अध्यायः 015

कर्णनकुलयोर्युद्धम् ॥ 1 ॥ कर्णेन नकुलस्य पराभावनपूर्वकं सोपहासमधिक्षेपः ॥ 2 ॥

सञ्जय उवाच ।
नकुलं रभसं युद्धे द्रावयन्तं वरूथिनीम् ।
कर्णो वैकर्तनो राजन्वारयामास वै रुषा ॥
नकुलस्तु ततः कर्णं प्रहसन्निदमब्रवीत् ॥ चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा ।
यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः ॥ त्वं हि मूलमनर्थानां वैरस्य कलहस्य च ।
त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम् ।
त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः ॥
एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः ।
सदृशं राजपुत्रस्य धन्विनश्च विशेषतः ॥
प्रहरस्व च मे वीर पश्यामस्तव पौरुषम् ।
कर्म कृत्वा रमे शूर ततः कत्थितुमर्हसि ॥
अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः ।
प्रयुध्यस्व मया शक्त्या हनिष्ये दर्पमेव ते ॥
इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः ।
विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः ॥
नकुलस्तु ततो विद्वः सूतपुत्रेण भारत ।
अशीत्याऽऽशीविषप्रख्यैः सूतपुत्रमविध्यत ॥
तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः ।
त्रिंशता परमेष्वासः शरैः पाण्डवमर्दयत् ॥
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ।
आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः ॥
अथान्यद्वनुरादाय हेमपृष्ठं दुरासदम् ।
कर्णं विव्याध सप्तत्या सारथिञ्च त्रिभिः शरैः ॥
ततः क्रुद्धो महाराज नकुलः परवीहा ।
क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुराच्छिनत् ॥
अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः ।
आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम् ॥
कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष ।
विस्मयं परमं जग्मुर्ऋषयः सह दैवतैः ॥
अथान्यद्वनुरादाय कर्णो वैकर्तनस्तदा ।
नकुलं पञ्छभिर्बाणैर्जत्रुदेशे समार्पयत् ॥
उरस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत ।
स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम् ॥
नकुलस्तु ततः कर्णं विद्व्वा सप्तभिराशुगैः ।
अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष ॥
सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम् ।
नकुलस्य ततो बैणैः समन्ताच्छादयद्दिशः ॥
सञ्छाद्यमानः सहसा कर्णचाप्युतैः सरैः ।
चिच्छेद स शरांस्तूर्णं शरैरेव महारथः ॥
ततो बाणमयं जालं विततं व्योम्न्यदृश्यत ।
खद्योतानामिव व्रातैः सम्पतद्भिर्यथा नभः ॥
तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा ।
शलभानां यथा व्रातैस्तद्वदासीद्विशाम्पते ॥
ते शरा हेमविकृताः सम्पन्तौ मुहुर्मुहुः ।
श्रेणीकृता व्यकाशान्त क्रौञ्चाः श्रेणीकृता इव ॥
बाणजालवृते व्योम्नि च्छादिते च दिवाकरे ।
न स्म सम्पतते भूतं किञ्चिदप्यन्तरिक्षगम् ॥
निरुद्वे तत्र मार्गे च शरसङ्घैः समन्ततः ।
व्यरोचेतां महात्मानौ कालसूर्याविवोदितौ ॥
कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः ।
