अध्यायः 018

अर्जुनेन संशप्तकपराजयः ॥ 1 ॥

सञ्जय उवाच ।
श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम् ।
यथा वायुः समासाद्य तूलराशिं समन्ततः ॥
प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह ।
वसातयोऽथ साल्वाश्च गोपालाश्च यशस्विनः ॥
सत्यदेवः सत्यकीर्तिर्मित्रदेवः श्रुतञ्जयः ।
सौश्रुतिश्चन्द्रदेवश्च मित्रवर्मा च भारत ॥
त्रिगर्तराजः समरे भ्रातृभिः परिवारितः ।
पुत्रैश्चैव महेष्वासैर्नानाशस्त्रविशारदैः ॥
व्यसृजन्त शस्त्रातान्किरन्तोऽर्जुनमाहवे ।
अभ्यवर्तन्त सहसा वार्योघा इव सागरम् ॥
ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः ।
अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः ॥
ते हन्यमानाः समरे न जहुः पाण्डवं रणे ।
हन्यमाना महाराज शलभा इव पावकम् ॥
सत्यदेवस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम् ।
मित्रदेवस्त्रिषष्ट्या तु चन्द्रदेवस्तु सप्तभिः ॥
मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि सप्तभिः ।
श्रुतंजयस्तु विंशत्या सुशर्मा नवभिः शरैः ॥
स विद्वो बहुभिः सङ्ख्ये प्रतिविव्याध तान्नृपान् ।
सौश्रुतिं सप्तभिर्विद्व्वा चन्द्रदेवं त्रिभिः शरैः ॥
श्रुतंजयं च विंशत्या चन्द्रदेवं तथाऽष्टभिः ।
मित्रदेवं शतेनैव सत्यदेवं त्रिभिः शरैः ॥
नवभिर्मित्रवर्माणं सुशर्माणं तथाऽष्टभिः ।
श्रुतञ्जयं च राजानं हत्वा तत्र शिलाशितैः ॥
सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत् ।
त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम् ॥
तथेतरान्महाराज यतमानान्महारथान् ।
पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत् ॥
सत्यदेवस्तु सङ्क्रुद्वस्तोमरं व्यसृजन्महत् ।
समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च ॥
स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः ।
अयस्मयः स्वर्णदण्डो जगाम धरणीं तदा ॥
माधवस्य तु विद्धस्य तोमरेण महारणे ।
प्रतोदः प्रापतद्वस्ताद्रश्मयश्च विशाम्पते ॥
वासुदेवं विभिन्नाङ्गं दृष्ट्वा पार्थो धनञ्जयः ।
क्रोधमाहारयत्तीव्रं कृष्णं चेदमुवाच ह ॥
प्रापयाश्वान्महाबाहो सत्यदेवं प्रति प्रभो ।
यावदेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ॥
प्रतोदं गृह्य सोऽन्यत्तु रश्मीन्सङ्गृह्य च द्रुतम् ।
वाहयामास तानश्वान्सत्यदेवरथं प्रति ॥
विष्वक्सेनं सुनिर्विद्वं दृष्ट्वा पार्थो धनञ्जयः ।
सत्यदेवं शरैस्तीक्ष्णैर्वारयित्वा महारथः ॥
ततः सुनिशितैर्भल्लै राज्ञस्तस्य महच्छिरः ।
कुम्डलोपचितं कायाच्चकर्त पृतनान्तरे ॥
तन्निकृत्य शितैर्बाणैर्भित्रवर्माणमाक्षिपत् ।
वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष ॥
ततः शरशतैर्भूयः संशप्तकगणान्बली ।
पातयामास सङ्क्रुद्वः शतशोऽथ सहस्रशः ॥
ततो रजतपुङ्खेन राजञ्शीर्षं महात्मनः । मित्रदेवस्य चिच्छेद क्षुरप्रेण महारथः ।
सुशर्माणं सुसङ्क्रुद्धो जत्रुदेशे समाहनत् ॥
ततः संशप्तकाः सर्वे परिवार्य धनञ्जयम् ।
शस्त्रौघैर्ममृदुः क्रुद्वा नादयन्तो दिशो दश ॥
अभ्यर्दितस्तु तज्जिष्णुः शक्रतुल्यपराक्रमः ।
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः ॥
ततः शरसहस्राणि प्रादुरासन्विशाम्पते ।
`कार्मुकात्पाण्डुपुत्रस्य पार्थस्यामिततेजसः' ॥
ततस्तु च्छिद्यमानानां ध्वजानां धनुषां तथा ।
रथानां सपताकानां तूणीराणां युगैः सह ॥
अक्षाणामथ चक्राणां योक्त्राणां रश्मिभिः सह ।
कूबराणां वरूथानां पृषत्कानां च संयुगे ॥
अश्वानां पततां चापि प्रासानामृष्टिभिः सह ।
गदानां परिघानां च शक्तितोमरपट्टसैः ॥
शतघ्नीनां सचक्राणां भुजानां चोरुभिः सह ।
कण्ठसूत्राङ्गदानां च केयूराणां च मारिष ॥
हाराणामथ निष्काणां तनुत्राणां च भारत । छत्राणां व्यजनानां च शिरसां कुमुटैः सह ।
राशयश्चात्र दृश्यन्ते पतितानां महीतले ॥
सकुण्डलानि स्वक्षीमि पूर्णचन्द्रनिभानि च ।
शिरांस्युर्व्यामदृश्यन्त ताराजालमिवाम्बरे ॥
सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च ।
शरीराणि व्यदृश्यन्त निहतानां महीतले ॥
रुद्रस्याक्रीडसदृशं घोरमायोधनं तदा ॥
निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः ।
`अर्जुनेन महाराज तत्रतत्र महारणे' ॥
हस्तिभिः पतितैश्चैव तुरङ्गैश्चाभवन्मही ।
अगम्यरूपा समरे विशीर्णैरिव पर्वतैः ॥
नासीद्रथपथस्तस्य पाण्डवस्य महात्मनः ।
निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चास्यतो महत् ॥
स्वानुगा इव सीदन्ति रथचक्राणि मारिष ।
चरतस्तस्य सङ्ग्रामे तस्मिंल्लोहितकर्दमे ॥
सीदमानानि चक्राणि समुहूस्तुरगा भृशम् ।
श्रमेण महता युक्ता मनोमारुतरंहसः ॥
वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना ।
प्रायशो विमुखं सर्वं नावतिष्ठत भारत ॥
ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून् ।
विरराज तदा पार्थो विधूमोऽग्निरिव ज्वलन् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे अष्टादशोऽध्यायः ॥ 18 ॥

8-18-39 आसीद्रथपथस्तस्य इति घ.ङ. पाठः । आसादितस्ततो रान्रथचक्रे विशाम्पते इति क.पाठः । आच्छादितं ततो राजन्रथचक्रं च मारिष इति ख.पाठः ॥ 8-18-41 सीदमानानि पङ्कमज्जनात् ॥ 8-18-18 अष्टादशोऽध्यायः ॥

श्रीः