अध्यायः 013
शल्येन श्रुतकीर्तिपराजयः ॥
`सञ्जय उवाच ।
श्रुतकीर्तिमथायान्तं किरन्तं निशिताञ्शरान् ।
मद्रराजो महाराज वारयामास हृष्टवत् ॥
मद्रराजं समासाद्य श्रुतकीर्तिर्महारथः ।
विव्याध भल्लैर्विशत्या कार्तस्वरविभूषितैः ॥
प्रतिविव्याध तं शल्यं त्रिभिस्तूर्णमजिह्मगैः ।
सारथिं चास्य भल्लेन भृशं विव्याध भारत ॥
स शल्यं शरवर्षेण च्छादयामास संयुगे ।
मुमोच निशितान्बाणान्मद्रराजरथं प्रति ॥
ततः शल्यो महाराज श्रुतकीर्तिभुजच्युतान् ।
चिच्छेद समरे बाणासन्बणैः सन्नतपर्वभिः ॥
श्रुतकीर्तिस्ततः श्ल्यं भित्त्वा नवभिरायसैः ।
सारथिं त्रिभिरानर्च्छत्पुनः शल्यं च प़ञ्चभिः ॥
तस्य शल्यो धनुश्छित्त्वा हस्तावापं निकृत्य च ।
विव्याध समरे तूर्णं सप्तभिस्तं शरोत्तमैः ॥
अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः ।
भद्रेश्वरं चतुःषष्ट्या बाह्वोरुरसि चार्पयत् ॥
ततस्तु समरे राजंस्तेन विद्वः शिलीमुखैः ।
xxविव्याध तं चापि नवत्या निशितैः शरैः ॥
तस्य मद्रेश्वरश्चापं पुनश्चिच्छेद मारिष ।
स च्छिन्नधन्वा समरे गदां चिक्षेप सत्वरः ॥
पट्टैर्जाम्बूनदैर्बद्धां रुप्यपट्टैश्च भारत ।
भ्राजमानां यथा नारीं दिव्यवस्त्रविभूषिताम् ॥
तामापतन्तीं सहसा दीप्यमानाशनिप्रभाम् ।
शरैरनेकसाहस्रैर्व्यष्टम्भयत मद्रराट् ॥
विष्टभ्य च गदां वीरः पातयित्वा च भूतले ।
श्रुकीर्तिमथायत्तो राजन्विव्याध पञ्चभिः ॥
तस्य शक्तिं रमे भूयश्चिक्षेप भुजोपमाम् ।
तां द्विधा चाछिनच्छल्यो मेदिन्यां सा त्वशीर्यत ॥
तस्य शल्यः क्षुरप्रेण यन्तुः कायाच्छिरोऽहरत् ।
बालहस्ताद्यथा श्येन आमिषं वै नरोत्तम ॥
स पपात रथोपस्थात्सारथिस्तस्य भारत ।
ततस्ते प्राद्रवन्सङ्ख्ये हय्नास्तस्य महात्मनः ॥
पलायमानैस्तैरश्वैः सोपनीतो रमाजिरात् ।
श्रुतकीर्तिर्महाराज पश्यतां सर्वयोधिनाम् ॥
ततो मद्रेश्वरो राजा पाण्डवानामनीकिनीम् ।
व्यगाहत मुदा युक्तो नलिनीं द्विरदो यथा ॥
लोलयामास स बलं सिंहः पशुगणानिव ।
शल्यस्तत्र महारङ्गे पाण्डवानां महात्मनाम् ॥
निपात्य पाण्डुपाञ्चालान्पृतनासु व्यवस्थितः ।
अशोभत रणे शल्यो विधूमोऽग्निरिव ज्वलन् ॥
सेनाकक्षं महद्दग्ध्वा कक्षमग्निरिवोत्थितः ।
स्थितो रराज समरे पुरं दग्ध्वेव शङ्करः ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे त्रयोदशोऽध्यायः ॥ 13 ॥
श्रीः