अध्यायः 010

द्वन्द्वयुद्धम् ॥ 1 ॥ सात्यकिना विन्दानुविन्दवधः ॥ 2 ॥

सञ्चय उवाच ।
ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् ।
जघान समरे शूरः सन्नतपर्वभिः ॥
तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम् ।
कर्णस्य प्रमुखे क्रुद्धा निजघ्नुस्ते महारथाः ॥
कर्णोऽपि राजन्समरे व्यहनत्पाण्डवीं चमूम् ।
नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः ॥
तत्र भारत कर्णेन नाराचैस्ताडिता गजाः ।
नेदुः सेदुश्च मम्लुश्च बभ्रुमुश्च दिशो दश ॥
वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष ।
नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे ॥
भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम् ।
विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् ॥
श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः ।
प्रतिविन्ध्यस्तथा चित्रं चित्रकेतनकार्मुकम् ॥
दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम् ।
संशप्तकगणा हृष्टा ह्यभ्यधावन्धनञ्जयम् ॥
धृष्टद्युम्नः कृपं चापि तस्मिन्वीरवरक्षये ।
शिखण्डी कृतवर्माणं समासादयदच्युतम् ॥
श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव ।
दुःशासनं महाराज सहदेवः प्रतापवान् ॥
कैकेयौ सात्यकिं युद्धे शरवर्षेण भास्वता ।
सात्यकिः केकयौ चापि च्छादयामास भारत ॥
तावेनं भ्रातरौ वीरौ जघ्नतुर्हृदये भृशम् ।
विषाणाभ्यां यथा नागौ प्रतिनागं महावने ॥
शरसम्बिन्नवर्माणौ तावुभौ भ्रातरौ रणे ।
सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः ॥
तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशः ।
छादयञ्छरवर्षेण वारयामास भारत ॥
वार्यमाणौ ततस्तौ हि शैनेयशरवृष्टिभिः ।
शैनेयस्य रथं तूर्णं छादयामासतुः शरैः ॥
तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महायशाः ।
अथ तौ सायकैस्तीक्ष्णैर्वारयामास सात्यकिः ॥
अथान्ये धनुषी चित्रे प्रगृह्य च महाशरान् ।
सात्यकिं छादयन्तौ तौ चेरतुर्लघु सुष्ठु च ॥
ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः ।
द्योतयन्तो दिशः सर्वाः सम्पेतुः स्वर्णभूषणाः ॥
बाणान्धकारमभवत्तयो राजन्महामृधे ।
अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः ॥
ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः ।
धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे ॥
क्षुरप्रेण सुतीक्ष्णेन ह्यनुविन्दशिरोऽहरत् ।
अपतत्तच्छिरो राजन्कुण़्डलोपचितं महत् ॥
शम्बरस्य शिरो यद्वन्निहतस्य महारणे ।
शोचयन्केकयान्सर्वाञ्जगामाशु वसुन्धराम् ॥
तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः ।
सज्यमन्यद्धनुः कृत्वा शैनेयं पर्यवारयत् ॥
स षष्ट्या सात्यकिं विद्व्वा स्वर्णपुङ्खैः शिलाशितैः ।
ननाद बलवन्नादं तिष्ठतिष्ठेति चाब्रवीत् ॥
सात्यकिं च ततस्तूर्णं केकयानां महारथः ।
शरैरनेकसाहस्रैर्बाह्वोरुरसि चार्पयत् ॥
स शरैः क्षतसर्वाङ्गः सात्यकिः सत्यविक्रमः ।
रराज समरे राजन्सपुष्प इव किंशुकः ॥
सात्यकिः समरे विद्वः कैकेयेन महात्मना ।
कैकेयं पञ्चविंशत्या विव्याध प्रहसन्निव ॥
तावन्योन्यस्य समरे सञ्छिद्य धनुषी शुभे ।
हत्वा च सारथी तूर्णं हयांश्च रथिनां वरौ ॥
विरथावसियुद्धाय समाजग्मतुराहवे ।
शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तथा ॥
विरोचेतां महारङ्गे निस्त्रिंशबरधारिणौ ।
यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ ॥
मण्डलानि ततस्तौ तु विचन्तौ महारणे ।
अन्योन्यमभितस्तूर्णं समाजग्मतुराहवे ॥
अन्योन्यस्य वधे चैव चक्रतुर्यत्नमुत्तमम् ।
कैकेयस्य द्विधा चर्म ततश्चिच्छेद सात्वतः ॥
सात्यकेस्तु तथैवासौ चर्म चिच्छेद पार्थिवः । चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम् ।
चचार मण्डलान्येव गतप्रत्यागतानि च ॥
तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् ।
अपहस्तेन चिच्छेद शैनेयस्त्वरयाऽन्वितः ॥
सवर्मा केकयो राजन्द्विधा च्छिन्नो महारणे ।
निपपात महेष्वासो वज्राहत इवात्वलः ॥
तं निहत्य रणे शूरः शैनेयो रथसत्तमः ।
युधामन्युरथं तूर्णमारुरोह परन्तपः ॥
ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः ।
केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः ॥
सा वध्यमाना समरे केकयानां महाचमूः ।
तमुत्सृज्य रणे शत्रुं प्रदुद्राव दिशो दश ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे दशमोऽध्यायः ॥ 10 ॥

8-10-6 द्रौणिमभ्यद्रवत् ॥ 8-10-9 कृपेण युयुधे इति शेषः ॥ 8-10-10 माद्रीपुत्रः सुतं तवेत्यस्य व्याख्या दुःशासनमिति ॥ 8-10-17 लघु शीघ्रम् । सुष्रु शोभनम् ॥ 8-10-21 उपचितसमलङ्कृतम् ॥ 8-10-34 अपहस्तेन तिर्यग्घस्तेन ॥ 8-10-10 दशमोऽध्यायः ॥

श्रीः