अवालीयन्त राजेन्द्र वेदनार्ता भूशार्दिताः ॥
नकुलस्य तथा बाणैर्हन्यमाना चमूस्तव ।
व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः ॥
ते सेने हन्यमाने तु ताभ्यां दिव्यैर्महाशरैः ।
शरपातमपाक्रम्य तस्थतुः प्रेक्षिके तदा ॥
प्रोत्सारितजने तस्मिन्कर्णपाण्डवयोः शरैः ।
अविध्येतां महात्मानावन्योन्यं शरवृष्टिभिः ॥
विदर्शयन्तौ दिव्यानि शस्त्राणि रणमूर्धनि ।
छादयन्तौ च सहसा परस्परवधैषिणौ ॥
नकुलेन शरा मुक्ता कङ्कबर्हिणवाससः ।
सूतपुत्रमवच्छाद्य व्यतिष्ठन्त यथाऽम्बरे ॥
तथैव सूतपुत्रेण प्रेषिताः परमाहवे ।
पाण्डुपुत्रमवच्छाद्य व्यतिष्ठन्ताम्बरे शराः ॥
शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन ।
सूर्याचन्द्रमसौ राजञ्छाद्यमानौ घनैरिव ॥
ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः ।
पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः ॥
सोऽतिच्छन्नो महाराज सूतपुत्रेण पाण्डवः ।
न चकार व्यथां राजन्भास्करो जलदैर्यथा ॥
ततः प्रहस्याधिरथिः शरजालानि मारिष ।
प्रेषयामास समरे शतशोऽथ सहस्रशः ॥
एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः ॥
अभ्रच्छायेव सञ्जज्ञे सम्पतद्भिः शरोत्तमैः ॥
ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः ।
सारथिं पातयामास रथनीडाद्वसन्निव ॥
ततोऽश्वांश्छतुरश्चास्य चतुर्भिर्निशितैः शरैः ।
यमस्य भवनं तूर्णं प्रेषयामास भारत ॥
अथास्य तं रथं दिव्यं तिलशो व्यधमच्छरैः ।
पताकां चक्ररक्षांश्च गदां खङ्गं च मारिष ॥
शतचन्द्रं च तच्चर्म सर्वापकरणानि च ।
`सुवर्णविकृतं तच्च धनुः शरमाहवे' ॥
हताश्वो विरथश्चैव विवर्मा च विशाम्पते ।
अवतीर्य रथात्तूर्णं परिघं गृह्य धिष्ठितः ॥
तमुद्यतं महारघोरं परिघं तस्य सूतजः ।
व्यहनत्सायकै राजन्सुतीक्ष्णैर्भारसाधनैः ॥
व्यायुधं चैनमालक्ष्य शरैः सन्नतपर्वभिः ।
आर्पयद्बहुभिः कर्णो न चैनं समपीडयत् ॥
स हन्यमानः समरे कृतास्त्रेण बलीयसा ।
प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः ॥
तमभिद्रुत्य राधेयः प्रहसन्वै पुनःपुनः ।
सज्यमस्य धनुः कण्ठे व्यवासृजत भारत ॥
ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः ।
परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः ॥
यथैव चासितो मेघः शक्रचापेन शोभितः ।
`अशोभत महाराज पाण्डुपुत्रस्तथा रणे' ॥
तमब्रवीत्ततः कर्णो व्यर्थं व्याहृतवानसि ।
वदेदानीं पुनर्हृष्टो वध्यमानः पुनःपुनः ॥
मा योत्सीः कुरुभिः सार्धं बलवद्भिश्च पाण्डव ।
सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव ॥
गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ ।
एवमुक्त्वा महाराज विससर्ज स तं तदा ॥
वधप्राप्तं तु तं शूरो नाहनद्वर्मवित्तदा ।
स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत् ॥
विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना ।
व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति ॥
आरुरोह रथं चापि सूतपुत्रप्रतापितः ।
निःश्वसन्दुःखसन्तप्तः कुम्भक्षिप्त इवोरगः ॥
तं विजित्याथ कर्णोऽपि पाञ्चालांस्त्वरितो ययौ ।
