अध्यायः 002

धृतराष्ट्रेण सञ्जयस्य पुरतो दुर्योधनवचनानुस्मरणेन विलापः ॥ 1 ॥

वैशम्पायन उवाच ।
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः ।
विललाप महाराज दुःखाद्दुःखतरं गतः ॥
सधूममिव निःश्वस्य करौ धुन्वन्पुनःपुनः ।
बहु सञ्चिन्तयित्वा तु सञ्जयं वाक्यमब्रवीत् ॥
धृतराष्ट्र उवाच ।
अहो बत महद्दुःखं यदहं पाण्डवान्रणे ।
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै ॥
वज्रसारमयं नूनं हृदयं सुदृढं मम ।
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा ॥
चिन्तयित्वा वचस्तेषां बालक्रीडां च सञ्जय ।
अद्य चैव हताञ्श्रुत्वा दीर्यते मे भृशं मनः ॥
अन्धत्वाद्यदि पुत्राणां न मे रूपिनिदर्शनम् ।
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता ॥
बालभावमतिक्रम्य यौवनस्थांश्च तानहम् ।
श्रियं प्राप्तांश्च ताञ्श्रुत्वा हृष्ट आसं तदाऽनघ ॥
तानद्य निहताञ्श्रुत्वा हतैश्वर्यान्हतौजसः ।
न लभेयं क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः ॥
एह्येहि वत्स राजेन्द्र ममानाथस्य पुत्रक ।
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम् ॥
कथं त्वं पृथिवीपालांस्त्यक्त्वा तात समागतान् ।
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा ॥
गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा ।
अन्धं वृद्वं च मां वीर विहाय क्व नु यास्यसि ॥
सा कृपा सा च ते प्रीतिः सा च राजसु मानिता ।
कथं त्वं निहतः पार्थैः संयुगेष्वपराजितः ॥
को नु मामुत्थितः काले ताततातेति वक्ष्यति ।
महाराजेति सततं लोकनाथेति चासकृत् ॥
परिष्वज्य च कं कण्ठे स्नेहेन क्लिन्नलोचनः ।
अनुशास्ताऽस्मि कौरव्य तत्साधु वदमे वचः ॥
ननु नामाहमश्रौषं वचनं तव पुत्रक ।
भूयसी मम पृथ्वीयं तात पार्थस्य नो तथा ॥
भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः ।
भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः ॥
अश्वत्थामा च भोजश्च मागधश्च महाबलः ।
बृहद्बलश्च क्राथश्च शकुनिश्चापि सौबलः ॥
म्लेच्छाश्च शतसाहस्राः शकाश्च यवनैः सह ।
सुदक्षिणश्च काम्भोजस्त्रिगर्ताधिपतिस्तथा ॥
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः ।
श्रुतायुश्चाश्रुतायुश्च शतायुश्चापि वीर्यवान् ॥
जलसन्धोऽथार्ष्यशृङ्गी राक्षसश्चाप्यलायुधः ।
अलम्बुसो वीरबाहुः सुबाहुश्च महारथः ॥
एते चान्ये च बहवो राजानो राजसत्तम ।
मदर्थं प्रहरिष्यन्ति प्राणांस्त्यक्त्वा धनानि च ॥
तेषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः ।
योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः ॥
चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे ।
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् ॥
एकोऽप्येषां महाराज समर्थः सन्निवारणे ।
समरे पाण्डवेयानां सङ्क्रुद्धो ह्यभिधावताम् ॥
किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः ।
अथवा सर्व एवैते पाण्डवस्यानुयायिभिः ॥
योत्स्यन्ते सह राजेन्द्र हनिष्यन्ति च तान्मृधे ।
कर्ण एको मया सार्धं निहनिष्यति पाण्डवान् ॥
ते वै नृपतयो वीराः स्थास्यन्ति मम शासने ॥
यश्च तेषां प्रणेता वै वासुदेवो महाबलः ।
न स सन्नह्यते राजन्निति मामब्रवीद्वचः ॥
एवं च वदतः सूत बहुशो मम सन्निधौ ।
युक्तितो ह्यनुपश्यामि निहतान्पाण़्डवान्रणे ॥
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः ।
व्यायच्छमानाः समरे किमन्यद्भागधेयतः ॥
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् ।
शिखण़्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् ॥
द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः ।
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः ॥
कर्णश्च निहतः सङ्ख्ये दिव्यास्त्रज्ञो महाबलः । भूरिश्रवा हतो पत्र सोमदत्तश्च संयुगे ।
बाह्लिकश्च महाराज किमन्यद्भागधेयतः ॥
भगदत्तो हतो यत्र गजयुद्धविशारदः ।
जयद्रथश्च निहतः किमन्यद्भागधेयतः ॥
सुदक्षिणो हतो यत्र जलसन्धश्च पौरवः ।
श्रुतायुश्चाश्रुतायुश्च किमन्यद्भागधेयतः ॥
महाबलस्तथा पाण्ड्यः सर्वशस्त्रभृतां वरः ।
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः ॥
बृहद्बलो हतो यत्र मागधश्च महाबलः ।
उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम् ॥
आवन्त्यो निहतो यत्र त्रैगर्तश्च जनाधिपः ।
संशप्तकाश्च निहताः किमन्यद्भागधेयतः ॥
