अध्यायः 033

कर्णगर्वोक्तिमसहमानेन शल्येन तद्ग्रर्हणम् ॥ 1 ॥

शल्य उवाच ।
मा सूतपुत्र मन्येत(थाः) सौवर्णं हस्तिषङ्गवम् ।
प्रयच्छसि मुधैव त्वं द्रक्ष्यस्यद्य धनञ्जयम् ॥
मा सूतपुत्र दानेन सौवर्णं हस्तिषङ्गवम् ।
प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनञ्जयम् ॥
बलेन मत्तस्त्यजसि वसु वैश्रवणो यथा ।
अयत्नेनैव राधेय द्रष्टास्यद्य धनञ्जयम् ॥
पुरा सृजसि यच्चापि वित्तं बहु च मूढवत् ।
अपात्रदानाद्ये दोषास्तान्मोहान्नावबुध्यसे ॥
यत्प्रवेदयसे वित्तं बहु तेन खलु त्वया ।
शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः ॥
यच्च प्रार्थयसे हन्तुं कृष्णौ मोहाद्वृथैव तत् ।
न हि शुश्रुम सम्मर्दे क्रोष्ट्रा सिंहौ निपातितौ ॥
अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते ।
ये त्वां निवारयन्त्याशु प्रपतन्तं हुताशने ॥
कार्याकार्यं न जानीषे कालपक्कोऽस्यसंशयम् ।
बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः ॥
समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम् ।
गिर्यग्राद्वा निपतनं तादृक्त्व चिकीर्षितम् ॥
सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः ।
धनञ्जयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि ॥
हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वां न हिंसया ।
श्रद्धस्वेदं मया प्रोक्तं यदि तेऽस्ति जिजीविषा ॥
कर्ण उवाच ।
स्वबाहुवीर्यमाश्रित्य प्रार्थयाम्यर्जुनं रणे ।
त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि ॥
न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत् ।
अपीन्द्रो वज्रमुद्यम्य किमु मर्त्यः कथञ्चन ॥
सञ्जय उवाच ।
इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः ।
चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः ॥
यदा वै त्वां फल्गुनबाहुवेगा-- ज्ज्याचोदिता वेगवन्तोऽग्निकल्पाः ।
अन्वेतारः कङ्कपत्राः शिताग्रा-- स्त्यक्ष्यत्येषा स्वां तदा कर्ण बुद्धिः ॥
यदा दिर्व्य धनुरादाय पार्थः प्रतापयन्पृतनां सव्यसाची ।
त्वां मर्दयिष्यत्यसुखैः पृषत्कै-- स्तदापृच्छां त्यक्ष्यसे पाण्डवस्य ॥
बालश्चन्द्रं मातुरङ्के शयानो यथा कश्चित्प्रार्थयतेऽपहर्तुम् ।
तद्वन्मोहाद्दयोतामानं रथस्थं जेतुं पार्थं काङ्क्षसे सूतपुत्र ॥
हरादस्त्रं तीक्ष्णधारं यथाऽद्य सर्वाणि गात्राणि निकर्षसि त्वम् ।
सुतीक्ष्णशस्त्रोपमकर्मणेह युयुत्ससे फल्गुनेनाद्य कर्ण ॥
हन्यादसिं तीक्ष्णधारं यथाऽतः सुतेजनं निहितं वै पृथिव्याम् ।
तथा खनस्यद्य शितान्पृषत्का-- न्यथार्थयस्यर्जुनेनेह युद्धम् ॥
त्रिशूलमाश्लिष्य सुतीक्ष्णधारं सर्वाणि गात्राणि विघर्षसि त्वम् ।
सुतीक्ष्णधारोपमकर्मणा त्वं युयुत्ससे योऽर्जुनेनाद्य कर्ण ॥
क्रुद्धं सिंहं केसरिणं बृहन्तं बालो मूढः क्षुद्रमृगस्तरस्वी ।
समाह्वयेद्वृष्टमुपेत्य योद्धुं तथा त्वमद्याह्वयसे हि पार्थम् ॥
मा सूतपुत्राह्वय राजपुत्रं महावीर्यं केसरिणं यथैव ।
वने शृगालः पिशितेन तृप्तः पार्थं समासाद्य विनङ्क्ष्यसि त्वम् ॥
ईषादन्तं महानागं प्रभिन्नकरटामुखम् ।
शशको हयसे युद्वे कर्ण पार्थं धनञ्जयम् ॥
विलस्थं कृष्णसर्पं त्वं जाल्यात्काष्ठेन विध्यसि ।
महाविषं पूर्णकोपं यत्पार्थं योद्वुमिच्छसि ॥
सिंहं केसरिणं क्रुद्धमभिक्रम्याभिनर्दसे ।
शृगाल इव मूढस्त्वं नृसिंहं कर्ण पाण्डवम् ॥
सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम् ।
स्वगेवाह्वयसे पार्थं तथा कर्णं धनञ्जयम् ॥
सर्वाम्भसां निधिं भीमं मूर्तिमन्तं झषाकुलम् ।
चन्द्रोदये विवर्धन्तमप्लुवस्त्वं तितीर्षसि ॥
ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम् ।
वत्स आह्वयसे युद्वे कर्ण पार्थं धनञ्जयम् ॥
महामेघं महाघोषं दर्दुरः प्रतिनर्दसि ।
बाणतोयप्रदं काले नरपर्जन्यमर्जुनम् ॥
यथा च श्वा गृहस्थस्तु व्याघ्रं वनगतं भषेत् ।
तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जयम् ॥
शृगालो हि वने कर्ण शशैः परिवृतो वसन् ।
मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति ॥
तथा त्वमपि राधेय सिंहमात्मानमिच्छसि ।
अपश्यञ्शत्रुदमनं नरसिंहं रणेऽर्जुनम् ॥
व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि ।
समास्थितावेकरथे सूर्याचन्द्रमसाविव ॥
यावद्ग्राण्डीवघोषं त्वं न शृणोषि महाहवे ।
तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि ॥
रथशङ्खधनुःशब्दैर्नादयन्तं दिशो दश ।
नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि ॥
नित्यमेव शृगालस्त्वं नित्यं सिंहो धनञ्जयः ।
वीरप्रद्वेषणान्मूढ तस्मात्क्रोष्टेव लक्ष्यसे ॥
यथाऽऽखुः स्याद्विडालश्च श्वा व्याघ्रश्च बलाबले ।
यथा शृगालः सिंहश्च यथा च शशकुञ्जरौ ॥
यथाऽनृतं च सत्यं च यथा चापि विषामृते ।
तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

8-33-3 वसु वित्तम् । द्रष्टासि द्रक्ष्यसि ॥ 8-33-8 अबद्धं अनर्थकम् । अकर्णीयं अनाकर्णनीयम् ॥ 8-33-10 सहितो युध्यस्व नत्वेकाकी ॥ 8-33-27 झषैर्मीनैराकुलं पूर्णम् । अप्लवः बाहुभ्यामित्यर्थः ॥ 8-33-28 दुर्न्दुभिग्नीवं दुन्दुभिखनकण्ठम् ॥ 8-33-33 त्रयस्त्रिंशोऽध्यायः ॥

श्रीः