अध्यायः 039

सरस्वत्याः सप्तधाविभागे कारणाभिधानम् ॥ 1 ॥ सप्तभागानां कस्मिंश्चित्तीर्थे एकीभवनात्तत्तीर्थस्य सप्तसारस्वतनामप्राप्तिः ॥ 2 ॥ मङ्कणमुनिचरितप्रतिपादनम् ॥ 3 ॥

जनमेजय उवाच ।
सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः ।
कथं सिद्धः स भगवान्कश्चास्य नियमोऽभवत् ॥
कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम ।
एतन्मे सर्वमाचक्ष्व यथातत्त्वं महामुने ॥
वैशम्पायन उवाच ।
सप्तनद्यः सरस्वत्या याभिर्व्याप्तमिदं जगत् ।
आहूता बलवद्भिर्हि तत्रतत्र सरस्वती ॥
सुप्रभा काञ्चनाक्षी च विशाला च मनोरमा ।
सरस्वती चौघवती सुरेणुर्विमलोदका ॥
पितामहस्य महतो वर्तमाने महामखे ।
वितते यज्ञवाटे च संसिद्धेषु द्विजातिषु ॥
पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा ।
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा ॥
तत्र चैव महाराज दीक्षिते प्रपितामहे ।
यजतस्तस्य सत्रेण सर्वकामसमृद्विना ॥
मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा ।
उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्रतत्र ह ॥
जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः ।
वादित्राणि च दिव्यानि वादयामासुरञ्जसा ॥
तस्य यज्ञस्य सम्पत्त्या तुतुषुर्देवतागणाः ।
विस्मयं परमं जग्मुः किमु मानुषयोनयः ॥
वर्तमाने यथा यज्ञे पुष्करस्थे पितामहे ।
अब्रुवन्नृषयो राजन्नायं यज्ञो महागुणः ॥
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती ।
तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम् ॥
पितामहेन यजता आहूता पुष्करेषु वै ।
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती ॥
तां दृष्ट्वा मुनयस्तुष्टास्त्वरायुक्तां सरस्वतीम् ।
पितामहं मानयन्तीं क्रतुं ते बहुमेनिरे ॥
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती ।
पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम् ॥
नैमिषे मुनयो राजन्समागम्य समासते ।
तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर ॥
यत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः ।
ते समागम्य मुनयः सस्मारुर्वै सरस्वतीम् ॥
सा तु ध्याता महाराज मुनिभिः सत्रयाजिभिः । समागतानां राजेन्द्र साहाय्यार्थं महात्मनाम् ।
आजगाम महाभागा तत्र पुण्या सरस्वती ॥
नैमिषे काञ्चनाक्षी तु मुनीनां सत्रायाजिxxxम् ।
आगता सरितां श्रेष्ठा तत्र भारत पूजित ॥
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् ।
आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती ॥
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् ।
विशालां तु गयस्याहुर्ऋषयः संशितव्रता ॥
सरित्सा हिमवत्पार्श्वात्प्रस्रुता शीघ्रगामिनी ।
औद्दालकेस्तथा यज्ञे यजतस्तस्य भारत ॥
समेते सर्वतः स्फीते मुनीनां मण्डले तदा ।
उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः ॥
औद्दालकेन यजता पूर्वं ध्याता सरस्वती ।
आजगाम सरिच्छेष्ठा तं देशं मुनिकारणात् ॥
पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ।
मनोहरेति विख्याता सा हि तैर्मनसा वृता ॥
[सुरणुऋषभे द्वीपे पुण्ये राजर्षिसेविते ।] कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः ।
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती ॥
ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना ।
समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती ॥
दक्षेण यजता चापि गङ्गाद्वारे सरस्वती ।
सुवेणिरिति विख्याता प्रस्रुता शीघ्रगामिनी ॥
विमलोदा भगवती ब्रह्मणा यजता पुनः ।
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ ॥
एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः ।
सप्तसारस्वतं तीर्थं ततस्तु प्रथितं भुवि ॥
इति सप्तसरस्वत्यो नामतः परिकीर्तिताः ।
सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् ॥
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः ।
आपगामवगाढस्य राजन्प्रक्रीडितं महत् ॥
दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत । स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम् ।
सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि ॥ तद्रेतः स तु जग्राह कलशे वै महातपाः ।
`ऋषिः परमधर्मात्मा तदा पुरुषसत्तम' ॥ सप्तधा प्रविभागं तु कलशस्थं जगाम ह ।
तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः ॥ वायुवेगो वायुबलो वायुहा वायुमण्डलः ।
वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् ।
महर्षेश्चरितं यादृक् त्रिषु लोकेषु विश्रुतम् ॥
पुरा मङ्कणकः सिद्भः कुशाग्रेणेति नः श्रुतम् ।
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ॥
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् ।
प्रनृत्तमुभयं वीर सेजसा तस्य मोहितम् ॥
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः । विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ।
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह ।
सुगणां हितकामार्थं महादेवोऽभ्यभाषत ॥
भोभो ब्राह्मण धर्मज्ञ किमर्थं नृत्यते भवान् । हर्षस्थानं किमर्थं च तवेदमधिकं मुने ।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥
ऋषिरुवाच ।
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् ।
यं दृष्ट्वा सम्प्रनृत्तो वै हर्षेण महता विभो ॥
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् ।
अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् ॥
एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता ।
अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितोऽभवत् ॥
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् ॥
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ।
मेने देवं महादेवमिदं चोवाच विस्मितः ॥
नान्यं देवादहं मन्ये रुद्रात्परतरं महत् ।
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥
त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः ।
त्वामेव सर्वं विशति पुनरेव युगक्षये ॥
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ।
त्वयि सर्वे स्म दृश्यन्ते भावा ये जगति स्थिताः ॥
त्वामुपासन्त वरदं देवा ब्रह्मादयोऽनघ ।
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह ॥
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ।
`त्वं प्रभुः परमैश्वर्यादधिकं भासि शङ्करः ॥
त्वयि ब्रह्मा च विष्णुश्च लोकान्सन्धाय तिष्ठतः ।
त्वन्मूलं च जगत्सर्वं भूतस्थावरजङ्गमम् ॥
स्वर्गं च परमं स्थानं नृणामभ्युदयार्थिनाम् ।
ददासि च प्रसन्नस्त्वं भक्तानां परमेश्वर ॥
अनावृत्तिपदं नॄणां नित्यं निश्रेयसार्थिनाम् ।
ददासि कर्मिणां कर्म भावयन्ध्यानयोगतः ॥
न वृथाऽस्ति महादेव प्रसादस्ते महेश्वर ।
यस्मात्त्वयोपकरणात्करोमि कमलेक्षण ॥
प्रपद्ये शरणं शंभुं सर्वदा सर्वतः स्थितम् ।
कर्मणा मनसा वाचा तमेवाभिभजाम्यहम् ॥
जनमेजय उवाच ।'
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् ॥
यदिदं चापलं देव कृतमेतत्स्मयादिकम् ।
ततः प्रसादयमि त्वां तपो मे न क्षरेदिति ॥
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् ।
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ॥
आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा ।
सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः ॥
न तस्य दुर्लभं किञ्चिद्धवितेह परत्र वा ।
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ॥
एतन्मङ्कणकस्यापि चरितं भूरितेजसः ।
स हि पुत्रः सुकन्यायामुत्पन्नो मातरिश्वना ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥

9-39-4 विशाला सुतनुस्तथा । सरस्वत्योघमाला च सुवेणी निर्मलोदका इति ङ.पाठः । सरस्वत्यूर्मिमाला च सुवेणी विमलोदका इति क.पाठः ॥ 9-39-17 सस्मरुः स्मृतवन्तः ॥ 9-39-20 गयेषु गयदेशेषु ॥ 9-39-25 मनोरमेति विख्याता सा हि तैर्मनसा कृता इति झ.पाठः ॥ 9-39-28 सुरेणुरिति झ.पाठः ॥ 9-39-32 राजन्प्रजपितं महत् इति क.पाठः ॥ 9-39-33 स्नायन्तीं स्नान्तीम् ॥ 9-39-36 मरुतां प्राणवायूनां एकोनपञ्चाशताम् । एतेषां तपसा मरुतो दित्यामुत्पन्ना इति कल्पान्तरविषयोऽयमर्थः ॥ 9-39-60 स्मयादिकं गर्दादिकम् ॥ 9-39-39 एकोनचत्वारिंशोऽध्यायः ॥

श्रीः