अध्यायः 062

पाञ्चालादिभिर्भीमस्तुतिः ॥ 1 ॥ कृष्णादुर्योधनयोः परस्परगर्हणम् ॥ 2 ॥ दुर्योधनेनात्मस्तुतौ तन्मूर्धि गन्धर्वैः पुष्पवर्षणम् ॥ 3 ॥ भीष्मादिमरणेन दुःखितानां पाण्डवानां कृष्णेन समाश्वासनम् ॥ 4 ॥

धृतराष्ट्र उवाच ।
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे ।
पाण्डवाः सृञ्जयाश्चैव किमकुर्वत सञ्जय ॥
स़ञ्जय उवाच ।
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे ।
सिंहेनेव महाराज मत्तं वनगजं यथा ॥
प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः । पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने ।
आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे ॥
नैतान्हर्षसमाविष्टानियं सेहे वसुन्धरा ॥
धनूंष्येके व्याक्षिपन्त ज्याश्चाप्यन्ये तथाऽक्षिपन् ।
दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीन् ॥
चिकीडुश्च तथैवान्ये जहसुश्च तवाहिताः ।
अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः ॥
दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम् ।
कौरवेयं रणे हत्वा गदयाऽतिकृतश्रमम् ॥
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे ।
त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः ॥
चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः ।
दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् ॥
वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम् ।
अशक्यमेतदन्येन सम्पादयितुमीदृशम् ॥
कुञ्जरेणेव मत्तेन वीरसङ्ग्राममूर्धनि ।
दुर्योधपशिरो दिष्ट्या पादेन मृदितं त्वया ॥
सिंहेन महिषस्येव कृत्वा सङ्गरमुत्तमम् ।
दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयाऽनघ ॥
ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम् ।
मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा ॥
अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च ।
भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ॥
एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः ।
तथा त्वां निहतामित्रं वयं नन्दाम भारत ॥
दुर्योधनवधे यानि रोमाणि हृषितानि नः । अद्यापि न विकृष्यन्ते तानि तद्विद्धि भारत ।
इत्यब्रुन्भीमसेनं वातिकास्तत्र सङ्गताः ॥
तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह ।
ब्रुवतोऽसदृशं तत्र प्रोवाच मधुसूदनः ॥
न न्याय्यं निहतं शत्रुं भूयो हन्तुं नराधिपाः ।
असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः ॥
तदैवैष हतः पापो यदैव निरपत्रपः ।
लुब्धः पापसहायश्च सुहृदां शासनातिगः ॥
बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः ।
पाण्डुभ्यः प्रार्थ्यमानोऽपि पित्र्यमंशं न दत्तवान् ॥
नैव तेभ्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः ।
किमनेन वितुन्नेन वाग्भिः काष्ठसधर्मणा ॥
रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः ।
दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः ॥
इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः ।
अमर्षवशमापन्न उदतिष्ठद्विशाम्पते ॥
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम् ।
दृष्टिं भ्रूसङ्कटां कृत्वा वासुदेवे न्यपातयत् ॥
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तु ।
क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भोगिनः ॥
प्राणान्तकरिणीं घोरां वेदनामप्यचिन्तयन् ।
दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् ॥
कंसदासस्य दायाद न ते लज्जाऽस्त्यनेन वै । अधर्मेण गदायुद्धे यदर्हं विनिपातितः ।
ऊरूभिन्धीति भीमस्य स्मृतिं मिथ्याप्रयच्छता ॥
किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः । घातयित्वा महीपालानृजुयुद्धान्सहस्रशः ।
जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा ॥
अहन्यहनि शूराणां कुर्वाणः कदनं महत् ।
शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः ॥
अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते ।
आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मया ॥
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् ।
पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः ॥
वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च ।
घटोत्कचे व्यंसयतः कस्त्वत्तः पापकृत्तमः ॥
छिन्नहस्तः प्रायगतस्तथा भूरिश्रवा बली ।
त्वयाऽभिसृष्टेन हतः शैनेयेन दुरात्मना ॥
कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया ।
व्यंसनेनाश्वसेनस्य पन्नगेन्द्रस्य वै पुनः ॥
पुनश्च पतिते चक्रे व्यसनार्तः पराजितः ।
पापितः समरे कर्णश्चक्रव्याग्रोऽग्रणीर्नृणाम् ॥
यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे ।
ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम् ॥
त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः ।
स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः ॥
`त्वया मायाविना कृष्ण मायां कर्मप्रमोषिणीम् ।
कृत्वा हतः सिन्धुपतिः किं तन्न विदितं मम' ॥
वासुदेव उवाच ।
हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः ।
सगणः ससुहृच्चैव पापं मार्गमनुष्ठितः ॥
तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ ।
कर्णश्च निहतः सङ्ख्ये तव शीलानुवर्तकः ॥
