अध्यायः 053

वृद्धकन्याचरित्रकथनम् ॥ 1 ॥

जनमेजय उवाच ।
कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा ।
किमर्थं च तपस्तेपे को वाऽस्या नियमोऽभवत् ॥
सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् ।
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ॥
वैशम्पायन उवाच ।
ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः । स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः ।
तपसाऽथ सुतां सुभ्रूं समुत्पादितवान्विभुः ॥
तां च दृष्ट्वा मुनिः प्रीतः कुणिर्गार्ग्यो महायशाः ।
जगाम त्रिदिवं राजन्संत्यज्येह कलेवरम् ॥
सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा ।
महता तपसोग्रेण कृत्वाश्रममनिन्दिता ॥
उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा ।
तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप ॥
सा पित्रा दीयमानापि पतिं नैच्छदनिन्दिता ।
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत ॥
ततः सा तपसोग्रेण पीडयित्वाऽऽत्मनस्तनुम् ।
पितृदेवार्चनरता बभूव विजने वने ॥
साऽऽत्मानं मन्यमाना तु कृतकृत्यं श्रमान्विता ।
`जगाम वृद्धभावं तु कौमारब्रह्मचारिणी' ॥
वार्धकेन च राजेन्द्र तपसा चैव कर्शिता ।
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम् ॥
चकार गमने बुद्धिं परलोकाय वै तदा ।
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत् ॥
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे ।
एवं तु श्रुतमस्माभिर्देवलोके महाव्रते ॥
तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः ।
तन्नारदवचः श्रुत्वा साऽब्रवीदृषिसंसदि ॥
तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः ।
इत्युक्तेऽस्यास्तु जग्राह पाणिं गालवसम्भवः ॥
ऋषिः प्राक् शृङ्गवान्नाम समयं चेममब्रवीत् ।
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने ॥
यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह ।
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा ॥
यथादृष्टेन विधिना हुत्वा चाग्निं विधानतः ।
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः ॥
सा रात्रावभवद्राजंस्तरुणी वरवर्णिनी ।
दिव्याभरणवस्त्रा च दिव्यगन्धानुलेपना ॥
तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिव श्रिया ।
उवास च क्षपामेकां प्रभाते साऽब्रवीच्च तम् ॥
यस्त्वया समयो विप्र कृतो मे तपतां वर ।
तेनोषिताऽस्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् ॥
सा तु ध्यात्वाऽब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः ।
वसते रजनीमेकां तर्पयित्वा दिवौकसः ॥
चत्वारिंशतमष्टौ च द्वौ चाष्टौ सम्यगाचरेत् ।
यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः ॥
एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता ।
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन् ॥
समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् । साधयित्वा तदाऽऽत्मानं तस्याः स गतिमाप्तवान् ।
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः ॥
एतत्ते वृद्वकन्याया व्याख्यातं चरितं महत् ।
तथैव ब्रह्मचर्यं च स्वर्गस्य च गतिः शुभा ॥
तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः ॥
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तपः ।
शुशोच शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा ॥
समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः ।
पप्रच्छर्षिगणारामः कुरुक्षेत्रस्य यत्फलम् ॥
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रिपञ्चाशतमोऽध्यायः ॥ 53 ॥

9-53-3 तपसा संयुता सुभ्रूः समुत्पनः इति छ. पाठः ॥ 9-53-22 चत्वारिंशतमष्टौ चेति । प्रतिवेदं द्वादशवर्षाणीति वेदचतुष्टयाध्ययनायाष्टाचत्वारिंशद्वर्षाणि । ततो द्वै वत्सरौ स्नातकेन गुरोरानृण्यार्थं सेवा कार्या । ततोऽष्टवार्षिकीं कन्यां परिणीय तस्या यौवनावध्यष्टवर्षाणीत्यष्टपञ्चाशद्वर्षाणि ब्रह्मचर्यं सर्वस्येष्टम् ॥ 9-53-24 सङ्गतिमन्वियात् इति छ. पाठः ॥ 9-53-53 त्रिपञ्चाशोऽध्यायः ॥

श्रीः