अध्यायः 022

कृष्णतुल्यसारथेरभावात्स्वस्यार्जुनान्न्यूनतां मन्यमानेन कर्णेन दुर्योधनं प्रति शल्यस्य सारथ्ये नियोजनचोदना ॥ 1 ॥

धृतराष्ट्र उवाच ।
स्वेन च्छन्देन नः सर्वानवधीद्व्यक्तमर्जुनः ।
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः ॥
पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत् ।
एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् ॥
एको निवातकवचनानहनद्दिव्यकार्मुकः ।
एकः किरातरूपेण स्थितं शर्वमयोधयत् ॥
एको ह्यरक्षद्भरतानेको भवमतोषयत् ।
तेनैकेन जिताः सर्वे मदीया ह्युग्रतेजसः ॥
न ते निन्द्याः प्रशस्यास्ते यत्ते चक्रुर्ब्रवीहि तत् ।
ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा ॥
सञ्जय उवाच ।
हतप्रहतविध्वस्ता विवर्मायुधवाहनाः ।
दीनस्वरा दूयमाना मानिनः शत्रुनिर्जिताः ॥
शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः ।
भग्नदंष्ट्रा हतविषाः पादाक्रान्ता इवोरगाः ॥
तानब्रवीत्ततः कर्णः क्रुद्वः सर्प इव श्वसन् ।
करं करेण निष्पीड्य प्रेक्षमाणस्तवात्मजम् ॥
यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा ।
सम्बोधयति चाप्येनं यथाकालमधोक्षजः ॥
सहसाऽस्त्रविसर्गेण वयं तेनाद्य वञ्चिताः ।
श्वस्त्वहं तस्य सङ्कल्पं सर्वं हन्ता महीपते ॥
एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् ।
तेऽनुज्ञाता नृपाः सर्वे स्वानि वेश्मानि भेजिरे ॥
सुखोषितास्तां रजनीं हृष्टा युद्वाय निर्ययुः । तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम् ।
प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात् ॥
अथ प्रतीपकर्तारं प्रवीरं परवीरहा ।
सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा ॥
पुरन्दरसमं युद्वे मरुद्गणसमं बले ।
कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः ॥
सर्वेषां चैव सैन्यानां कर्णमेवागमन्मनः ।
सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव ॥
धृतराष्ट्र उवाच ।
ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा ।
यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं प्रति ॥
अप्यपश्यत राधेयं शीतार्ता इव भास्करम् ।
कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः ॥
`दुर्योधनं च तत्राजौ पाण्डवेन भृशार्दितम् ।
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वाऽपि भृशार्दितम्' ॥
कथं वैकर्तनः कर्णस्तत्रायुध्यत सञ्जय ।
कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम् ॥
कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससृञ्जयान् ।
कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं युधि ॥
तस्य शस्त्राणि घोराणि विक्रमश्च महात्मनः ।
कर्णमाश्रित्य सङ्ग्रामे मत्तो दुर्योधनो नृपः ॥
दुर्योधनं ततो दृष्ट्वा पाण्डवेन भृशार्दितम् ।
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महारथः ॥
कर्णमाश्रित्य सङ्ग्रामे मन्दो दुर्योधनः पुनः ।
जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान् ॥
`यः सौबलं तथा तात नीतिमानिति मन्यते ।
कर्णं चाग्रतिमं युद्वे देवैरपि दुरुत्सहम् ॥
मन्यतेऽभ्यधिकं पार्थादेवं चास्य हृदि स्थितम् । विजेष्यति रणे कर्ण एकः पर्थान्ससोमकान् ।
मम चैव सदा मन्दः शंसते नित्यमग्रतः' ॥
अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे ।
नातरद्रभसः कर्णो दैवं नूनं परायणम् ॥
अहो द्यूतस्य निष्ठेयं घोरा सम्प्रति वर्तते ॥
अहो तीव्राणि दुःखानि दुर्योधनकृतान्यहम् ।
सोढा घोराणि बहुशः शल्यभूतानि सञ्जय ॥