अलम्बुसस्तथा राजन्राक्षसश्चाप्यलायुधः ।
आर्ष्यशृङ्गिश्च निहतः किमन्यद्भागधेयतः ॥
नारायणा हता यत्र गोपाला युद्धदुर्मदाः ।
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः ॥
शकुनिः सौबलो यत्र कैतव्यश्च महाबलः ।
निहतः सबलो वीरः किमन्यद्भागधेयतः ॥
एते चान्ये च बहवः कृतास्त्रा युद्धदुर्मदाः । राजानो राजपुत्राश्च शूराः परिघबाहवः ।
निहता बहवो यत्र किमन्यद्भागधेयतः ॥
यत्र शूरा महेष्वासाः कृतास्त्रा युद्वदुर्मदाः ।
बहवो निहताः सूत महेन्द्रसमविक्रमाः ॥
नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय ।
निहताः समरे सर्वे किमन्यद्भागधेयतः ॥
पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः ।
वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः ॥
भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः ।
यस्तु भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः ॥
अहं वियुक्तस्तैर्भाग्यैः पुत्रैश्चैवेह सञ्जय ।
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः ॥
नान्यदत्र परं मन्ये वनवासादृते प्रभो ।
सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसंक्षये ॥
न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते ।
इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय ॥
दुर्योधनो हतो यत्र शल्यश्च निहतो युधि ।
दुःशासनो विविंशश्च विकर्णश्च महाबलः ॥
कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम् ।
एकेन समरे येन हतं पुत्रशतं मम ॥
असकृद्वदतस्तस्य दुर्योधनवधेन च ।
दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः ॥
वैशम्पायन उवाच ।
एवं स शोकसन्तप्तः पार्थिवो हतबान्धवः ।
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः ॥
विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः ।
दीर्घमुष्णं स निःश्वस्य चिन्तयित्वा पराभवम् ॥
दुःखेन महता राजन्सन्तप्तो भरतर्षभः ।
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥
धृतराष्ट्र उवाच ।
भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् ।
सेनापतिं प्रणेतारं कमकुर्वत मामकाः ॥
यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः ।
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः ॥
रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना ।
एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् ॥
एवमेव हतः कर्णः सूतपुत्रः प्रतापवान् ।
सराजकानां सर्वेषां पश्यतां वः किरीटिना ॥
पूर्वमेवाहमुक्तो वै विदुरेण महात्मना ।
दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥
केचिन्न सम्यक्पश्यन्ति मूढाः सम्यगवेक्ष्य च ।
तदिदं मम मूढस्य तथाभूतं वचः स्म तत् ॥
यदब्रवीत्स धर्मात्मा विदुरो दीर्घदर्शिवान् ।
तत्तथा समनुप्राप्तं वचनं सत्यवादिनाः ॥
दैवोपहतचित्तेन यन्मयाऽनुष्ठितं पुरा ।
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः ॥
को वा मुखमनीकानामासीत्कर्णो निपातिते ।
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी ॥
केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे ।
वामं च योद्वुकामस्य के वा वीरस्य पृष्ठतः ॥
कथं च वः समेतानां मद्रराजो महारथः ।
निहतः पाण्डवैः सङ्ख्ये पुत्रो वा मम सञ्जय ॥
ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् ।
यथा च निहतः सङ्ख्ये पुत्रो दुर्योधनो मम ॥
पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः ।
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः ॥
पाण्डवाश्च यथा मुक्तास्तथोभौ माधवौ युधि ।
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः ॥
यद्यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम् ।
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि द्वितीयो3ऽध्यायः*॥ 2 ॥*

9-2-2 सधूममिव अत्युष्णित्यर्थः ॥ 9-2-14 परिष्वज्य च मां कण्ठे स्नेहेन क्लिन्नलोचनः । अनुशाधीति कौरव्य तत्साधु वद मे वचः इति झ.पाठः ॥ 9-2-37 प्रतिमानं केतुभूतः ॥ 9-2-61 केचित्सम्यक्प्रपश्यन्ति मूढास्तु न तथा परे इति ख.पाठः । सम्यगवेक्ष्य निपुणं विभाव्यापि मूढास्तथाभूतं तद्वचः केचिन्न पश्यन्तीति सम्बन्धः । तथाभूतं यथार्थम् ॥ 9-2-2 द्वितीयोऽध्यायः ॥

श्रीः

  1. एतदनन्तरं झ.पाठे एकोऽध्यायोऽधिको दृश्यते ।