अध्यायः 027

देवानां प्रार्थनया ब्रह्मणा रुद्ररथसारथ्यकरणम् ॥ 1 ॥ रुद्रेण त्रिपुरदहनम् ॥ 2 ॥ दुर्योधनेन दृष्टान्तप्रदर्शनपूर्वकं शल्यम्प्रति कर्णरथसारथ्यकरणप्रार्थना ॥ 3 ॥

दुर्योधन उवाच ।
तमब्रुवन्देवगणा यं भवान्सन्नियोक्ष्यते ।
स भविष्यति देवेश सारथिस्ते न संशयः ॥
तानब्रवीन्महादेवो मत्तः श्रेष्ठतरो हि यः ।
तं सारथिं कुरुध्वं वै स्वयं सञ्चिन्त्य मा चिरम् ॥
एतच्छ्रुत्वा वचो देवाः सर्वे गत्वा पितामहम् ।
प्रणिपत्योचुरेकाग्राः प्रसाद्यैनं महर्षिभिः ॥
त्वया यत्कथितं देव त्रिदशारिनिबर्हणे ।
तथा तत्कृतमस्माभिः प्रसन्नश्च वृषध्वजः ॥
रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः ।
सारथिं च न जानीमः कः स्यात्तस्मिन्रथोत्तमे ॥
तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम । सफलां तां गिरं देव कर्तुमर्हसि नो विभो ।
एवमस्मासु हि पुरा भगवन्नुक्तवानसि ॥
सदैव युक्तो रथसत्तमो वै दुराधर्षो द्रावणः शात्रवाणाम् ।
पिनाकधन्वा विहितोऽत्र योद्धा विभीषयन्दानवानुद्यतोऽसौ ॥
तथैव वेदाश्च हया रथाग्र्य धरा सशैला च रथो महात्मनः ।
नक्षत्रवंशानुगतो वरूथी यस्मिन्योद्धा सारथिनाऽभिरक्ष्यः ॥
तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् ॥
तं प्रविष्टा रथं देवा रथयोद्वारमेव च ।
कवचानि च शस्त्राणि कार्मुकं च पितामह ॥
त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् ।
त्वं हि सर्वैर्गणैर्युक्तोदेवताभ्योऽधिकः प्रभो ॥
त्वं देव शक्तो लोकेश नियन्तुं प्रद्रुतानिमान् ।
वेदांश्च सोपनिषदः सारथिर्भव नः स्वयम् ॥
योद्वुं बलेन वीर्येण सत्वेन विनयेन च ।
अधिकःसारथिःकार्यो नास्ति चान्योऽधिको भवात् ॥
स भवांस्तारयत्वस्मान्कुरु सारथ्यमव्यय ।
भवानभ्यधिकस्त्वत्तो नान्योस्ति भविता त्विह ॥
त्वं हि देवेश सर्वैस्तु विशिष्टो वदतां वर ।
तं रथं त्वं समारुह्य संयच्छ परमान्हयान् ॥
तव प्रसादाद्वध्येयुर्देव दैवतकण्टकाः ।
स नो रक्ष महाबाहो दैत्येभ्यो महतो भयात् ॥
त्वं हि नो गतिरव्यग्र तवं न्त्रे गोप्ता महाव्रत ।
त्वत्प्रसादात्सुराः सर्वे पूज्यन्ते त्रिदिवे प्रभो ॥
इति ते शिरसाऽगच्छंस्त्रिलोकेशं पितामहम् ।
देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम् ॥
ब्रह्मोवाच ।
एवमेतत्सुरास्तथ्यं नान्यस्त्वभ्यधिको भवात् ।
सारथित्वं करिष्यामि शङ्करस्य महात्मनः ॥
सर्वथा रथिनः श्रेयान्कर्तव्यो रथसारथिः । तस्मादेतद्यथातत्त्वं ज्ञात्वा युष्मांश्च सङ्गतान् ।
संयच्छामि हयानेष विबुधाय कपर्दिने ॥
दुर्योधन उवाच ।
एवमुक्त्वा जटाभारं संयम्य प्रपितामहः । परिधायाजिनं गाढं सन्न्यस्य च कमण्डलुम् ।
प्रतोदपाणिर्भगवानारुरोह रथं तदा ॥
सारथौ कल्पिते देवैरीशानस्य महात्मनः । तस्मिन्नारोहति रथं कल्पितं लोकसम्भृतम् ।
शिरोभिः पतिता भूमौ तुरगा वेदसम्भृताः ॥
उभाभ्यां लोकनाथाभ्यामास्थितं रथसत्तमम् ।
ओढुं न शक्ता वेदाश्वा जानुभ्यामपतन्महीम् ॥
