः ।
परिभूतः कथं सूत परैः शक्ष्यामि जीवितुम् ॥
दुःखाद्दुःखतरं भन्ये प्राप्तवानस्मि सञ्जय ।
भीष्मद्रोणवधेनैव कर्णस्य च महात्मनः ॥
नावशेषं प्रपश्यामि सूतपुत्रे हते युधि ।
सहि पारं महानासीत्पुत्राणां मम सञ्जय ॥
युद्धे हि निहतः शूरो विसृजन्सायकान्बहून् ।
को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम् ॥
रथादाधिरथिर्नूनं न्यपतत्सायकार्दितः ।
पर्वतस्येव शिखरं व ज्रपाताद्विदारितम् ॥
स शेते पृथिवीं नूनं शोभयन्रुधिरोक्षितः ।
मातङ्ग इव मत्तेन मताङ्गेन निपातितः ॥
यो बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम् ।
सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् ॥
स हि वीरो महेष्वासो मित्राणामभयङ्करः ।
शेते विनिहतो वीरः शक्रेणेव पुरा बलः ॥
पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् ।
दुर्योधनस्य लोभश्च समान्येतानि सञ्जय ॥
अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते ।
अहो नु बलवद्दैवं कालश्च दुरतिक्रमः ॥
पलायमानः कृपणो दीनात्मा दीनपौरुषः ।
कच्चिद्विनिहतः सूत पुत्रो दुःशासनो मम ॥
कच्चिन्न दीनाचरितं कृतवांस्तात संयुगे ।
कच्चिन्न निहतः शूरा यथाऽन्ये क्षत्रियर्षभाः ॥
युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा ।
दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् ॥
शतल्पे शयानेन भीष्मेण सुमहात्मना ।
पानीयं याचितः पार्थः सोविध्यन्मेदिनीतलम् ॥
जलस्य धारां जनितां दृष्ट्वा पाण्डुसुतेन च ।
अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः ॥
प्रशमाद्वि भवेच्छान्तिर्मदन्तं युद्धमस्तु वः ।
भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह ॥
अकुर्वन्वचनं तस्य नूनं शोचति पुत्रकः ।
तदिदं समनुप्राप्त वचनं दीर्घदर्शिनः ॥
अहं तु निहतामात्यो हतपुत्रश्च सञ्जय ।
द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः ॥
यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च सञ्जय ।
विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः ॥
लूनपक्षतया तस्य गमनं नोपपद्यते ।
तथाहमपि सम्प्राप्तो लूनपक्ष इव द्विजः ॥
क्षीणः सर्वार्थहीनश्च निर्ज्ञातिर्बन्धुवर्जितः ।
कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः ॥
वैशम्पायन उवाच ।
इत्येवं धृतराष्ट्रोऽथ विलप्य बहुदुःखितः ।
प्रोवाच सञ्जयं भूयः सोकव्याकुलमानसः ॥
धृतराष्ट्र उवाच ।
योऽजयत्सर्वकाम्भोजानम्बष्ठान्कैकयैः सह ।
गान्धारांश्च विदेहांश्च जित्वा कार्यार्थमाहवे ॥
दुर्योधनस्य वृद्ध्यर्थं योऽजयत्पृथिवीं प्रभुः ।
स जितः पाण्डवैः शूरैः समरे वाहुशालिभिः ॥
तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना ।
के वीराः पर्यतिष्ठन्त तन्ममाचक्ष्व सञ्जय ॥
कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे ।
उक्तं त्वया पुरा तात यथा वीरो निपातितः ॥
भीष्ममप्रतियुध्यन्तं शिखम्डी सायकोत्तमैः ।
पातयामास समरे सर्वशस्त्रभृतां वरम् ॥
तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि ।
`धर्मराजवचः श्रुत्वा अश्वत्थामा हतस्त्विति' ॥
युक्तयोगो महेष्वासः शरैर्बहुभिराचितः ।
निहतः खङ्गमुद्यम्य धृष्टद्युम्नेन सञ्जय ॥
अन्तरेण हतावेतौ छलेन च विशेषतः ।
अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ ॥
भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम् ।
न्यायेन युध्यन्समरे तद्वै सत्यं ब्रवीमि ते ॥
कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च ।
कथमिन्द्रोपमं वीरं मृत्युर्युद्वे समस्पृशत् ॥
यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम् ।
प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरन्दरः ॥
यस्य सर्पमुखो दिव्यः शरः काञ्चनभूषणः ।
अशेत निशितः पत्री समरेष्वरिसूदनः ॥
भीष्मद्रोणमुखान्वीरान्योऽवमत्य महारथान् ।
जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत ॥
यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः ।
सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शितैः ॥
यश्च नागायुतप्राणां वज्ररंहसमच्युतम् ।
विरथं सहसा कृत्वा भीमसेनमपाहसत् ॥
सहदेवं च निर्जित्य शरैः सन्नतपर्वभिः ।
कृपया विरथं कृत्वा नाहनद्धर्मचिन्तया ॥
यश्च मायासहस्राणि विकुर्वाणं जयैषिणम् ।
घटोत्कचं राक्षसेन्द्रं शक्रशक्त्या निजघ्निवान् ॥
एवांश्च दिवसान्यस्य युद्धे भीतो धनञ्जयः ।
नागमद्द्वैरथं वीरः स कथं निहतो रणे ॥
[संशप्तकानां योधा ये आह्वयन्त सदाऽन्यतः ।
एतान्हत्वा हनिष्यामि पश्चाद्वैकर्तनं रणे ॥
इति व्यपदिशन्पार्थो वर्जयन्सूतजं रणे । स कथं निहतो वीरः पार्थेन परवीरहा ॥]
रथभह्गो न चेत्तस्य धनुर्वा न व्यशीर्यत ।
न चेदस्त्राणि नष्टानि स कथं निहतः परैः ॥
को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः । विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे ।
जेतुं पुरुषशार्दूलं शार्दूलमिव वेगिनम् ॥
ध्रवं तस्य धनुश्छिन्नं रथो वाऽपि महीं गतः । अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् ।
न ह्यन्यदपि पश्यामि कारणं तस्य नाशने ॥
न हिन्मि फल्गुनं यावत्तावत्पादौ न धावये ।
इति यस्य महाघोरं व्रतमासीन्महात्मनः ॥
यस्य भीतो रमे निद्रां धर्मराजो युधिष्ठिरः ।
त्रयोदशसमा नित्यं नाभजत्पुरुषर्षभः ॥
यस्य वीर्यवतो वीर्यमुपाश्रित्य महात्मनः ।
मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात् ॥
तत्रापि च सभामध्ये पाण्डवानां च पश्यताम् ।
दासभार्येति पाञ्चालीमब्रवीत्कुरुसन्निधौ ॥
[न सन्ति तपयः कृष्णे सर्वे षण्डतिलैः समाः ।
उपतिष्ठस्व भर्तारमन्यं वा वरवर्णिनि ॥
इत्येवं यः पुरा वाचो रूक्षाः संश्रावयन्रुषा ।
सभायां सूतजः कृष्णां स कथं निहतः परैः ॥
यदि भीष्मो रणश्लाघी द्रोणो वा युधि दुर्मदः । न हनिष्यति कौन्तेयान्पक्षपातात्सुयोधन ।
सर्वानेव हनिष्यामि व्येतु ते मानसो ज्वरः ॥
किं करिष्यति गाण्डीवमक्षय्यौ च महेषुधी । स्निग्धचन्दनदिग्धस्य मच्छरस्याभिधावतः ।
स नूनमृषभस्कन्धो ह्यर्जुनेन कथं हतः ॥]
यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन् ।
अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत ॥
यस्य नासीद्भयं पार्थात्सपुत्रात्सजनार्दनात् ।
स्वबाहुबलमाश्रित्य मुहूर्तमपि सञ्जय ॥
तस्य नाऽहं वधं मन्ये देवैरपि सवासवैः ।
प्रतीपमभिघावद्भिः किं पुनस्तात पाण्डवैः ॥
न हि ज्यां संसम्पृशानस्य तलत्रे वाऽपि गृह्णतः ।
पुमानाधिरथेः स्थातुं कश्चित्प्रमुखतोऽर्हति ॥
अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः ।
न वध- पुरुषेन्द्रस्य संयुगेष्वपलायिनः ॥
येन मन्दः सहायेन भ्रात्रा दुःशासनेन च ।
वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचत ॥
स नूनं वृषभस्कन्धं कर्णं दृष्ट्वा निपातितम् ।
दुःशासनं च निहतं मन्ये शोचति पुत्रकः ॥
हतं वैकर्तनं दृष्ट्वा द्वैरथे सव्यसाचिना ।
जयतः पाण्डवान्दृष्ट्वा किंस्विद्दुर्योधनोऽब्रवीत् ॥
[दुर्मर्षणं हतं दृष्ट्वा वृषसेनं च संयुगे ।
प्रभग्रं च बलं दृष्ट्वा वध्यमानं महारथैः ॥
पराङ्मुखांश्च राज्ञस्तु पलायनपरायणान् ।
विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः ॥
अनेयश्चाभिमानी च दुर्बुद्धिरजितेन्द्रियः ।