रथेनातिपताकेन चन्द्रवर्णहयेन च ॥
तत्राक्रन्दो महानासीत्पाण्डवानां विशाम्पते ।
दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान् ॥
तत्राकरोन्महाराज कदनं सूतनन्दनः ।
मध्यं प्राप्ते दिनकरे चक्रवद्विचरन्प्रभुः ॥
भग्नचक्रै रथैः कैश्चिच्छिन्नध्यवजपताकिभिः । हताश्वैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष ।
हियमाणानपश्याम पाञ्चालानां रथव्रजान् ॥
तत्रतत्र च सम्भ्रान्ता विचेरुरथ कुञ्जराः ।
दावाग्न्यभिपरीताङ्गा यथैव स्युर्महावने ॥
भिन्नकुम्भाः सरुधिराश्छिन्नहस्ताश्च वारणाः । छिन्नगात्रावराश्चैव च्छिन्नवालधयोऽपरे ।
छिन्नाभ्राणीव सम्पेतुर्हन्यमाना महात्मना ॥
अपरे त्रासिता नागा नाराचशरतोमरैः ।
तमेवाभिमुखं जग्मुः शलभा इव पावकम् ॥
अपरे निष्टनन्तश्च व्यदृश्यन्त महाद्विपाः ।
क्षरन्तः शोणितं गात्रैर्नगा इव जलस्रवाः ॥
उरश्छदैर्वियुक्तांश्च वालबन्धैश्च वाजिनः ।
राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः ॥
हीनांश्चाभरणैश्चैव खलीनैश्च विवर्जितान् ।
चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि ॥
निहतैः सादिभिश्चैव शूरैराहवशोभितैः ।
अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान् ॥
प्रासैः खङ्गैश्च रहितानृष्टिभिश्चापि भारत ।
हयसादीनपश्याम कञ्चुकोष्णीषधारिणः ॥
निहतान्वध्यमानांश्च वेपमानांश्च भारत ।
नागाङ्गावयवैर्हीनांस्तत्रतत्रैव भारत ॥
रथान्हेमपरिष्कारान्संयुक्ताञ्जवनैर्हयैः ।
भ्राम्यमाणानपश्याम हतेषु रथिषु द्रुतम् ॥
भग्नाक्षकूबरान्कांश्चिद्भग्नचक्रांश्च भारत ।
विपताकध्वजांश्चान्याञ्छिन्नेषादण्डबन्धुरान् ॥
विहीनान्रथिनस्तत्र धावमानांस्ततस्ततः ।
सूतपुत्रशरैस्तीक्ष्णैर्हन्यमानान्विशाम्पते ॥
विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च हतान्बहून् ।
तारकाजालसञ्छन्नान्वरघण्टाविशोभितान् ॥
नानावर्णविचित्राभिः पताकाभिरलङ्कृतान् ।
वारमआननुपश्याम धावमानान्समन्ततः ॥
शिरांसि बाहूनूरूंश्च च्छिन्नानन्यांस्तथैव च ।
कर्णचापच्युतैर्बाणैरपश्याम समन्ततः ॥
महान्व्यतिकरो रौद्रो योधानामन्वपद्यत ।
कर्णसायकनुन्नानां युध्यतां च शितैः शरैः ॥
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः ।
तमेवाभिमुखं यान्ति पतङ्गा इव पावकम् ॥
तं दहन्तमनीकानि तत्रतत्र महारथम् ।
क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम् ॥
हतशेषास्तु ये वीराः पाञ्चालानां महारथाः । तान्प्रभग्रान्दुतान्वीरः पृष्ठो विकिऱञ्छरैः ।
अभ्यधावत तेजस्वी विशीर्णवचनध्वजान् ॥
तापयामास तान्बाणैः सूतपुत्रो महाबलः ।
मध्यन्दिनमनुप्राप्तो भूतानीव तमोनुदः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे पञ्चदशोऽध्यायः ॥ 15 ॥

8-15-1 रभसं रणोत्सुकम् ॥ 8-15-11 आशीविषा यथा राजन्भित्त्वा गां सलिलं भृशम् । इति क.ख.ट.पाठः ॥ 8-15-25 बालसूर्याविवोदितौ इति ख.पाठः ॥ 8-15-37 एकबाणमभूत्सर्वं इति क.ट.पाठः ॥ 8-15-58 म्रियमाणान्पश्याम इति क.ख.ट.पाठः ॥ 8-15-67 नागाङ्गावयवैरित्यर्धं झ.पुस्तकएव दृश्यते ॥ 8-15-15 पञ्चदशोऽध्यायः ॥

श्रीः