याच्यमानं मया मूढ पित्र्यमंशं न दित्ससि ।
पाण्डवेभ्यः स्वराज्यं च लोभाच्छकुनिनिश्चयात् ॥
विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः ।
प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते ॥
सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला ।
तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रप ॥
अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना ।
निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे ॥
जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने ।
यातेषु मृगयां चैव तृणबिन्दोरथाश्रमम् ॥
अभिमन्युश्च यद्बाल एको बहुभिराहवे ।
त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे ॥
`कुर्वाणं कर्म समरे पाण्डवानर्थकाङ्क्षिणम् ।
यच्छिखण्ड्यवधीद्भीष्मं मित्रार्थे न व्यतिक्रमः ॥
स्वधर्मं पृष्ठतः कृत्वा आचार्यस्त्वत्प्रियेप्सया ।
पार्षतेन हतः सङ्ख्ये वर्तमानोऽसतां पथि ॥
प्रतिज्ञामात्मनः सत्यां चिकीर्षन्समरे निपुम् ।
हतवान्सात्वतो विद्वान्सौमदत्तिं महारथम् ॥
अर्जुनः समरे राजन्युध्यमानः कदाचन ।
निन्दितं पुरुषव्याघ्रः करोति न कथञ्चन ॥
लब्ध्वाऽपि बहुधा छिद्रं वीरवृत्तमनुस्मरन् ।
निजघान रणे कर्णं मैवं वोचः सुदुर्मते ॥
देवानां मतमाज्ञाय तेषां प्रियहितेप्सया ।
अर्जुनस्य महानागं मया व्यंसितमस्त्रजम् ॥
त्वं च भीष्मश्च कर्णश्च द्रोणो द्रौणायनिस्तथा ।
विराटनगरे तस्य ह्यानृशंस्येन जीविताः ॥
स्मर पार्थस्य विक्रान्तं गन्धर्वेषु कृतं तथा ।
अधर्मं नात्र गान्धारे पाण्डवैर्यत्कृतं त्वयि ॥
स्वबाहुबलमास्थाय स्वधर्मेण परन्तपाः ।
जितवन्तो रणे वीराः पापोसि निधनं गतः' ॥
[यान्यकार्याणि चास्माकं कृतानिति प्रभाषसे ।
वैगुण्येन तवात्यर्थं सर्वं हि तदनुष्ठितम् ॥
बृहस्पतेरुशनसो नोपदेशः श्रुतस्त्वया ।
वृद्धा नोपासिताश्चैव हितं वाक्यं न ते श्रुतभ् ॥
लोभेनातिबलेन त्वं तृष्णया च वशीकृतः । कृतवानस्यकार्याणि विपाकस्तस्य भुज्यताम् ॥]
दुर्योधन उवाच ।
अधीतं विधिवद्दत्तं भूः प्रभुक्ता ससागरा ।
मूर्ध्नि स्थिममित्राणां को नु स्वन्ततरो मया ॥
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम् ।
तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया ॥
देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः ।
ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया ॥
ससुहृत्सानुबन्धस्च स्वर्गं गन्ताऽहमच्युत ।
यूयं गर्हितसङ्कल्पाः शोचन्तो वर्तयिष्यथ ॥
`न मे विषादो भीमेन पादेन शिर आहतम् ।
काका वा कङ्कगृध्रा वा निधास्यन्ति पदं क्षणात्' ॥
सञ्जय उवाच ।
अस्य वाक्यस्य निधने कुरुराजस्य धीमतः ।
अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम् ॥
अवादयन्त गन्धर्वा वादित्रं सुमनोहरम् ॥
जगुश्चाप्सरसो राज्ञो यशः सम्बद्धमेव च ।
सिद्धाश्च मुमुचुर्वाचः साधुसाध्विति पार्थिव ॥
ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुःसुखः ।
व्यराजंश्च दिशः सर्वा नभो वैदूर्यसन्निभम् ॥
अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः ।
दुर्योधनस्य पूजां तु दृष्ट्वा व्रीडामुपागमन् ॥
हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते ।
भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च ॥
तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः ।
प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः ॥
नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः ।
ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे ॥
उपायान्निहता ह्येते मया तस्मान्नराधिपाः ।
अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित् ॥
ते हि सर्वे महेष्वासाश्चत्वारोऽतिरथा मुवि ।
अशक्या धर्मतो हन्तुं लोकपालैरपि स्वयम् ॥
तथैवायं गदापाणिर्धार्तराष्ट्रो गतश्रमः ।
अशक्यो धर्मतो हन्तुं कालेनापि दि दण्डिना ॥
नैतन्मनसि कर्तव्यं यदयं निहतो नृपः ।
मिथ्याचर्याच्छलोपायैर्बहवः शत्रवो हताः ॥
पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः ।
सद्भिश्चानुगतः पन्थाः सर्वैरनुगमिष्यते ॥
`एवं विधात्रा विहितं स्वयमेषां महात्मनाम् ।
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥
भूतं भव्यं भविष्यच्च निमेषाद्यो हनिष्यति । कृतान्तमन्यथा कर्तुं नेच्छेत्सोऽयं धनञ्जय ॥'
कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे ।
साश्वनागरथाः सर्वे विश्राम्यन्तु नराधिपाः ॥
वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह ।
पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसङ्घवत् ॥
ततः प्राध्मापयच्छङ्खं पाञ्चजन्यं जनार्दनः ।
`देवदत्तं प्रहृष्टात्मा शङ्खप्रवरमर्जुनः ॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
पोण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ।
धृष्टद्युम्नस्तथा जैत्रं सात्यकिर्नन्दिवर्धनम् ॥
तेषां नादेन महता शङ्खानां भरतर्षभ ।
आपुपूरे नभः सर्वं पृथिवी च चचाल ह ॥
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
पाण्डुसैन्येष्ववाद्यन्त स शब्दस्तुमुलोऽभवत् ॥
अस्तुवन्पाण्डवानन्ये निर्भीश्च स्तुतिमङ्गलैः' ।
हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥

9-62-21 नैष योग्योऽद्य मित्रं वेति झ.पाठः ॥ 9-62-62 द्विषष्टितमोऽध्यायः ॥

श्रीः