अध्यायः 060

भीमसेनेन दुर्योधनापनयानुस्मारणपूर्वकं वामपादेन तच्छिरस्ताडनम् ॥ 1 ॥ युधिष्ठिरेण दुर्योधनसमाश्वासनम् ॥ 2 ॥

सञ्जय उवाच ।
तं पातितं ततो दृष्ट्वा महासालमिवोद्गतम् ।
प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः ॥
उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम् ।
ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः ॥
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान् ।
पातितं कौरवेन्द्रं तमुपगम्येदमब्रवीत् ॥
गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम् । यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते ।
तस्यावहासस्य फलमद्य त्वं समवाप्नुहि ॥
एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् ।
शिरश्च राजसिंहस्य पादेन समलोडयत् ॥
तथैव क्रोधसंरक्तो भीमः परबलार्दनः ।
पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप ॥
येऽस्मान्पुरा प्रनृत्यन्ति मूढा गौरिति गौरिति ।
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति ॥
नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना ।
स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून् ॥
सोऽवाप्य वैरस्य चिरस्य पारं वृकोदरः प्राह शनैः प्रहस्य ।
युधिष्ठिरं केशवसृञ्जयांश्च धनञ्जयं माद्रवतीसुतौ च ॥
रजस्वला द्रौपदीमानयन्ते ये चाप्यकुर्वन्त सदस्यवस्त्राम् । 9-60-10cतान्पश्यध्वं पाण्डवैर्धार्तराष्ट्रान् रणे हतांस्तपसा याज्ञसेन्याः ॥
ये नः पुरा षण्ढतिलानवोचन् क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः ।
ते नो हताः सगणाः सानुबन्धाः कामं स्वर्गं नरकं वा व्रजामः ॥
पुनश्च राज्ञः पतितस्य भूमौ स तां गदां स्कन्धगतां प्रगृह्य ।
वामेन पादेन शिरः प्रमृद्य दुर्योधनं नैकृतिकेत्यवोचत् ॥
हृष्टेन राजन्कुरुपार्थिवस्य क्षुद्रात्मना भीमसेनेन पादम् ।
दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन् धर्मात्मानः सोमकानां प्रबर्हाः ॥
तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम् ।
नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम् ॥
गतोऽसि वैरस्यानृण्यं प्रतिज्ञा पूरिता त्वया ।
शुभेनाथाशुभेनैव कर्मणा विरमाधुना ॥
मा शिरोऽस्य पदाऽमर्दीर्मा धर्मस्तेऽतिगो भवेत् ।
राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ ॥
एकादशचमूनाथं कुरूणामधिपं तथा ।
मास्प्राक्षीर्भीम पादेन राजानं ज्ञातिमेव च ॥
हतबन्धुर्हतामात्यो भ्रष्टसैन्यो हतो मृधे ।
सर्वाकारेण शोच्योऽयं नावहास्योऽयमीश्वरः ॥
विध्वस्तोऽयं हतामात्यो हतबन्धुर्हतात्मजः ।
उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया ॥
धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः ।
स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि ॥
इत्युक्त्वा भीमसेनं तु साश्रुकण्ठो युधिष्ठिरः ।
उपसृत्याब्रवीद्दीनो दुर्योधनमरिन्दमम् ॥
तात मन्युर्न ते कार्यो नात्मा शोच्यस्त्वया तथा ।
नूनं पूर्वकृतं कर्म सुघोरमनुभूयते ॥
धात्रोपदिष्टं विषमं नूनं फलमसंस्कृतम् ।
यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम ॥
आत्मनो ह्यपराधेन महद्व्यसनमीहशम् ।
प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत ॥
घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा ।
पुत्रान्पौत्रांस्तथा चान्यांस्ततोसि निधनं गतः ॥
तवापराधादस्माभिर्भ्रातरस्ते निपातिताः ।
निहता ज्ञातयश्चापि दिष्टं मन्ये दुरत्ययम् ॥
[आत्मा न शोचनीयस्ते श्लाघ्यो मृत्युस्तवानघ ।
वयमेवाधुना शोच्याः सर्वावस्थासु कौरव ॥
कृपणं वर्तयिष्यामस्तैर्हीना बन्धुभिः प्रियैः ।
भ्रातॄणां चैव पुत्राणां तथा वै शोकविह्वलाः ॥
कथं द्रक्ष्यामि विधवा वधूः शोकपरिप्लुताः । त्वमेकः सुस्थितो राजन्स्वर्गे ते निलयो ध्रुवः ।
वयं नरकसंज्ञं वै दुःखं प्राप्स्याम दारुणम् ॥]
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः ।
गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः ॥
सञ्जय उवाच ।
एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः ।
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥

श्रीः