अध्यायः 028

दुर्योधनेन कर्णसारथ्ये शङ्कमानं शल्यम्प्रति परशुरामचरित्रकीर्तनपूर्वकं कर्णस्य तदन्तेवासित्वादिगुणवत्तया तत्सारथ्य करणे दोषाभावप्रतिपादनम् ॥ 1 ॥

दुर्योधन उवाच ।
इमं चाप्यपरं भूय इति हासं निबोध मे ।
पितुर्मम सकाशे वै ब्राह्मणः प्राह धर्मवित् ॥
श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थतत्त्ववित् ।
कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा ॥
भार्गवाणां कुले जातो जमदग्निर्महातपाः ।
तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः ॥
स तीव्रं तप आस्थाय सम्प्रसादितवान्भवम् ।
अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः ॥
तस्मै तुष्टो महादेवो भक्त्या च प्रशमेन च । हृद्गतं चास्य विज्ञाय दर्शयामास शङ्करः ।
प्रत्यक्षेण महादेवः स्वां तनुं सर्वशङ्करः ॥
शङ्कर उवाच ।
राम तुष्टोऽस्मि भद्रं ते विदितं तव चेप्सितम् ।
कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि ॥
दास्यामि ते तदाऽस्त्राणि यदा पूतो भविष्यसि ।
अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव ॥
इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना ।
प्रत्युवाच महात्मानं शिरसाऽवनतः प्रभुम् ॥
यदा जानासि देवेश पात्रं मामस्त्रधारणे ।
तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति ॥
ततः स तपसा चैव व्रतेन नियमेन च ।
पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः ॥
समाराधितवाञ्शर्वं बहुवर्षगणांस्तदा ।
प्रसन्नश्च महादेवो भार्गवस्य महात्मनः ॥
असकृच्चाब्रवीत्तस्य गुणान्देव्याः सकाशतः ।
भक्तिमानेष सततं मयि रामो दृढव्रतः ॥
एवमस्य गुणान्प्रीतो बहुशो कथयद्विभुः ।
देवतानां पितॄणां च समक्षमरिसूदन ॥
एतस्मिन्नेव काले तु दैत्या ह्यासन्महाबलाः ।
तैस्तदा दर्पमोहाद्वै अबाध्यन्त दिवौकसः ॥
ततः सम्भूय विबुधास्तान्हन्तुं कृतनिश्चयाः ।
चक्रुः शत्रुवधे यत्नं दैत्याञ्चेतुमशक्नुवन् ॥
अभिगम्य ततो देवा महेश्वरमुमापतिम् ।
प्रासादयंस्तदा भक्त्या जहि शत्रुगणानिति ॥
प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् ।
रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः ॥
रिपून्भार्गव देवानां जहि सर्वान्समागतान् ।
लोकानां हितकामार्थं मत्प्रियार्थं तथैव च ॥
परशुराम उवाच ।
का शक्तिर्मम देवेश अकृतास्त्रस्य संयुगे ।
निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान् ॥
ईश्वर उवाच ।
गच्छ त्वं मदनुज्ञानान्निहनिष्यसि शात्रवान् ।
विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान् ॥
दुर्योधन उवाच ।
एतच्छ्रुत्वा तु वचनं प्रतिगृह्य च सर्वशः ।
रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति ॥
ततोऽजयद्देवशत्रून्महादर्पबलान्वितान् ।
वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः ॥
स दानवैः क्षततनुर्जामदग्न्यो नृपोत्तम ।
संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समपद्यत ॥
प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै ।
वरान्प्रादाद्बहुविधान्भार्गवाय महात्मने ॥
उक्तश्च प्रीतियुक्तेन देवदेवेन शूलिना ॥
निपातात्तव शस्त्राणां शरीरे याऽभवद्रुजा । तया ते मानुषं कर्म व्यपोहं भृगुनन्दन ।
गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितं ॥
ततोऽस्त्राणि समग्राणि वरांश्च मनसेप्सितान् । लब्ध्वा बहुविधान्रामः प्रणम्यशिरसा शिवम् ।
अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः ॥
एवमेतत्पुरावृत्तं तथा कथितवानृषिः ॥
भार्गवोऽपि ददौ सर्वं धनुर्वेदं महात्मने ।
कर्णाय पुरुषव्याघ्रः सुप्रीतेनान्तरात्मना ॥
वृजिनं न भवेत्किञ्चिदस्य कर्णस्य पार्थिव ।
सूतेन वर्धितो नित्यं न सूतो नृप एव सः ॥
विशुद्धयोनिं विज्ञाय दिव्यान्यस्त्राण्यदाद्भृगुः । नापि सूतकुले जातं मन्ये कर्णं कथञ्चन ।
देवपुत्रमदं मन्ये क्षत्रियाणां कुलोद्भवम् ॥
विसृष्टमविबोधार्थं कुलस्येंति मतिर्मम ।
सर्वथा न ह्यसो शल्य कर्णः सूतकुलोद्भवः ॥
सकुण्डलं सकवचं दीर्घबाहुमरिन्दमम् ।
कथमादित्यसङ्काशं मृगी सिंहं प्रसूयते ॥
पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ ।
वक्षः पश्य विशालं च सर्वशस्त्रसहं रणे ॥
न त्वेव प्राकृतः कश्चित्कर्णो वैकर्तनो वृषा ।
महात्माह्येष राजेन्द्र रामशिष्यः प्रतापवान् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि अष्टविंशोऽध्यायः ॥ 28 ॥

8-28-1 नाशक्नुवन्निति नञध्याहारेण योजना ॥ 8-28-28 अष्टाविंशोऽध्यायः ॥

श्रीः