अध्यायः 008
					 कर्णार्जुनाक्ष्यां व्यूहरचनापूर्वकं रणाय निर्याणम् ॥ 1 ॥ 
					
					
						सैनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा ।
						तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ॥
					 
					
						हितश्च प्रियकामश्च मम पुत्रस्य नित्यशः ।
						अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व स़ञ्जय ॥
						सञ्जय उवाच । 
					 
					
						कर्णस्य मतमाज्ञाय पुत्रास्ते भरतर्षभ ।
						योगमाज्ञापयामासुर्नन्दितूर्यपुरःसरम् ॥
					 
					
						महत्यपररात्रे च तव सैन्यस्य मारिष ।
						योगो योग इति ह्याशु प्रादुरासीन्महास्वनः ॥
					 
					
						कल्पतां नागमुख्यानां रथानां च वरुथिनाम् ।
						सन्नह्यतां नराणां च वाजिनां च विशाम्पते ॥
					 
					
						क्रोशतां चैव योधानां त्वरितानां परस्परम्् ।
						बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्ततः ॥
					 
					
						ततः श्वेतपताकेन बलाकावर्णवाजिना ।
						हेमपृष्ठेन धनुषा नागकक्षेण केतुना ॥
					 
					
						तूणीरशतपूर्णेन सगदेन वरूथिना ।
						शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा ॥
					 
					
						कार्मुकैरुपपन्नेन विमलादित्यवर्चसा ।
						रथेनाभिपताकेन सुतपुत्रो ह्यदृश्यत ॥
					 
					
						ध्मापयन्वारिजं राजन्हेमजालविभूषिन्तम् ।
						विध्रुन्वानो महच्चापं कार्तस्वरविभूषितम् ॥
					 
					
						दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् ।
						भानुमन्तमिवोद्यन्तं तमो घ्नन्तं दुरासदम् ॥
					 
					
						न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष ।
						नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ॥
					 
					
						ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष ।
						कर्णो निष्कर्षयामास कौरवाणां महद्बलम् ॥
					 
					
						व्यूहं व्यूह्य महेष्वासो मकरं शत्रुतापनः ।
						प्रत्युद्ययौ तथा कर्णः पाण्डवान्विजिगीषया ॥
					 
					
						मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः ।
						नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ॥
					 
					
						द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः ।
						मध्येदुर्योधनो राजा बलेन महता वृतः ॥
					 
					
						वामपादे तु राजेन्द्र कृतवर्मा व्यवस्थितः ।
						नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदैः ॥
					 
					
						पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः ।
						त्रिगर्तैः सुमहेष्वासैर्दाक्षिणात्यैश्च संवृतः ॥
					 
					
						अनुपादे तु यो वामस्तत्र शल्यो व्यवस्थितः ।
						महत्या सेनया सार्धं मद्रदेशसमुत्थया ॥
					 
					
						दक्षिणे तु महाराज सुषेणः सत्यसङ्गरः ।
						वृतो रथमहस्रेण दन्तिनां च त्रिभिः शतैः ॥
					 
					
						पुच्छे ह्यास्तां महावीर्यौ भ्रातरौ पार्थिवौ तदा ।
						चित्रश्च चित्रसेनश्च महत्या सेनया वृतौ ॥
					 
					
						तथा प्रयाते राजेन्द्र कर्णे नरवरोत्तमे ।
						धनञ्जयमभिपेक्ष्य धर्मराजोऽब्रवीदिदम् ॥
					 
					
						पश्य पार्थ यथा सेना धार्तराष्ट्रीह संयुगे ।
						कर्णेन विहिता वीर गुप्ता वीरैर्महारथैः ॥
					 
					
						हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः ।
						फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ॥
					 
					
						एको ह्यत्र महेष्वासः सूतपुत्रो विराजते ।
							सदेवासुरगन्धर्वैः सकिन्नरमहोरगैः ।
						
						चराचरैस्त्रिभिर्लोकैरजेयो यो महारथः ॥
						
					 
					
						तं हत्वाऽद्य महाबाहो विजयस्तव फल्गुन ।
						उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ॥
					 
					
						एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ॥
						
						सञ्जय उवाच । 
					 
					
						भ्रातुरेतद्वचः श्रुत्वा पाण्डवः श्वेतवाहनः ।
						अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ॥
					 
					
						वामपार्श्वे तु तस्याथ भीमसेनो व्यवस्थितः ।
						दक्षिणे च महेष्वासो धृष्टद्युम्नो व्यवस्थितः ॥
					 
					
						मध्ये व्यूहस्य राजा तु पाण्डवश्च धनञ्जयः ।
						नकुलः सहदेवश्च धर्मराजस्य पृष्ठतः ॥
					 
					
						चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
						पार्थं न जहतुर्युद्वे पाल्यमानौ किरीटिना ॥
					 
					
						शेषां नृपतयो वीराः स्थिता व्यूहस्य दंशिताः ।
						यथाभागं यथोत्साहं यथायत्नं च भारत ॥
					 
					
						एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः ।
						तावकाश्च महेष्वासा युद्धायैव मनो दधुः ॥
					 
					
						दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे ।
						निहतान्पाण्डवान्मेने धार्तराष्ट्रः सबान्धवः ॥
					 
					
						तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः ।
						धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिपः ॥
					 
					
						ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
						डिण्डिमाश्चाप्यहन्यन्त झर्झराश्च समन्ततः ॥
					 
					
						सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः ।
						सिंहनादश्च सञ्जज्ञे शूराणां जयगृद्धिनाम् ॥
					 
					
						हयहेषितशब्दाश्च वारणानां च बृंहिताः ।
						रथनेमिस्वनाश्चोग्राः सम्बभूवुर्जनाधिप ॥
					 
					
						न द्रोणव्यसनं कश्चिज्जानीते तत्र भारत ।
						दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ॥
					 
					
						उभे सैन्ये महाराज प्रहृष्टनरसङ्कुले ।
						योद्वुकामे स्थिते राजन्हन्तुमन्योन्यमोजसा ॥
					 
					
						विजये जातसंरम्भे दृष्ट्वाऽन्योन्यं व्यवस्थिते ।
						अनीकमध्ये राजेन्द्र चेरतुः कर्णपाण्डवौ ॥
					 
					
						नृत्यन्त्याविव ते सेने समेयातां परस्परम् ।
						तयोः पक्षप्रपक्षेभ्यो निर्ययुर्युद्वलिप्सवः ॥
					 
					
						ततः प्रववृते युद्धं नरवारणवाजिनाम् ।
						रथानां च महाराज अन्योन्यमभिनिघ्नताम् ॥ ॥
					 
					 इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धारम्भे अष्टमोऽध्यायः ॥ 8 ॥ 
					 8-8-3 नन्दितूर्यमानन्दवाद्यम् ॥ 8-8-5 कल्पतां
						सन्नह्यमाननाम् । वरूथिनां रथगुप्तिमताम् । सन्नह्यतां नराणां सन्नह्यमानानां
						गजादीनां च शब्दो बभूवेति द्वयोः सम्बन्धः ॥ 8-8-7 श्वेतेत्यादिविशेषणद्वयं
						रथेनेत्यस्य ॥ 8-8-9 अभिपताकेन वायोः प्रातिकूल्यादभिमुखपताकेन ।
						एतत्पराजयसूचकम् ॥ 8-8-19 अनुपादे पादस्थानस्यापि प़श्चाद्भागे ॥ 8-8-20
						दक्षिणे अनुपादे ॥ 8-8-27 व्यूह रचय ॥ 8-8-8 अष्टमोऽध्यायः ॥ 
					
					
					
					
					श्रीः