सौबलं च तदा तात नीतिमानिति मन्यते ।
कर्णश्च रभसो नित्यं राजा त चाप्यनुव्रतः ॥
यदेवं वर्तमानेषु महायुद्वेषु सञ्जय ।
अश्रौषं निहतान्पुत्रान्नित्यमेव विनिर्जितान् ॥
न पाण्डवानां समरे कश्चिदस्ति हतः किल ।
स्त्रीमध्यमिव गाहन्ते दैवं तु बलवत्तरम् ॥
सञ्जय उवाच ।
[राजन्पूर्वनिमित्तानि धर्मिष्ठानि विचिन्तय] ।
अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयते नरः ।
तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति ॥
तदिदं तव कार्यं तु दूरप्राप्तं विजानता ।
न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणम् ॥
उक्तोऽसि बहुधा राज्ञन्मा युध्यस्वेति पाण्डवैः ।
न च तत्त्वग्रहीर्द्वेषात्पाण्डवेषु विशाम्पते ॥
त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु ।
त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः ॥
तत्त्विदानीमतिक्रान्तं मा शुचो भरतर्षभ ।
शृणु सर्वं यथावृत्तं घोरं वैशसमुच्यते ॥
प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात् ।
समेत्य च महाबाहुर्दुर्योधनमथाब्रवीत् ॥
कर्ण उवाच ।
अद्य राजन्समेष्यामि पाण्डवेन यशस्विना ।
निहनिष्यामि तं वीरं स वा मां निहनिष्यति ॥
बहुत्वान्मम कार्याणां तथा पार्थस्य भारत ।
नाभूत्समागमो राजन्मम चैवार्जुनस्य च ॥
इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशाम्पते ।
अनिहत्य रणे पार्थं नाहमेष्यामि भारत ॥
हतप्रवीरे सैन्येऽस्मिन्मयि चावस्थिते युधि ।
अभियास्यति मां पार्थः शक्रशक्तिविनाकृतम् ॥
ततः श्रेयस्करं यच्च तन्निबोध जनेश्वर ।
आयुधानां च मे वीर्यं दिव्यानामर्जुनस्य च ॥
कार्यस्य महतो भेदे लाघवे दूरपातने ।
सौष्ठवे चास्त्रपाते च सव्यसाची न मत्समः ॥
प्राणे शौर्येऽथ विज्ञाने विक्रमे चापि भारत ।
निमित्तज्ञानयोगे च सव्यसाची न मत्समः ॥
सर्वायुधमहामात्रं विजयं नाम तद्वनुः ।
इन्द्रार्थं प्रियकामेन निर्मितं विश्वकर्मणा ॥
येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः ।
यस्य घोषेण दैत्यानां व्यामुह्यन्त दिशो दश ॥
तद्भार्गवाय प्रायच्छच्छक्रः परमसम्मतम् ।
तद्दिव्यं भार्गवो मह्यमददद्वनुरत्तमम् ॥
तेन योत्स्ये महाबाहुमर्जुनं जयतां वरम् । यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान् ।
`निजघान तथा सर्वाञ्जेष्यामि युधि पाण्डवान्' ॥
धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते ।
त्रिस्सप्तकृत्वः पृथिवी धनुषा येन निर्जिता ॥
धनुषो ह्यस्य कर्माणि दिव्यानि प्राह भार्गवः ।
तद्रामो ह्यददन्मह्यं तेन योत्स्यामि पाण्डवम् ॥
अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम् ।
निहत्य समरे वीरमर्जुनं जयतां वरम् ॥
सपर्वतवनद्वीपा हतवीरा ससागरा ।
पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव ॥
नाशक्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः ।
सम्यग्धर्मानुरक्तस्य सिद्विरात्मवतो यथा ॥
न हि मे विक्रमं सोढुं स शक्तोऽग्निं तरुर्यथा ।
अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात् ॥
ज्या तस्य धनुषो दिव्या तथाऽक्षय्ये महेषुधी ।
सारथिस्तस्य गोविन्दो मम तादृङ्ग विद्यते ॥
तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजितं युधि ।
विजयं च महद्दिव्यं ममापि धनुरुत्तमम् ॥
तत्राहमधिकः पार्थाद्वनुषा तेन पार्थिव ।
येन चाप्यधिको वीरः पाण्डवस्तन्निबोध मे ॥
रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः ।
अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः ॥
अच्छेद्याः सर्वतो वीर वाजिनश्च मनोजवाः ।
