अध्यायः 056

(अथ गदायुद्धपर्व ॥ 3 ॥) गदायुद्धाय सन्नद्धयोर्भीमदुर्योधनयोर्वर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
रामसान्निध्यमागम्य पुत्रो दुर्योधनस्तव ।
योद्धुकामो महाबाहुः समहृष्यत वीर्यवान् ॥
दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत ।
प्रीत्या4 परमया युक्तो युधिष्ठिरमथाब्रवीत् ॥
दुर्योधन उवाच ।
समन्तपञ्चकं पुण्यमितो याम विशाम्पते ।
प्रथितोत्तरवेदी सा देवलोके प्रजापतेः ॥
तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने ।
सङ्ग्रामे निधनं प्राप्य ध्रुवं स्वर्गं गमिष्यसि ॥
तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः ।
समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः ॥
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् ।
पद्ध्याममर्षी द्युतिमानगच्छत्पाण्डवैः सह ॥
तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् ।
अन्तरिक्षचरा देवाः साधुसाध्वित्यपूजयन् ॥
वादकाश्च नरास्तत्र दृष्ट्वा ते हर्षमागताः ॥
स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः ।
मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् ॥
ततः शङ्खनिनादैश्च भेरीणां च महास्वनैः ।
सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः ॥
ततस्ते तु कुरुक्षेत्रं प्राप्ता नरवरोत्तमाः । प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते ।
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् ॥
तस्मिन्देशे त्वनिरिणे ते तु युद्धमरोचयन् ॥
ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् ।
बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः ॥
अवबद्धशिरस्त्राणः शुद्धकाञ्चनवर्मभृत् ।
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥
तौ तथा सङ्गतौ वीरौ भीमदुर्योधनावुभौ ।
संयुगे सम्प्रकाशेते संरब्धाविव कुञ्जरौ ॥
रथमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ ।
अशोभेतां महाराज चन्द्रसूर्याविवोदितौ ॥
तावन्योन्यं निरीक्षेतां क्रुद्धाविव महोरगौ ।
दहन्तौ लोचनै राजन्परस्परवधैषिणौ ॥
संप्रहृष्टमना राजन्गदामादाय कौरवः ।
सृक्विणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् ॥
ततो दुर्योधनो राजन्गदामादाय वीर्यवान् ।
भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् ॥
अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् ।
आह्वयामास नृपतिं सिंहः सिंहं यथा वने ॥
तावुद्यतगदापाणी दुर्योधनवृकोदरौ ।
संयुगे सम्प्रकाशेतां गिरी सशिखराविव ॥
तावुभौ समतिक्रुद्धावुभौ भीमपराक्रमौ ।
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः ॥
उभौ सदृशकर्माणौ वरुणस्य महाबलौ ।
वासुदेवस्य रामस्य तथा वैश्रवणस्य च ॥
सदृशौ तौ महाराज मधुकैटभयोरपि ।
उभौ सदृशकर्माणौ तथा सुन्दोपसुन्दयोः ॥
[रामरावणयोश्चैव वालिसुग्रीवयोस्तथा] ।
तथैव कालस्य समौ मृत्योश्चैव परन्तपौ ॥
अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ ।
वासितासङ्गमे दृप्तौ शरदीव मदोत्कटौ ॥
उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव ।
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिन्दमौ ॥
उभौ भरतशार्दूलौ विक्रमेण समन्वितौ ।
सिंहाविव दुराधर्षौ गदायुद्धविशारदौ ॥
नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ ।
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ ॥
लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ ।
[पूर्वपश्चिमजौ मेघौ प्रेक्षमाणावरिन्दमौ ॥
गर्जमानौ सुविषमं क्षरन्तौ प्रावृषीव हि ।
रश्मियुक्तौ महात्मानौ दीप्तिमन्तौ महाबलौ ॥
ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ ।
व्याघ्राविव सुसंरब्धौ गर्जन्ताविवतोयदौ ॥
जहृषाते महाबाहु सिंहकेसरिणाविव ।
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ ॥
ददृशाते महात्मानौ सशृङ्गाविव पर्वतौ ।
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् ॥
तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ ।] उभौ परमसंहृष्टावुभौ परमसम्मतौ ॥
सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ । वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ ।
दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ ॥
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् ।
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः ।
उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः ॥
ततः समुपविष्टं तत्सुमहद्राजमण्डलम् ।
विराजमानं ददृशे दिवीवादित्यमण्डलम् ॥
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः ।
उपविष्टो महाराज पूज्यमानः समन्ततः ॥
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः ।
नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः ॥
तौ तथा तु महाराज गदाहस्तौ सुदुःसहौ ।
अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ ॥
अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुसत्तमौ ।
उदीक्षन्तौ स्थितौ तत्र वृत्रशक्रौ यथाऽऽहवे ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि गयादुद्धपर्वणि षट््पञ्चाशत्तमोऽध्यायः ॥ 56 ॥

9-56-8 वातिकाश्चारणा ये तु इति झ.पाठः । तत्र वातिकाः वातेन सह गच्छन्ति ते आकाशचारिणः । चारणाः सिद्धविशेषा इत्यर्थः ॥ । 9-56-11 स्वयनं सुगतिदम् ॥ 9-56-12 अनिरिणे अनूषरे ॥ 9-56-26 वासितासङ्गमे एककरिणीसङ्गमार्थे दृप्तौ मोहितौ ॥ 9-56-30 लोहिताङ्गौ द्वौ कुजाविवेत्यभूतोपमा ॥ 9-56-33 जहषाते हर्षं प्रापतुः ॥ 9-56-56 षट््पञ्चाशत्तमोऽध्यायः ॥

श्रीः

  1. *एतच्छ्लोकस्य स्थाने झ.पुस्तके अधोलिखिताः पञ्च श्लोका वर्तन्ते । ते च ।

    प्रीत्या परमया युक्ताः समभ्यर्च्य यथाविधि ।
    आसनं च ददौ तस्मै पर्यपृच्छदनामयम् ॥
    ततो युधिष्ठिरं रामो वाक्यमेतदुवाच ह ।
    मधुरं धर्मसंयुक्तं शूराणां हितमेव च ॥
    मया श्रुतं कथयतामृषीणां राजसत्तम ।
    कुरुक्षेत्रं परं पुण्यं पावनं स्वर्ग्यमेव च ॥
    देवतैर्ऋषिभिर्जुष्टं ब्राह्मणैश्च महात्मभिः ।
    तत्र वै योत्स्यमाना ये देहं त्यक्ष्यन्ति मानवाः ॥
    तेषां स्वर्गे ध्रुवो वासः शक्रेण सह मारिष ।
    तस्मात्समन्तपञ्चकमितो याम द्रुतं नृप ॥