अध्यायः 047

कुमारमातृगणस्य नामकीर्तनम् ॥ 1 ॥ कुमारेण तारकासुरवधः क्रौञ्चपर्वतभेदनं च ॥ 2 ॥

वैशम्पायन उवाच ।
शृणु मातृगणान्राजन्कुमारानुचरानिमान् ।
कीर्त्यमानान्मया वीर सपत्नगणसूदनान् ॥
यशस्विनीनां मातॄणां शृणु नामानि भारत याभिर्वायप्तास्त्रयोलोकाः कल्याणीभिश्च भागशः ॥
प्रभावती विशालाक्षी पालिता गोस्तानी तथा ।
श्रीमती बहुला चैव तथैव बहुपुत्रिका ॥
अप्सुजाता च गोपाली बृहदम्बालिका तथा ।
जयावती मालतिका ध्रुवरत्ना भयङ्करी ॥
वसुदामा च दामा च विशोका नन्दिनी तथा ।
एकचूडा महाचूडा चक्रनेमिश्च भारत ॥
उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना ।
शत्रुञ्जया तथा चैव क्रोधना शलभी खरी ॥
माधवी शुभवक्त्रा च तीर्थसेनिश्च भारत ।
गीतप्रिया च कल्याणी रुद्ररोमाऽमिताशना ॥
मेघस्वना भोगवती सुभ्रूश्च कनकावती ।
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत ॥
पुन्नावती सुनक्षत्रा कन्दरा बहुयोजना ।
सन्तानिका च कौरव्य कमला च महाबला ॥
सुदामा बहुदामा च सुप्रभा च यशस्विनी ।
नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला ॥
शतघण्टा शतानन्दा भगनन्दा च भाविनी ।
वपुष्मती चन्द्रशीता भद्रकाली च भारत ॥
ऋक्षाम्बिका निष्कुटिका वामा चत्वरवासिनी ।
सुमङ्गला स्वस्तिमती बुद्धिकामा जयप्रिया ॥
धनदा सुप्रसादा च भवदा च जलेश्वरी ।
एडी भेडी समेडी च वेतालजननी तथा ॥
कण्डूतिः कालिका चैव देवमित्रा च भारत ।
वसुश्रीः कोटरा चैव चित्रसेना तथाऽचला ॥
कुक्कुटिका शङ्खलिका तथा शकुनिका नृप ।
कुण्डारिका कौकुलिका कुम्भिकाऽथ शतोदरी ॥
उत्क्राथिनी जलेला च महावेगा च कङ्कणा ।
मनोजवा कण्टकिनी प्रघसा पूतना तथा ॥
केशयन्त्री त्रुटिर्वामा क्रोशनाऽथ तडित्प्रभा ।
मन्दोदरी च मुण्डी च कोटरा मेघवाहिनी ॥
सुभगा लम्बिनी लम्बा ताम्रचूडा विकाशिनी ।
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला ॥
पृथुवस्त्रा मधुलिका मधुकुम्भा तथैव च ।
पक्षालिका मत्कुलिका जरायुर्जर्जरानना ॥
ख्याता दहदहा चैव तथा धमधमा नृप ।
खण्डखण्डा च राजेन्द्र पूषणा मणिकुट्टिका ॥
अमोघा चैव कौरव्य तथा लम्बपयोधरा ।
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला ॥
शशोकूलमुखी कृष्णा खरजङ्घा महाजवा ।
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा ॥
जटालिका कामचरी दीर्घजिह्वा बलोत्कटा ।
कालेहिका वामनिका मुकुटा चैव भारत ॥
लोहिताक्षी महाकाया हरिपिण्डा च भूमिप ।
एकत्वचा सुकुसुमा कृष्णकर्णी च भारत ॥
क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा ।
चतुष्पथनिकेता च गोकर्णी महिषानना ॥
खरकर्णी महाकर्णी भेरीस्वनमहास्वना ।
शङ्खकुम्भश्रवाश्चैव भगदा च महाबला ॥
गणा च सुगणा चैव तथा भीत्यथ कामदा ।
चतुष्पथरता चैव भूतितीर्थान्यगोचरी ॥
पशुदा वित्तदा चैव सुखदा च महायशाः ।
पयोदा गोमहिषदा सविशाला च भारत ॥
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना ।
नौकर्णी मुखकर्णी च विशिरा मन्थिनी तथा ॥
एकचन्द्रा मेघकर्णा मेघमाला विरोचना ।
एताश्चान्याश्च बहवो मातरो भरतर्षभ ॥
कार्तिकेयानुयायिन्यो नानारूपाः सहस्रशः ।
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्श्च भारत ॥
सबला मधुराश्चैव यौवनस्थाः स्वलङ्कृताः ।
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा ॥
निर्मासगात्र्यः श्वेताश्च तथा काञ्चनसन्निभाः ।
कृष्णमेघनिभाश्चान्या धूम्नाश्च भरतर्षभ ॥
अरुणाभा महाभोगा दीर्घकेश्यः सिताम्बराः ।
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः ॥
लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः ।
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथाऽपराः ॥
वरदाः कामचारिण्यो नित्यं प्रमुदितास्तथा ।
याम्या रौद्रास्तथा सौम्याः कौबेर्योऽथ महाबलाः ॥
वारुण्योऽथ च माहेन्द्यस्तथाऽऽग्नेय्यः परन्तप ।
वायव्यश्चाथ कौमार्यो ब्राह्मश्च भरतर्षभ ॥
वैष्णव्यश्च तथा सौर्यो वाराह्यश्च महाबलाः ।
रूपेणाप्सरसां तुल्या मनोहार्यो मनोरमाः ॥
परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः ।
