अध्यायः 040

बलरामस्यौशनसतीर्थगमनम् ॥ 1 ॥ तत्तीर्थस्य कपालमोचननामप्राप्तिहेतूक्तिः ॥ 2 ॥ बलस्य उशंग्वाश्रमगमनम् ॥ 3 ॥ उशङ्गुचरित्रकथनं बलस्य पृथूदकतीर्थे स्नानदानादि ॥ 4 ॥

वैशम्पायन उवाच ।
उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः ।
तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः ॥
दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च ।
पूजितो मुनिसङ्खैश्च प्रातरुत्थाय लाङ्गली ॥
अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत ।
प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः ॥
ततस्त्वौशनसं तीर्थमाजगाम हलायुधः ।
कपालमोचनं नाम यत्र मुक्तो महामुनिः ॥
महता शिरसा राजन्ग्रस्तजङ्घो महोदरः ।
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा ॥
तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना । यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः ।
यत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् ॥
तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम् ।
विधिवद्वै ददौ वित्तं ब्राह्मणानां महात्मनाम् ॥
जनमेजय उवाच ।
कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः ।
मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना ॥
वैशम्पायन उवाच ।
पुरा वै दण्डकारण्ये राघवेण महात्मना ।
वसता राजशार्दूल राक्षसाञ्शमयिष्यता ॥
जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः ।
क्षुरेण शितधारेण तत्पणात महावने ॥
महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया ।
वने विचरतो राजन्नस्थि भित्त्वाऽस्फुरत्तदा ॥
स तेन लग्नेन तदा द्विजातिर्न शशाक ह ।
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ॥
स पूतिना विस्रवता वेदनार्तो महामुनिः ।
जगाम् सर्वतीर्थानि पृथिव्यां चेति नः श्रुतम् ॥
स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः ।
कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥
आप्लुत्य सर्वतीर्थेषु न च मोक्षमवाप्तवान् ।
स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् ॥
सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा ।
सर्वपापप्रशमनं सिद्धिक्षेत्रमनुत्तमम् ॥
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः ॥
तत औशनसे तीर्थे तस्योपस्पृशतस्तदा ।
xxx च्छरश्चरणं मुक्त्वा पपातान्तर्जले तदा ॥
विमुक्तस्तेन शिरसा परं सुखमवाप ह ।
स चाप्यन्तर्जले मूर्धा जगामादर्शनं विभो ॥
ततः स विरुजो राजन्पूतात्मा वीतकल्मषः ।
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः ॥
सोऽथ गत्वाऽऽश्रमं पुण्यं विप्रमुक्तो महातपाः ।
कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥
ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद ।
कपालमोचनमिति नाम चक्रुः समागताः ॥
स चापि तीर्थप्रवरं पुनर्गत्वा महानृषिः ।
पीत्वा पयःसुविपुलं सिद्धिमायात्तदा मुनिः ॥
तत्र दत्त्वा बहून्देयान्विप्रान्सम्पूज्य माधवः ।
जगाम तत्र राजेन्द्र उशङ्गोराश्रमं तदा ॥
यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत ।
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः ॥
सर्वकामसमृद्धं च तदाश्रमपदं महत् ।
मुनिभिर्ब्राह्मणैश्चैव सेवितं सर्वदा विभो ॥
ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः ।
जगाम तत्र राजेन्द्र उशङ्गुस्तनुमत्यजत् ॥
उशङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत ।
देहन्यासे कृतमना विचिन्त्य बहुधा तदा ॥
ततः सर्वानुपादाय तनयान्वै महातपाः ।
उशङ्गुरब्रवीत्तत्र नयध्वं मां पृथूदकम् ॥
विज्ञायातीतवयसमुशङ्गुं ते तपोधनाः ।
तं च तीर्थमपानिन्युः सरस्वत्यास्तपोधनम् ॥
स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम् ।
पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम् ॥
स तत्र विधिना राजन्नाप्लुत्य सुमहातपाः । ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः ।
सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः ॥
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् ।
पृथूदके जप्यपरो नैनं श्वो मरणं तपेत् ॥
`इत्युक्त्वा स्वां तनुं त्यक्त्वा प्रपेदे वैष्णवं पदम्' । तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः ।
दत्त्वा चैव बूहून्देयान्विप्राणां विप्रवत्सलः ॥
ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः ॥
यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः ।
तपसा महता राजन्प्राप्तवानृषिसत्तमः ॥
सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः ।
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रस्तथा मुनिः ॥
महातपस्वीं भगवानुग्रतेजा महातपाः ।
तत्राजगाम बलवान्बलभद्रः प्रतापवान् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥

9-40-17 तीर्थमुपास्पृशदिति शेषः ॥ 9-40-24 त्रिशङ्खोराश्रमं तदा इति क.पाठः । रुशङ्गोराश्रमं तदा इति झं. पाठः ॥ 9-40-33 अक्षयं स्वर्गमाप्नोतीत्यर्थः ॥ 9-40-36 ब्राह्मणं ब्रह्मसन्घातो वेदसमूह इति यावत् । ततः स्वार्थे ष्यञ् । ब्राह्मणं ब्रह्मसङ्घाते इति मेदिनी ॥ 9-40-40 चत्वारिंशोऽध्यायः ॥

श्रीः