अध्यायः 025

देवै रुद्रवचनात्तस्य स्वस्वार्धबलदानपूर्वकं त्रिपुरसंहारायाभिषेचनम् ॥ 1 ॥

दुर्योधन उवाच ।
पितृदेवर्षिसङ्घेभ्योऽभये दत्ते महात्मना ।
सत्कृत्य शंकरं प्राह ब्रह्मा लोकपितामहः ॥
इमान्यसुरदुर्गाणि लोकांस्त्रीनाक्रमन्ति हि ।
कश्च प्रजापतिर्घोरांस्तान्स्रर्वाञ्जहि मा चिरम् ॥
वरातिसर्गाद्देवेश प्राजापत्यमिदं परम् ।
मयाऽधितिष्ठता दत्तो दानवेभ्यो महान्वरः ॥
नास्त्यन्यो युधि तेषां वै निहन्ता इति नः श्रुतम् । तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति ।
त्वामृते सर्वभूतेश त्वं ह्येषां प्रत्यरिर्वधे ॥
स त्वं देव प्रपन्नानां याचतां च दिवोकसाम् ।
कुरु प्रसादं वरद दानवाञ्जहि संयुगे ॥
त्वत्प्रसादाज्जगत्सर्वं सुखमैधत मानद ।
शरण्यस्त्वं हि देवानां वयं त्वां शरणं गताः ॥
ईश्वर उवाच ।
हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः ।
न त्वेकश्चोत्सहे हन्तुं बलिनः सुरविद्विषः ॥
ते यूयं सहिताः सर्वे मदीयेनापि तेजसा ।
जयध्वं युधि तान्सर्वान्सङ्घातेन महाबलान् ॥
देवा ऊचुः ।
अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव वा ।
तत्तेषामिति मन्यामो दृष्टतेजोबला हि ते ॥
ईश्वर उवाच ।
वध्यास्ते सर्वथा पापा ये युष्मास्वपराधिनः ।
मम तेजोबलार्धेन सर्वे मृद्गथ शात्रवान् ॥
देवा ऊचुः ।
बिभर्तुं तव तेजोर्धं न शक्ष्याम सुरेश्वर ।
सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् ॥
वयं च सर्वथा देव रक्षणीयास्तथैव च ।
स नो रक्ष महादेव त्वमेव जहि शात्रवान् ॥
ईश्वर उवाच ।
मम तेजो न शक्ता हि सर्वे धारयितुं यदि ।
अहमेनान्वधिष्यामि युष्मत्तेजोर्धसंयुतः ॥
बलार्धं यदि मे देवा न धारयितुमाहवे ।
शक्ताः सर्वे हि सङ्गम्य यूयं तत्प्रब्रवीमि वः ॥
समा भवन्ति मे सर्वे दानवाश्चामराश्च ये ।
शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुराः ॥
किन्त्वधर्मेण वर्तन्ते यस्मात्ते सुरशत्रवः ।
तस्माद्वध्या मयाप्येते युष्माकं च हितेप्सया ॥
शरणं वः प्रपन्नानां धर्मेण च जिगीषताम् ।
साहाय्यं वः करिष्यामि निहनिष्यामि वो रिपून् ॥
दीयतां च बलार्धं मे सर्वैरपि पृथक्पृथक् ।
पशुत्वं चैव मे लोकाः सर्वे कल्पन्तु पीडिताः ॥
पशूनां तु पतित्वं मे भवत्वद्य दिवौकसः ।
एवं न पापं प्राप्स्यामि पशून्हत्वा सुरद्विपः ॥
कल्पयध्वं रथं दिव्यं रथाश्वांश्चैव पारगान् ।
धनुः शरं सारथिं च ततो जेष्यामि वो रिपून् ॥
इति श्रुत्वा वचो देवा देवदेवस्य भूपतेः ।
विषादमगमन्सर्वे पशुत्वं प्रति शङ्किताः ॥
तेषां भावं भवो ज्ञात्वा देवस्तानब्रवीदिदम् ।
मा वोस्तु पशुभावेऽस्मिन्भयं विबुधसत्तमाः ॥
श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः ॥
यो वः पशुपतेश्चर्यां चरिष्यति स मोक्ष्यते ।
पशुत्वादिति सत्यं वः प्रतिजाने समागमे ॥
ये चाप्यन्ये चरिष्यन्ति व्रतं मोक्ष्यन्ति तेऽपि च ॥
नै(त्य)ष्ठिकं द्वादशाब्दं वा अर्धमब्दमृतुत्रयम् ।
मासं द्वादशरात्रं गुह्यं व्रतं दिव्यं चरिष्यथ ॥
तं तथेत्यब्रुवन्देवा देवदेवनमस्कृतम् ।
ऊचुश्चेदं गृहाणेदं तेजसोऽर्धमिति प्रभुम् ॥
प्रत्युवाच तथेत्येव शूलधृद्राजसत्तम ।
ततस्ते प्रददुः सर्वे तेजसोऽर्धं महात्मने ॥
सर्वमादाय सर्वेषां तेजसोऽर्धं दिवौकसाम् ।
तेजसाप्यधिको भूत्वा भूयोऽप्यतिबलोऽभवत् ॥
ततः प्रभृति देवानां देवदेवोऽभवद्भवः ।
पतिश्च सर्वभूतानां पशूनां चाभवत्तदा ॥
तस्मात्पशुपतिश्चोक्तो भवत्वाच्च भवेति वै ॥ अर्धमादाय सर्वेषां तेजसा प्रज्वलन्निव ।
भासयामास तान्सर्वान्देवदेवो महाद्युतिः ॥ ततोऽभिषिषिच्युः सर्वे सुरा रुद्रं पुरारिणम् ।
महादेव इति ह्यासीद्देवदेवो महेश्वरः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥

श्रीः