अभीशुभिस्तु भगवानुद्यम्य च हयान्विभुः । अस्तु वीर्यं च शौर्यं च वेदाश्वानामिति प्रभुः ।
रथं सञ्चोदयामास देवानां प्रभुरव्ययः ॥
ततोऽधिरूढे वरदे रथं पशुपतिस्तदा ।
साधुसाध्विति देवेशं स्मयमानोऽभ्यभाषत ॥
याहि देव यतो दैत्याश्चोदयाश्वानरिन्दम ।
पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे ॥
ततोऽश्वांश्चोदयामास मनोमारुतरंहसः ।
पुराण्युद्दिश्य खस्थानि दानवानां तरस्विनाम् ॥
ततस्ते सहसोत्पत्य वेदाख्या रथवाजिनः ।
क्षणेन तेन दैत्यानां पुराणि प्रापयन्हरम् ॥
अथर्वाङ्गिरसौ चास्तां चक्ररक्षौ महात्मनः । अथाधिज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम् ।
युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् ॥
तस्मिन्स्थिते ततो राजन्रुद्रे सज्जितकार्मुके ।
पुराणि तेन कालेन जग्मुरेकत्वमाशु वै ॥
एकीभावं गते चैव त्रिपुरत्वमुपागते ।
बभूव तुमुलो हर्षो देवतानां महात्मनाम् ॥
ततो देवगुणाः सर्वे सिद्धाश्च परमर्षयः ।
जयेति वाचो मुमुचुः संस्तुवन्तो महेश्वरम् ॥
ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान् ।
अनिर्देश्याग्र्यवपुषो देवस्यासह्यतेजसः ॥
त्रीणि दृष्ट्वैव संस्थानि पुराण्यथ पिनाकधृत् । स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः ।
त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति ॥
एकबाणेन तं देवस्त्रिपुरं परमेश्वरः ।
निजघ्ने सासुरगणं देवदेवो महेश्वरः ॥
बाणतेजोग्निदग्धं तद्विप्रकीर्णं सहस्रधा । महदार्तस्वरं कृत्वा नावशेषमुपागतम् ।
मद्रेश सासुरगणं प्रापतत्पश्चिमार्णवे ॥
एवं हि त्रिपुरं दग्धं दानवाश्चाप्यशेषतः ।
महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा ॥
स चात्मक्रोधजो विह्निर्दहेत्युक्तो निवारितः ।
त्रैलोक्यमविशेषेण पुनर्दग्धुं प्रचक्रमे ॥
कालाग्निमिव निर्दग्धुमुत्थितं तं पुनः पुनः ।
माकार्षीर्भस्मासाल्लोकानिति त्र्यक्षोऽब्रवीद्वचः ॥
ततः प्रकृतिमापन्ना देलोकास्तथर्षयः ।
तुष्टुवुर्वाग्भिरग्र्याभिः स्थाणुं त्रिपुरवैरिणम् ॥
तेऽनुज्ञाता भगवता सर्वे जग्मुर्यथागतम् ।
कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः ॥
एवं रुद्रस्य कृतवान्सारथ्यं तु पितामहः ।
संयच्छ तुरगानस्य राधेयस्य महात्मनः ॥
त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च गुणाधिकः ।
बलतो रूपतो योगादस्त्रसम्पद एव च ॥
समासक्तं महीपाल कुरु मे हितमीप्सितम् । युद्वे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ ।
तस्माच्छक्तौ युवां जेतुं मच्छत्रून्दिवि वा सुरान् ॥
स यथा शल्य कर्णोऽयं श्वंताश्वं कृष्णसारथिम् ।
प्रमथ्य हन्यात्कौन्तेयं तथा नीतिर्विधीयताम् ॥
त्वयि राज्यं सुखं चैव जीवितं जयमेव च ।
समासक्तं महीपाल कुरु मे हितमीप्सितम् ॥
संयच्छास्य हयान्त्राजन्मत्प्रियार्थं परन्तप ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥

श्रीः