हतोत्साहं बलं दृष्ट्वा किंस्विदुर्योधनोऽब्रवीत् ॥
स्वयं वैरं महत्कृत्वा वार्यमाणः सुहृद्गणैः ।
प्रधने हतभूयिष्ठैः किंस्विद्दुर्योधनोऽब्रवीत् ॥
भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे । रुधिरे पीयमाने च किंस्विद्द्रुर्योधनोऽब्रवीत् ॥]
सह गान्धारराजेन सभायां यदभाषत ।
कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत् ॥
द्यूतं कृत्वा पुरा हृष्ठो वञ्चयित्वा च पाण़्डवान् ।
शकुनिः सौबलस्तात हते कर्णे किमब्रवीत् ॥
कृतवर्मा महेष्वासः सात्वतानां महारथः ।
हतं वैकर्तनं दृष्ट्वा हार्दिक्यः किमभाषत ॥
ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते ।
धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः ॥
युवा रूपेण सम्पन्नो दर्शनीयो महायशाः ।
अश्वत्थामा हते कर्णे किमभाषत सञ्जय ॥
आचार्यो यो धनुर्वेदे गौतमो रथसत्तमः ।
कृपः शारद्वतस्तात हते कर्णे किमब्रवीत् ॥
मद्रराजो महेष्वासः शल्यः समितिशोभनः । दृष्ट्वा विनिहतं कर्णं सारथ्ये रथिनां वरः ।
किमभाषत सौवीरो मद्राणामधिपो बली ॥
दृष्ट्वा विनिहतं सर्वे योधा वारणदुर्जयाः । ये च केन राजानः पृथिव्यां योद्वुमागताः ।
वैकर्तनं हतं दृष्टवा कान्यभाषन्त सञ्जय ॥
द्रोणे तु निहते वीरे रथव्याघ्रे नरर्षभे ।
के वा मुखमनीकानामासन्सञ्जय भागशः ॥
मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः ।
वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व सञ्जय ॥
केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य युध्यतः ।
वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः ॥
के कर्णं न जहुः शूराः के क्षुद्राः प्राद्रवंस्ततः ।
कथं च वः समेतानां हतः कर्णो महारथः ॥
पाण्डवाश्च स्वयं शूराः प्रत्युदीयुर्महारथाः ।
सृजन्तः शरवर्षाणि वारिधारा इवाम्बुदाः ॥
स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा ।
व्यर्थः कथं समभवत्तन्ममाचक्ष्व स़ञ्जय ॥
मामकस्यास्य सैन्यस्य हतोत्सेधस्य सञ्जय ।
अवशेषं न पश्यामि ककुदे मृदिते सति ॥
तौ हि वीरौ महेष्वासौ मदर्थे त्यक्तजीवीतौ ।
भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे ॥
पुनः पुनर्न मृष्यामि वधं कर्णस्य पाण्डवैः ।
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ॥
द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह ।
सङ्घामे नरवीराणां तन्ममाचक्ष्व सञ्जय ॥
यथा कर्णश्च कौन्तेयैः सह युद्धमयोजयत् ।
तथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि षष्ठोऽध्यायः ॥ 6 ॥

8-6-37 अप्रतियुध्यन्तं शिखण्डिना प्रतियुद्धगनङ्गीकुर्वाणम् ॥ 8-6-38 द्रौपदिना द्रुपदपुत्रेण धृष्टद्युम्नेन ॥ 8-6-40 फलेन च विशेषतः इति क.ङ.पाठः । बलेन च विशेषतः इति ख. पाठः ॥ 8-6-43 कुण्डलाभ्यां सकवचाभ्यां । तादर्थ्ये चतुर्थी ॥ 8-6-44 अशेत निहतः पत्री समरेष्वरिसूदनः इति ख.पाठः । अशेत निहतः पत्री चन्दनेष्वरिसूदनः इति झ.पाठः ॥ 8-6-53 रथसङ्गो न चेत्तस्य इति क.ड.पाठः । अहंकांरो न चेत्तस्य इति ख. पाठः ॥ 8-6-66 प्रातिभठ्येन अभिधावद्भिः सर्वदिग्भ्यः समागतैः ॥ 8-6-67 आधिरथेः अधिरथपुत्रस्य ॥ 8-6-68 सोमसूर्यमहाचर्यात्प्रकर्षेण भातीति योगाच्च प्रभो वह्निस्तेषां त्रयाणामंशुभिर्मुयूखैः ॥ 8-6-69 मन्दो दुर्योधनः ॥ 8-6-74 अनेय अशिक्षणीयः । यतोऽभिमानी विद्वत्त्वाभिमानी । एतएव दुर्बुद्धिः हितमजानन् ॥ 8-6-75 प्रधने रणे ॥ 8-6-84 कानि वाक्यानीति शेषः ॥ 8-6-89 प्रत्युदीयुः कथमिति शेषः ॥ 8-6-91 हतोत्सेधस्य विनष्टोत्कर्षस्या ॥ 8-6-6 षष्ठोऽध्यायः ॥

श्रीः