अध्यायः 054

दलभद्राय महर्षिभिः कुरुक्षेत्रमहिमानुवर्णनम् ॥ 1 ॥

ऋषय ऊचुः ।
प्रजापतेरुत्तरवेदिरुच्यते सनातनं राम समन्तपञ्चकम् ।
समीजिरे यत्र पुरा दिवौकसो वरेण सत्रेण महावरप्रदाः ॥
पुरा च राजर्षिवरेण धीमता बहूनि वर्षाण्यमितेन तेजसा ।
प्रकृष्टमेतत्कुरुणा महात्मना ततः कुरुक्षेत्रमितीह पप्रथे ॥
राम उवाच ।
किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना ।
एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः ॥
ऋषय ऊचुः ।
पुरा किल कुरुं राम कर्षन्तं सततोत्थितम् ।
अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम् ॥
इन्द्र उवाच ।
किमिदं वर्तते कर्म प्रयत्नेन परेण च ।
राजर्षे किमभिप्रेत्य येनेयं कृष्यते क्षितिः ॥
कुरुरुवाच ।
इह ये पुरुषाः क्षेत्रे जनिष्यन्ति शतक्रतो ।
ते गमिष्यन्ति सुकृतां लोकान्पापविवर्जितान् ॥
अपहास्य तु तं शक्रो जगाम त्रिदिवं पुनः ।
राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम् ॥
आगम्यागम्य चैवैनं भूयोभूयोऽपहास्य च ।
शत्रक्रतुरनिर्विण्णं पृष्ट्वापृष्ट्वा जगाम ह ॥
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः ।
ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम् ॥
एतच्छ्रुत्वाऽब्रुवन्देवाः सहस्राक्षमिदं वचः ।
वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते ॥
यदि ह्यत्र प्रसूता वै स्वर्गं गच्छन्ति मानवाः ।
अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति ॥
आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत् ।
अलं खेदेन भवतः क्रियतां वचनं मम ॥
मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः ।
युधि वा निहताः सम्यगपि तिर्यग्गता नृप ॥
ते स्वर्गभाजो राजेन्द्र भवन्त्विह हतास्तु ये ।
तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह ॥
ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना ।
जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः ॥
एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा ।
शक्रेण चाभ्यनुज्ञातः पुण्ये प्राणान्मुमोच ह ॥
[शक्रेण चाभ्यनुज्ञातं ब्राह्मद्यैश्च सुरैस्तथा ।
नातः परतरं पुण्यं भूमेः स्थानं भविष्यति ॥
इह तप्स्यन्ति ये केचित्तपः परमकं नराः ।
देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम् ॥
ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः ।
तेषां सहस्रगुणितं भविष्यत्यचिरेण वै ॥
ये चेह नित्यं मनुजा निवत्स्यन्ति शुभैषिणः ।
यमस्य विषयं ते तु न द्रक्ष्यन्ति कदाचन ॥
यक्ष्यन्ति ये च क्रतुभिर्महद्भिर्मनुजेश्वराः । तेषां त्रिविष्टपे वासो यावद्भूमिर्धरिष्यति ॥]
अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः ।
कुरुक्षेत्रनिबद्धां वै तां शृणुष्व हलायुध ॥
पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः ।
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥
`कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
इत्येवं निश्चितो भूत्वा तेन स्वर्गं गमिष्यति ॥
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
तथा स्थानं च मौनं च वीरासनमुपास्महे ॥
एवं प्रलपमानोऽपि चिन्तयंश्च मुहुर्मुहुः ।
दूरस्थो यदि वा तिष्ठँल्लभेत्स्वर्गं सुनिश्चितम्' ॥
सुरर्षभा ब्राह्मणसत्तमाश्च तथा नृगाद्या नरदेवमुख्याः ।
इष्ट्वा महार्हैः क्रतुभिर्नृसिंह सन्त्यज्य देहान्सुगतिं प्रपन्नाः ॥
तंरन्तुकारन्तुकयोर्यदन्तरं रामहदानां च मचक्रुकस्य च ।
एतत्कुरुक्षेत्रसमन्तपञ्चकं प्रजापतेरुत्तरवेदिरुच्यते ॥
शिवं महापुण्यमिदं दिवौकसां सुसम्मतं स्वर्गगुणैः समन्वितम् ।
अतश्च सर्वे निहता नृपा रणे यास्यन्ति पुण्यां गतिमक्षयां सदा ॥
[इत्युवाच स्वयं शक्रः सह ब्रह्मादिभिस्तदा ।
तच्चानुमोदितं सर्वं ब्रह्मविष्णुमहेष्वरैः] ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चतुःपञ्चाशत्तमोऽध्यायः ॥ 54 ॥

9-54-2 पप्रथे प्रसिद्धं बभूव ॥ 9-54-3 परिष्यन्ति शतक्रतो इति झ. पाठः ॥ 9-54-11 प्रमीता वै इति झ.पाठः ॥ 9-54-18 ब्रह्मणः क्षयं निवासम् ॥ 9-54-28 आरुन्दुकारुन्दकयोर्यदन्तरं रामह्रदाना च समन्दुकस्य इति क.पाठः । परमन्दुकस्येति ङ.छ.पाठः ॥ 9-54-54 चतुःपञ्चाशत्तमोऽध्यायः ॥

श्रीः