शक्रवीर्योपमा युद्धे दीप्ता वह्निसमास्तथा ॥
शत्रुणां विग्रहे नित्यं भयदास्ता भवन्त्युत ।
कामरूपधराश्चैव जवे वायुसमास्तथा ॥
अचिन्त्यबलवीर्याश्च तथाऽचिन्त्यपराक्रमाः ।
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः ॥
गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः ।
नानाभरणधारिण्यो नानामाल्याम्बरास्तथा ॥
नानाविचित्रवेषाश्च नानाभाषास्तथैव च ।
एते चान्ये च मातॄणां गणाः शत्रुभयङ्कराः ॥
अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य सम्मते ।
ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः ॥
गुहाय राजशार्दूल विनाशाय सुरद्विषाम् ।
महास्वनां महाघण्टां द्योतमानां सितप्रभाम् ॥
अरुणादित्यवर्णां च पताकां भरतर्षभ ।
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् ॥
उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् ।
अजेयां स्वगणैर्युक्तां नाम्ना सेनां धनञ्जयाम् ॥
रुद्रतुल्यबलैर्युक्तां योधानामयुतैस्त्रिभिः ।
न सा विजानाति रणात्कदाचिद्विनिवर्तितुम् ॥
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम् ।
उमा ददौ विरजसी वाससी रविसप्रभे ॥
गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम् ।
ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः ॥
गरुडो दयितं पुत्रं मयरं चित्रबर्हिणम् ।
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् ॥
छागं तु वरुणो राजा बलवीर्यसमन्वितम् । कृष्णाजिनं ततो ब्रह्मा ब्रह्मण्याय ददौ प्रभुः ।
समरेषु जयं चैव प्रददौ लोकभावनः ॥
सैनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह ।
शुशुभे ज्वलितोर्चिष्मान्द्वितीय इव पावकः ॥
ततः पारिषदैश्चैव मातृभिश्च समन्वितः ।
ययौ देत्यविनाशाय ह्लादयन्सुरपुङ्गवान् ॥
सा सेना नैर्ऋती भीमा सघण्टोच्छ्रितकेतना ।
सभेरीशङ्खमुरजा सायुधा सपताकिनी ॥
शारदी द्यौरिवाभाति ज्योतिर्भिरिव शोभिता ॥
ततो देवनिकायास्ते नानाभूतगणास्तथा ।
वादयामासुरव्याग्रा भेरीः शङ्खांश्च पुष्कलान् ॥
पटहान्झर्झरांश्चैव क्रकचान्गोविषाणिकान् ।
आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् ॥
तुष्टुवुस्ते कुमारं तु सर्वे देवाः सवासवाः ।
जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥
ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ ।
रिपून्दन्ताऽस्मि समरे ये वो वधचिकीर्षवः ॥
प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात् ।
प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् ॥
सर्वेषां भूतसङ्घानां हर्षान्नादः समुत्थितः ।
अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना ॥
स निर्ययौ महासेनो महत्या सेनया वृतः ।
वधाय युधि दैत्यानां रक्षार्थं च दिवोकसाम् ॥
व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः ।
महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप ॥
स तया भीमया देवः शुलमुद्गरहस्तया ।
ज्वलितालातधारिण्या चित्राभरणवर्मया ॥
गदामुसलनाराचशक्तितोमरहरतया ।
दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः ॥
`तं दष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा ।
व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः ॥
अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः ।
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः ॥
शक्त्यस्त्रं भगवान्भीमं पुनःपुनरवाकिरत् ।
आदधच्चात्मनस्तेजो हविषेद्ध इवानलः ॥
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा ।
उल्काज्वाला महाराज पपात वसुधातले ॥
संहादयन्तश्च तथा निर्घाताश्चापतन्क्षिपौ ।
यथान्तकालसमये सुघोराः स्युस्तथा नृप ॥
क्षिप्ता ह्येका यदा शक्तिः सुघोराऽनलसूनुना ।
ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ ॥
ततः प्रीतो महासेनो जघान भगवान्प्रभुः ।
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् ॥
वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप ।
महिषं चाष्टभिः पद्मैर्वृतं सङ्ख्ये निजघ्निवान् ॥