ध्वजश्च दिव्यो द्युतिमान्वानरोपि भयङ्करः ॥
कृष्णश्च जगतः स्रष्टा रथं तमभिरक्षति ।
एभिस्त्रिभिरहं हीनो युद्वुमिच्छामि पाण्डवम् ॥
अयं तु सदृशः शौरेः शल्यः समितिशोभनः ।
सारथ्यं यदि मे कुर्याद्द्रुवस्ते विजयो भवेत् ॥
तस्य मे सारथिः शल्यो भवत्वसुकरः परैः ।
नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे ॥
रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः ।
आयान्तु पश्चात्सततं मामेव भरतर्षभ ॥
एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् ।
शल्योप्यभ्यधिकः कृष्णादर्जुनादपिचाप्यहम् ॥
यथाऽश्वहृदयं वेद दाशार्हः परवीरहा ।
तथा शल्यो विजानीते हयज्ञानं महारथः ॥
बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन ।
तथाऽस्त्रे मत्समो नास्ति कश्चिदेव धनुर्धरः ॥
तथा शल्यसमो नास्ति हयज्ञाने हि कश्चन ।
सोऽयमभ्यधिकः कृष्णाद्भविष्यति रथो मम ॥
एवं कृते रथस्थोऽहं गुणैरभ्यधिकोऽर्जुनात् ।
विजयेयमहं सङ्ख्ये फल्गुनं कुरुसत्तम ॥
समुद्यातुं न शक्ष्यन्ति देवा अपि सवासवाः ।
एतत्कृतं महाराज त्वयेच्छामि परन्तप ॥
क्रियतामेष कामो मे मा वः कालोऽत्यगादयम् ।
एवं कृते कृतं मह्यं त्वया सर्वं भविष्यति ॥
ततो द्रक्ष्यसि सङ्ग्रामे यत्करिष्यामि भारत ।
सर्वथा पाण्डवान्सङ्ख्ये विजेष्ये वै समागतान् ॥
न हि मे समरे शक्ताः समुद्यातुं सुरासुराः ।
किमु पाण्डुसुता राजन्रणे मानुषयोनयः ॥
सञ्जय उवाच ।
एवमुक्तस्तव सुतः कर्णेनाहवशोभिना ।
सम्पूज्य सम्प्रहृष्टात्मा ततो राधेयमब्रवीत् ॥
दुर्योधन उवाच ।
एवमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे ।
सोपासङ्गा रथाः साश्वाः स्वनुयास्यन्ति संयुगे ॥
नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु ते ।
अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः ॥
सञ्जय उवाच ।
एवमुक्त्वा महाराज तव पुत्रः प्रतापवान् ।
अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥

8-22-1 स्वेन च्छन्देन इच्छया । आततायिनः शस्त्रपाणेः ॥ 8-22-2 भद्रां सुभद्राम् । बलिभृतः करदान् ॥ 8-22-4 अरक्षत घोषयात्रायाम् । भरतान्दुर्योधनादीन् ॥ 8-22-6 हतास्ताडिताः । प्रहताश्छिन्नावयवाः । विध्वस्ताः वाहनेभ्योऽधः पातिताः ॥ 8-22-10 सहसा अकस्मात् सहस्राक्षनिसृष्ट्या च शक्त्या तेन स्म वञ्चिताः इति ख. पाठः । सहस्राक्षनिसर्गेय शक्त्या तेन स्म वञ्चिताः इति ट.पाठः ॥ 8-22-12 वृहस्पत्युशनोमते इति झ.पाठः तत्र स्थितेनेति शेषः ॥ 8-22-13 प्रतीपकर्तारं शत्रूणां छेत्तारम् । प्रवीरं प्रकृष्टं वीरम् ॥ 8-22-15 आल्ययिकेषु प्राणसङ्कटेषु ॥ 8-22-17 अप्यपश्यत । अपिः प्रश्ने ॥ 8-22-27 निष्ठा विपाकः ॥ 8-22-29 कर्णश्च नीतिमानिति मन्यत इति पूर्वेणान्वयः ॥ 8-22-31 स्त्रीमध्यमिव गाहन्ते निर्भयाः सेनां मृद्रन्तीत्यर्थः ॥ 8-22-32 निमितानि द्यूतादीनि धर्मिष्ठानीतिविपरीतलक्षणा । अधर्मिष्ठानीत्यर्थः ॥ 8-22-34 प्राप्ताप्राप्तविचरणं युक्तायुक्तपरीक्षणं न कृतमित्यन्वयः ॥ 8-22-43 जीवानामर्जुनस्य चेति ख.ड.पाठः ॥ 8-22-44 कार्यस्य कर्तव्यस्य परकीयस्य भेदे विनाशे । लाघवे शैघ्र्ये । सौष्ठवे कौशले ॥ 8-22-45 प्राणे शारीरबले । शौर्ये मानसबले विज्ञाने अस्त्रशिक्षायाम् । विक्रमे फलोपधानेऽस्त्राणाम् । निमित्तज्ञानयोगे लक्षसम्बन्धावधारणे । प्राणस्थैर्ये च वीर्ये च इति क.ख.ङ.पाठः ॥ 8-22-46 महामात्रं श्रेष्ठम् ॥ 8-22-54 सिद्विर्मोक्षः । आत्मवतो जितचित्तस्य ॥ 8-22-55 न भीमो विक्रमं सोढुं इति क.ङ.पाठः ॥ 8-22-22 द्वाविंशोऽध्यायः ॥

श्रीः