अध्यायः 026

देबानामाज्ञया विश्वकर्मणा भूम्यादिसाधनै रुद्राय रथनिर्माणम् ॥ 1 ॥

दुर्योधन उवाच ।
तेजसोऽर्धं सुरा दत्त्वा शङ्कराय महात्मने ।
पशुत्वमपि चोपेत्य विश्वकर्माणमव्ययम् ॥
ऊचुः सर्वे समाभाष्य रथः सङ्कल्प्यतामिति ।
विश्वकर्माऽपि सञ्चिन्त्य रथं दिव्यमकल्पयत् ॥
समेतां पृथिवीं देवी विशालां पुरमालिनीम् ।
सपर्वतवनद्वीपां चक्रे भूतधरां रथम् ॥
ईषां नक्षत्रवंशं च छत्रं मेरुमहागिरिम् ।
अनेकद्रुसञ्छन्नं रत्नाकरमनुत्तमम् ॥
हिमवन्तं च विन्ध्यं च नानाद्रुमलताकुलम् ।
अवस्करं प्रतिष्ठानं कल्पयामास वै तदा ॥
अस्तंगिरिमधिष्ठानं नानाद्विजगणायुतम् ।
चकार भगवांस्त्वष्टा उदयं रथकूबरम् ॥
मीननक्रझषावासं दानवालयमुत्तमम् ।
समुद्रमक्षं विदधे पत्तनाकरशोभितम् ॥
चक्रं चक्रे चन्द्रमसं तारकागणमण्डितम् ।
दिवाकरं चाप्यपरं चक्रं चक्रेंऽशुमालिनम् ॥
गङ्गां सरस्वतीं तूणीं चक्रे विश्वकृदव्ययः ।
अलङ्कारा रथस्यासन्नापगाः सरितस्तथा ॥
त्रीनग्नीन्मन्त्रवच्चक्रे रथस्याथ त्रिवेणुकम् ।
अनुकर्षान्रथे दीप्तान्वरूथांश्चापि तारकाः ॥
ओषधीर्वीरुधश्चैव घण्टाजालं च भानुमत् ।
अलञ्चकार च रथं मासपक्षर्तुभिर्विभुः ॥
अहोरात्रैः कलाभिश्च काष्ठाभिरयनैस्तथा ।
द्यां युगं युगपर्वाणि संवर्तकबलाहरकान् ॥
शम्यां धृतिं च मेधां च स्थितिं सन्नतिमेव च ।
ऋघ्वेदं सामवेदं च धुर्यावश्वावकल्पयत् ॥
पृष्ठाश्वौ तु यजुर्वेदः कल्पितोऽथर्वणस्तथा ।
अश्वानां चाप्यलङ्कारं विदधे पदसञ्चयम् ॥
सिनीवालीमनुमतिं कुहूं राकां च सुप्रभाम् । योक्ताणि चक्रे चाश्वानां कूश्माण्डांश्चापि पन्नगान् ।
तालपृष्ठोऽथ नहुषः कार्कोटकधनञ्जयौ ।
इतरे चाभवन्नागा हयानां वाहबन्धनम् ॥
अभीशवः षडङ्गानि कल्पितानि महीपते ।
ओङ्कारः कल्पितस्तस्य प्रतोदो विश्वकर्मणा ॥
यज्ञाः सर्वे पृथक्लृप्ता रथाङ्गानि च भागशः ।
अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती ॥
नानावर्णानि शस्त्राणि पताकाः पवनेरिताः ।
विद्युदिन्द्रधनुर्युक्तं रथं दीप्त्या व्यदीपयत् ॥
वर्म योद्धुं च विहितं नमो ग्रहगणाकुलम् ।
अभेद्यं भानुमच्चित्रं कालचक्रपरिक्षतम् ॥
एवमस्मिन्महाराज कल्पिते रथसत्तमे ।
त्वष्ट्रा मनुजशार्दूल द्विषतां भयवर्धने ॥
स्वान्यायुधानि दिव्यानि न्यदधाच्छङ्करो रथे ।
ध्वजयष्टिं वियत्कृत्वा स्थापयामास गोवृषम् ॥
ब्रह्मदण़्डः कालदम्डो रुद्रदण्डश्च ते ज्वराः ।
परिष्कारा र्थस्यासन्समन्ताद्दिशमुद्धताः ॥
विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः ।
छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयां ध्रुवाम् ॥
कालो हि भगवान्रुद्रस्तच्च संवत्सरं धनुः ।
तस्माद्रौद्री कालरात्री ज्या कृता धनुषो जरा ॥
ततो रथे रथाश्वांस्तानृषयः समयोजयन् ।
एकैकशः सुसंहृष्टानादाय सुधृतव्रताः ॥
दक्षिणस्यां धुरि कृत ऋग्वेदो मन्त्रपारगैः ।
सव्यतः सामवेदश्च युक्तो राजन्महर्षिभिः ॥
पार्ष्ठिदक्षिणतो युक्तो यजुर्वेदः सुरद्विजैः ।
इतरस्यां तथा पार्ष्ठ्यां युक्तो राजन्नथर्वणः ॥
एवं ते वाजिनो युक्ता यज्ञविद्भिस्तथा रथे ।
अशोभन्त तथा युक्ता यथैवाध्वरमध्यगाः ॥
कल्पयित्वा रथं दिव्यं ततो बाणमकल्पयत् ।
चिन्तयित्वा हरिं विष्णुमव्ययं यज्ञवाहनम् ॥
शरं सङ्कल्पयाञ्चक्रे विश्वकर्मा महामनाः ।
तस्य वाजांश्च पुङ्खं च कल्पयामास वै तदा ॥
पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम ।
अग्नीषोमौ शरमुखे कल्पयामास वै तदा ॥
अग्नीषोमात्मकं कृत्स्नमुच्यते वैष्णवं जगत् ।
विष्णुरात्मा भगवतो भवस्यामिततेजसः ॥
तस्माद्धनुर्ज्यासंस्पर्शं स विषेहे शरस्य वै ।
तस्मिञ्शरे तीक्ष्णमन्युममुञ्चद्दुःसहं प्रभुः ॥
भृग्वङ्गिरोमन्युभवः क्रोधाग्निरतिदुःसहः ।
स नीललोहितो धूम्रः कृत्तिवासा भयानकः ॥
आदित्यायुतसङ्काशस्तेजोज्वालावृतो भवः ।
दुश्चर्यच्यावको जेता हन्ता ब्रह्मद्विषां वरः ॥
तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत् ।
जङ्गमाजङ्गमं राजञ्छुशुभेऽद्भुतदर्शनम् ॥
दृष्टा तु तं रथं दिव्यं कवची स शरासनी ।
आददे स शरं दिव्यं सोमविष्ण्वग्निवायुजम् ॥
तमादाय महादेवस्त्रासयन्दैत्यदानवान् ।
आरुरोह तदा यत्तः कम्पयन्निव रोदसी ॥
महर्षिभिः स्तूयमानो वन्द्यमानश्च वन्दिभिः ।
उपनृत्तश्चाप्सरसां गणैर्नृत्तविशारदैः ॥
स शोभमानो वरदः खङ्गी बाणी शरासनी ।
हसन्निवाब्रवीद्देवः सारथिः को भवेदिति ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥

श्रीः