अध्यायः 012

भीमाश्वत्थाम्नोर्युद्धम् ॥ 1 ॥

सञ्जय उवाच ।
भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा ।
परया त्वरया युक्तो दर्शयन्नस्त्रलाघवम् ॥
अथैनं पुनराजघ्ने नवत्या निशितैः शरैः ।
सर्वमर्माणि सम्प्रेक्ष्य मर्मज्ञो लघुहस्तवत् ॥
भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः ।
रराज समरे राजन्रश्मिवानिव भास्करः ॥
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः ।
द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत ॥
शरैः सरांस्ततो द्रौणिः संवार्य युधि पाण्डवम् ।
ललाटेऽभ्याहनद्राजन्नाराचेन स्मयन्निव ॥
ललाटस्थं ततो बाणं धारयामास पाण्डवः ।
यथा शृङ्गं वने दृप्तः खङ्गो धारयते नृप ॥
ततो द्रौणिं रणे भीमो यतमानं पराक्रमी ।
त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव ॥
ललाटस्थैस्ततो बाणैर्ब्राह्मणोऽसौ व्यशोभत ।
प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः ॥
ततः शरशतैर्द्रौणिरर्दयामास पाण्डवम् ।
न चैनं कम्पयामास मातरिश्वेव पर्वतम् ॥
तथैव पांण्डवो युद्धे द्रौणिं शरशतैः शितैः ।
नाकम्पयत संहृष्टो वार्योध इव पर्वतम् ॥
तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ ।
रथवर्यगतौ वीरौ शुशुभाते बलोत्कटौ ॥
आदित्याविव सन्दीप्तौ लोकक्षयकरावुभौ ।
स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः ॥
ततः प्रविकृते यत्नं कुर्वाणौ तौ महारणे ।
कृतप्रतिकृते यत्तौ शरसङ्घैरभीतवत् ॥
व्याघ्राविव च सङ्ग्रामे चेरतुस्तौ नरोत्तमौ ।
शरदंष्ट्रौ दुराधर्षौ चापवक्रौ भयङ्करौ ॥
अभूतां तावदृश्यौ च शरजालैः समन्ततः ।
मेघजालैरिव च्छनौ गगने चन्द्रभास्करौ ॥
चकाशेते मुहूर्तेन ततस्तावप्यरिन्दमौ ।
विमुक्तावभ्रजालेन अङ्गारकबुधाविव ॥
अथ तत्रैव सङ्ग्रमे वर्तमाने सुदारुणे ।
अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम् ॥
किरञ्छरशतैरुग्रैर्धाराभिरिव पर्वतम् ।
न तु तन्ममृषे भीमः शत्रोर्विजलक्षणम् ॥
प्रतिचक्रे ततो राजन्पाण्डवोऽप्यपसव्यतः ।
मण्डलानां विभागेन गतप्रत्यागतेन च ॥
बभूव तुमुलं युद्धं तयोः पुरुषसिंहयोः ।
चरित्वा विविधान्मार्गान्मण्डलस्थानमेव च ॥
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ।
अन्योन्यस्य वधे चैव चक्रतुर्यत्नमुत्तमम् ॥
ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे ।
ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः ॥
तान्यस्त्रैरेव समरे प्रतिजघ्नेऽथ पाण्डवः ।
ततो घोरं महाराज अस्त्रयुद्धमवर्तत ॥
ग्रहयुद्वं यथा घोरं प्रजासंहरणे ह्यभूत् ।
ते वाणाः समसज्जन्त मुक्तास्ताभ्यां तु भारत ॥
द्योतग्रन्तो दिशः सर्वास्तव सैन्यं समन्ततः ।
बाणसङ्घैर्वृतं घोरमाकाशं समपद्यत ॥
उल्कापातावृतं युद्धं प्रजानां संक्षये नृप ।
बाणाभिघातात्सञ्जज्ञे तत्र भारत पावकः ॥
सविस्फुलिङ्गो दीप्तार्चिर्योऽदहद्वाहिनीद्वयम् ।
तत्र सिद्धा महाराज सम्पतन्तोऽब्रुवन्वचः ॥
युद्धानामति सर्वेषां युद्धमेतदिति प्रभो ।
सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम् ॥
नेदृशं च पुनर्युद्धं भविष्यति कदाचन ।
अहो ज्ञानेन सम्पन्नावुभ ब्राह्मणक्षत्रियौ ॥
अहो शौर्येण सम्पन्नावुभौ चोग्रपराक्रमौ ।
अहो भीमबलो भीम एतस्य च कृतास्त्रता ॥
अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः ।
स्थितावेतौ हि समरे कालान्तकयमोपमौ ॥
रुद्रौ द्वावि सम्भूतौ यथा द्वाविव भास्करौ ।
यमौ वा पुरुषव्याघ्रौ घोररूपावुभौ रणे ॥
इति वाचः स्म श्रूयन्ते सिद्धानां वै मुहुर्मुहुः ।
सिंहनादश्च सञ्जज्ञे समेतानां दिवौकसाम् ॥
अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयो रणे ।
सिद्वचारणसङ्घानां विस्मयः समपद्यत ॥
प्रशंसन्ति तदा देवाः सिद्वाश्च परमर्षयः ।
साधु द्रौणे महाबाहो साधु भीमेति चाब्रुवन् ॥
तौ शूरौ समरे राजन्परस्परकृतागसौ ।
परस्परमुदीक्षेतां क्रोधादुद्वृत्य चक्षुषी ॥
क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ ।
क्रोधात्संदष्टदशनौ तथैव दशनच्छदौ ॥
अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ ।
शराम्बुधारो समरे शस्त्रविद्युत्प्रकाशिनौ ॥
तावन्यन्यं ध्वजं विद्व्वा सारथिं च महारणे ।
अन्योन्यस्य हयान्विद्वा बिभिदाते परस्परम् ॥
ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे ।
उभौ चिक्षिपतुस्तूर्ममन्योन्यस्य वधैषिणौ ॥
तौ सायकौ महाराज द्योतमानौ चमूमुखे ।
आजघ्नतुः समासाद्य वज्रवेगौ दुरासदौ ॥
तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ ।
निपेततुर्महावीर्यौ रथोपस्थे तयोस्तदा ॥
ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम् ।
अपोवाह रणाद्राजन्सर्वसैन्यस्य पश्यतः ॥
तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः । अपोवाह रथेनाजौ विशोकः शत्रुतापनम् ॥ ॥ *इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे द्वादशोऽध्यायः ॥ 12 ॥ *.झ. पन्तके एतदनन्तरं स्थिताः सप्ताध्याया एतत्पाठे क्रमेण 52-53-54-55-56-59-60 तमाध्यायतया वर्तन्ते ।

8-12-6 खङ्गः पण्डकः ॥ 8-12-13 कृतप्रतिकृते अन्योन्यास्नप्रतिघाते ॥ 8-12-22 ईषतुः इच्छां चक्रतुः ॥ 8-12-26 उत्कानामन्योन्या भिमुखं पातास्तैरावृतमिवेति लुप्तोपमा ॥ 8-12-37 तथैव दशनच्छदौ क्रोधात्सन्दष्टोष्टौ ॥ 8-12-12 द्वादशोऽध्यायः ॥

श्रीः