अध्यायः 042

सङ्कुलयुद्धम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय ।
संशप्तकाः कथं पार्थं कथं कर्णं च पाण्डवाः ॥
एतद्विस्तरशो युद्धं प्रब्रूहि कुशलो ह्यसि ।
न हि तृप्यामि वीराणां शृण्वानो युधि विक्रमम् ॥
सञ्जय उवाच ।
तत्संस्थिमथो दृष्ट्वा प्रत्यमित्रं महद्बलम् ।
प्रत्यव्यूहत्ततः कर्णो हितार्थं तनयस्य ते ॥
तत्सादिनागकलिलं पदातिरथसङ्कुलम् ।
धृष्टद्युम्नमुखं घोरमशोभत महद्बलम् ॥
पारावतसवर्णाश्वश्चन्द्रसूर्यसमद्युतिः ।
स पार्षतो बभौ धन्वी कालो विग्रहवानिव ॥
पार्षतं त्वभितस्तस्थुर्द्रौपदेया युयुत्सवः ।
सानुगा दीप्तवपुषश्चन्द्रं तारागणा इव ॥
अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे ।
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः ॥
अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः ।
विजये धृतसङ्कल्पा मृत्युं कृत्वानिवर्तनम् ॥
तदश्वसङ्घबहुलं पत्तिनागरथाकुलम् ।
उदीर्यमाणं संरब्धं धनञ्जयमभिद्रवत् ॥
तदुद्यतं महत्सैन्यं सागरौघसमं जवे ।
पार्थवेलां समासाद्य विष्ठितं समदृश्यत ॥
मृद्गन्तं शवर्षौघैर्द्रुतमर्जुनमार्दयत् ॥
स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना ।
तस्यैव तु यथा राजन्निवातकवचैः सह ॥
रथानश्वान्ध्वजान्नागान्पत्तीन्गजगतानपि ।
इषून्धनूंषि खङ्गांश्च चक्राणि च परश्वथान् ॥
सायुधानुद्यतान्बाहून्विविधान्यायुधानि च ।
चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः ॥
तस्मिन्सैन्यमहावर्ते पातालतलसन्निभे ।
निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा ॥
स पुरस्तादरीन्हत्वा पुनरुत्तरतोऽवधीत् ।
दक्षिणेन च पश्चाच्च क्रुद्धो रुद्रः पशूनिव ॥
अथ पाञ्चालचेदीनां सृढ्जयानां च मारिष ।
त्वदीयैः सह सङ्ग्राम आसीत्परमदारुणः ॥
कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः ।
हृष्टसेनाः सुसंरब्धा रथानीकप्रहारिणः ॥
कोसलैः काश्यमत्स्यैश्च कारूशैः केकयैरपि ।
शूरसेनैः शूरवरैर्युयुधुर्युद्धदुर्मदाः ॥
तेषामन्तकरं युद्धं देहपाप्मविनाशनम् ।
क्षत्रविट््शूद्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् ॥
दुर्योधनोऽथ सहितो भ्रातृभिर्भरतर्षभ ।
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः ॥
पाण्डवैः सह पाञ्चालैश्चेदिभिः सात्यकेन च ।
युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत् ॥
कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम् ।
प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत् ॥
विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः ।
युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत् ॥
तद्विगाह्य महानीकं सूतपुत्रो महारथः ।
नदीं प्रवर्तयामास शोणितौघतरङ्गिणीम् ॥
शोणितोदां क्षुण्णमत्स्थां नागनक्रदुरत्ययाम् ।
मांलमज्जाकर्दमिनीं चक्रकूर्ममहोडुपाम् ॥
पातितैर्मेघसङ्काशैस्तत्रतत्र महाद्विपैः ।
अशनीभिरिव ध्वस्ता नदी राजन्विराजते ॥
तां शरोर्मिमहावर्तां छत्रहंससमाकुलाम् ।
तनुत्रोष्णीषसङ्घाटामस्थिपाषाणसङ्कुलाम् ॥
अपारामनपारां च शङ्खदुन्दुभिघोषिणीम् ।
रौद्रां नदीं महाराज रजसा सर्वतोवृताम् ॥
अतितीक्ष्णां नराकीर्णां नदीमन्तकगामिनीम् ।
समं च विषमं चैव समायान्तीं महाभयाम् ॥
आकुलाश्चात्र सीदन्ति नराः शोणितकर्दमे ।
नरैरभिपरिक्षिप्ता यथा राजन्महाद्रुमाः ॥
ततस्ते तत्रतत्रैव प्रचरन्तो महानदीम् ।
विचेरुः सर्वतो योधा नौवारणमहारथैः ॥
शोणितेन समं राजन्कृतमासीत्समन्ततः ।
नदीवेगैर्यथा भूमिस्तद्वदासीद्विशापते ॥
एवं भारत सङ्ग्रामो नरवाजिगजक्षयः ।
कुरूणां सृञ्जयानां च देवासुरसमोऽभवत् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विचत्वारिंशोऽध्यायः ॥ 42 ॥

8-42-20 क्षत्रविठ््शूद्रवीराणामित्यनेन ब्राह्मणादृते युद्धं सर्वेषां श्रेयस्करमित्यर्थः ॥ 8-42-24 युक्त्वा योजयित्वा ॥ 8-42-42 द्विचत्वारिंशोऽध्यायः ॥

श्रीः