त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् ।
हदोदरं निखर्वैश्च वृतं दशभिरीश्वरः ॥
जघानानुचरैः सार्धं विविधायुधपाणिभिः ।
तथाऽकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु ॥
कुमारानुचरा राजन्पूरयन्तो दिशो दश ।
ननृतुश्च ववल्गुश्च जहसुश्च मुदान्विताः ॥
शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः ।
त्रैलोक्यं त्रासितं सर्वं जृम्भमाणाभिरेव च ॥
दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे ।
पताकयावधूताश्च हताः केचित्सुरद्विषः ॥
केचिद्धण्टारवत्रस्ता निषेदुर्वसुधातले ।
केचित्प्रहरणैश्छिन्ना विनिष्पेतुर्गतायुषः ॥
एवं सुरद्विषोऽनेकान्बलवानाततायिनः ।
जघान समरे वीरः कार्तिकेयो महाबलः ॥
बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः ।
क्रौञ्चं पर्वतमाश्रित्य देवसङ्घानबाधत ॥
तमभ्ययान्महासेनः सुरशत्रुमुदारधीः ।
स कार्तिकेयस्य भयात्क्रौञ्चं शरणमीयिवान् ॥
ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् ।
शक्त्या बिभेद भगवान्कार्तिकेयोऽग्निदत्तया ॥
ससालस्कन्धशबलं त्रस्तवानरवारणम् ।
प्रोङ्कीनोद्धान्तविहगं विनिष्पतितपन्नगम् ॥
गोलाङ्गूलर्क्षसङ्घैश्च द्रवद्भिरनुनादितम् ।
कुरङ्गमविनिर्घोषनिनादितवनान्तरम् ॥
विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः ।
शोच्यामपि दशां प्राप्तो रराजेव सपर्वतः ॥
विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः ।
किन्नराश्च समुद्विग्नाः शक्तिपातरवोद्धताः ॥
ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः ।
प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः ॥
तान्निजघ्नुरतिक्रम्य कुमाराजुचरा मृधे ।
स चैव भगवान्क्रुद्धो दैत्येन्द्रस्य सुतं तदा ॥
सहानुजं जघानाशु वृत्रं देवपतिर्यथा ।
बिभेद क्रौञ्चं शक्त्या च पावकिः परवीरहा ॥
बहुधा चैकधा चैव कृत्वाऽऽत्मानं महाबलः ।
शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः ॥
एवम्प्रभावो भगवांस्ते भूयश्च पावकिः ।
शौर्याद्द्विगुणयोगेन तेजसा यशसा श्रिया ॥
क्रौञ्चस्ते विनिर्भिन्नो दैत्याश्च शतशो हताः ॥
ततः स भगवान्देवो निहत्य विबुधद्विषः ।
सभाज्यमानो विबुधैः परं हर्षमवाप ह ॥
ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत । मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम् ।
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ॥
दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः ।
गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः ॥
केचिदनं व्यवस्यान्ति पितामहसुतं प्रभुम् ।
सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् ॥
केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः ।
उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत ॥
एकधा च द्विधा चैव चतुर्धा च महाबलम् ।
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ॥
एतत्ते कथितं राजन्कार्तिकेयाभिषेचनम् ।
शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् ॥
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु ।
कुमारेण महाराज त्रिविष्टपमिवापरम् ॥
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक् ।
ददौ नैर्ऋतमुख्येभ्यस्त्रैलोक्यं पावकात्मजः ॥
एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः ।
अभिषिक्तो महाराज देवसेनापतिः सुरैः ॥
औशनं नाम तत्तीर्थं यत्र पूर्वमपाम्पतिः ।
अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ ॥
अस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली ।
ब्राह्मणेभ्योददौ रुक्मं वासांस्याभरणानि च ॥
उषित्वा रजनीं तत्र माधवः परवीरहा ।
पूज्यतीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली ॥
हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः ।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥
यथाऽभिषिक्तो भगवान्स्कन्दो देवैः समागतैः ।
`सेनानीश्च कृतो राजन्बाल एव महाबलः' ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥

श्रीः