अध्यायः 040

दुर्योधनेन सेनाप्रोत्साहनम् ॥ 1 ॥ भीमेन दुर्योधनपराजयपूर्वकं गजानीकवधः ॥ 2 ॥

सञ्जय उवाच ।
दुर्योधनस्ततः कर्णमुपेत्य भरतर्षभ ।
अब्रवीन्मद्रराजं च तथैवान्यान्महारथान् ॥
यदृच्छयाऽयमव्यग्रो धर्मः परमकः सखा ।
सुखिनः क्षत्रियाः कर्ण लभन्ते युद्धमीदृशम् ॥
यादृशं क्षत्रियैः शूरैः शूराणां दीव्यतां युधि ।
इष्टं भवति राधेय तदिदं समुपस्थितम् ॥
हत्वा तु पाण्डवान्युद्धे स्थिरामुर्वीं प्रशासथ ।
निहता वा परैर्युद्धे वीरलोकानवाप्स्यथ ॥
दुर्योधनस्य वचनं श्रुत्वा तत्क्षत्रियर्षभाः ।
सिंहनादानुदक्रोशन्वादित्राणि च जघ्निरे ॥
तस्मिन्प्रमुदिते सैन्ये त्वदीये भरतर्षभ ।
हर्षयंस्तावकान्योधान्द्रौणिर्विचनमब्रवीत् ॥
प्रत्यक्षं सर्वसैन्यानां भवतां चापि पश्यताम् ।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥
स तेनाहममर्षेण पित्रर्थे चापि भारत ।
धृष्टद्युम्नमहत्वाऽहं न विमोक्ष्यामि दंशनम् ॥
कृत्वाऽनृतां प्रतिज्ञां वो नास्मि प्राप्ता महत्फलम् । अर्जुनं भीमसेनं च यश्च मां प्रतियोत्स्यति ।
सर्वांस्तान्प्रमथिष्यामि इति मे निश्चिता मतिः ॥
सञ्जय उवाच ।
एवमुक्ते ततः सर्वा हर्षिता भारती चमूः ।
अभ्यवर्तत कौन्तेयांस्तथा तां चापि पाण्डवाः ॥
स सन्निपातो रथयूथपानां महाहवे भारत लोभनीये ।
जनक्षयः कालयुगान्तकल्पः प्रावर्तताग्रे कुरुसृञ्जयानाम् ॥
ततः प्रवृत्ते युधि सम्प्रहारे भूतानि सर्वाणि सदैवतानि ।
आसन्समेतानि सहाप्सरोभि-- निरीक्षतीभिर्युधि वीरसङ्घान् ॥
दिव्यैश्च गन्धैः परमैश्च पुष्पै-- रन्यैश्च रत्नैर्विविधैर्नराग्र्याः ।
रणेषु कर्मोद्वहताः प्रहृष्टा- ननन्दयन्नप्सरसः प्रहृष्टाः ॥
समीरणस्तांस्तु निषेव्य गन्धा-- न्निषेवते तानपि योधमुख्यान् ।
निषेव्यमाणास्त्वनिलेन योधाः परस्परं चुक्रुशुराजिमध्ये ॥
तथा तु तस्मिंस्तुमुले प्रवृत्ते दुर्योधनः क्रोधममृष्यमाणः ।
`अवेभ्य भीमं बलमध्यसंस्थः समार्पयत्क्षुद्रकाणां शतेन ॥
दुःशासनश्चित्रसेनश्च वीर-- स्तथोलूकः कितवः सौबलश्च ।
गजानीकैः सर्वतो भीमसेनं तथाविषक्तं सहसैवाभ्यगच्छन् ॥
तमापतन्तं सम्प्रेक्ष्य गजानीकं वृकोदरः ।
दुर्योधनं महाबाहुः शरवर्षैरवाकिरत् ॥
दुर्योधनं ततो भीमः सायकैर्वज्रसन्निभैः ।
पाण्डवो विमुखीकृत्य गजानभ्यद्रवद्बली ॥
ततः पावकसङ्काशैर्भीमबाणैरवक्रगैः ।
शलभैरिव नागांस्तानर्दयामास पाण्डवः ॥
ततः कुञ्जरयूथानि भीमसेनो महाबलः ।
व्यधमन्निशितैर्बाणैर्महावातो घनानिव ॥
नित्यमत्ताश्च मातङ्गाः शूरैर्मत्तैरधिष्ठिताः ।
आरोहकैर्महामात्रैस्तोमराङ्कुरापाणिभिः ॥
सुवर्णजालैः प्रच्छन्ना मणिजालैश्च कुञ्जराः ।
रूप्यजाम्बूनदाभासः क्षुरमालाभ्यलङ्कृताः ॥
वध्यमानाः शरै राजन्भीमसेनेन ते गजाः ।
विभिन्नहृदयाः केचित्तत्रैवाभ्यपतन्भुवि ॥
निपतद्भिर्महावेगैर्हेमभाण्डविभूषितैः ।
अशोभत महाराज धातुचित्रैरिवाचलैः ॥
दीप्ताभरणवद्भिश्च गजपृष्ठनिपातितैः ।
सङ्गरः शुशुभे राजन्क्षीणपुण्यैरिवामरैः ॥
महापरिघसङ्काशौ चन्दनागरुरूषितौ ।
अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ ॥
तस्य ज्यातलनिर्घोषमस्यतः सव्यदक्षिणम् ।
तं श्रुत्वाऽभ्यद्रवन्नागा भीमसेनभयार्दिताः ॥
तस्य भीमस्य तत्कर्म राजन्नेकस्य धीमतः ।
अपश्याम महाराज तद्भूतमिवाभवत्' ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चत्वारिंशोऽध्यायः ॥ 40 ॥

श्रीः