प्रक्षिप्तोऽध्यायः

पार्थेन निहते कर्णे पाण्डवभयात्पलायमानां सेनां निवर्त्य दुर्योधनस्य पुनर्युद्धोद्यमः ॥ 1 ॥

[सञ्जय उवाच ।
शृणु राजन्नवहितो यथावृत्तो महान्क्षयः ।
कुरूणां पाण्डवानां च समासाद्य परस्परम् ॥
निहते सूतपुत्रे तु पाण्डवेन महात्मना ।
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ॥
घोरे मनुष्यदेहानामाजौ नरवरक्षये ।
यत्तत्कर्णे हते पार्थः कसिंहनादमथाकरोत् ॥
तदा तव सुतान्राजन्प्राविशत्सुमहद्भयम् ॥
न सन्धातुमनीकानि न चैवाथ पराक्रमे ।
आसीद्बुद्धिर्हते कर्णे तव योधस्य कस्यचित् ॥
वणिजो नावि भिन्नायामगाधे विप्लुवा इव ।
अपारे पारमिच्छन्तो हते द्वीपे किरीटिना ॥
सूतपुत्रो हते राजन्वित्रस्ताः शरविक्षताः ।
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥
भग्नशृङ्गा इव वृषा शीर्णदंष्ट्रा इवोरगाः ।
प्रत्युपायाम सायाह्ने निर्जिताः सव्यसाचिना ॥
हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः ।
सूतपुत्रे हते राजन्पुत्रास्ते प्राद्रवंस्ततः ॥
विध्वस्तकवचनाः सर्वे कान्दिशीका विचेतसः ।
अन्योन्यमभिनिघ्नन्तो वीक्षमाणा भयाद्दिशः ॥
मामेव नूनं बीभत्सुर्मामेव च वृकोदरः ।
अभियातीति मन्वानाः पेतुर्मम्लुश्च भारत ॥
अश्वानन्ये गजानन्ये रथानन्ये महारथाः ।
आरुह्य जवसम्पन्नाः पादातान्प्रजहुर्भयात् ॥
कुञ्जरैः स्यन्दना भग्नाः सादिनश्च महारथैः ।
पदातिसङ्घाश्चाश्वौघैः पलायद्भिर्भृशं हताः ॥
व्यालतस्करसङ्कीर्णे सार्थहीना यथा वने ।
तथा त्वदीया निहते सूतपुत्रे पदाऽभवन् ॥
हतारोहास्तथा नागाश्छिन्नहस्तास्तथाऽपरे ।
सर्वं पार्थमयं लोकमपश्यन्वै भयार्दिताः ॥
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् ।
दुर्योधनोऽथ स्वं सूतं हाहाकृत्वैवमब्रवीत् ॥
नातिक्रमिष्यते पार्थो धनुष्पाणिमवस्थितम् ।
जघने युध्यमानं मां तूर्णमश्वान्प्रचोदय ॥
समरे युध्यमानं हि कौन्तेयो मां धनञ्जयः ।
नोत्सहेताप्यतिक्रान्तुं वेलामिव महार्णवः ॥
अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम् ।
निहत्य शिष्टाञ्शत्रूंश्च कर्णस्यानृण्यमाप्नुयाम् ॥
तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः ।
सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत् ॥
गजाश्वरथहीनास्तु पादाताश्चैव मारिष ।
पञ्चविंशतिसाहस्राः प्राद्रवञ्शनकैरिव ॥
तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः ।
बलेन चतुरङ्गेण परिक्षिप्याहनच्छरैः ॥
प्रत्ययुध्यंस्तु ते सर्वे भीमसेनं सपार्षतम् ।
पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी ॥
अक्रुध्यत रणे भीमस्तैर्मृधे प्रत्यवस्थितैः ।
सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत ॥
न तान्रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः ।
योधयामास कौन्तेयो भुजवीर्यमुपाश्रितः ॥
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् ।
न्यवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः ॥
पदातयो हि संरब्धास्त्यक्तजीवितबान्धवाः ।
भीममभ्यद्रवन्सङ्ख्ये पतङ्गा इव पावकम् ॥
आसाद्य भीमसेनं ते संरब्धा युद्धदुर्मदाः ।
विनेदुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम् ॥
श्येनवद्व्यचरद्भीमः खङ्गेन गदया तथा ।
पञ्चविंशतिसाहस्रांस्तावकानां व्यपोथयत् ॥
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः ।
धृष्टद्युम्नं पुरस्कृत्य पुनस्तस्थौ महाबलः ॥
धनञ्जयो रथानीकमन्वपद्यत वीर्यवान् ॥
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः ।
जवेनाभ्यपतन्हृष्टा घ्नन्तो दौर्योधनं बलम् ॥
तस्याश्ववाहान्सुबहूंस्ते निहत्य शितैः शरैः ।
तमन्वधावंस्त्वरितास्तत्र युद्धमवर्तत ॥
ततो धनञ्जयो राजन्रथानीकमगाहत ।
विश्रुतं त्रिषु लोकेषु गाण्डीवं व्याक्षिपन्धनुः ॥
कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम् ।
अर्जुनं चापि योद्वारं त्वदीयाः प्राद्रावन्भयात् ॥
विप्रहीनरथाश्वाश्च शरैश्च परिवारिताः ।
पञ्चविंशतिसाहस्राः पार्थमार्च्छन्पदातयः ॥
हत्वा तत्पुरुषानीकं पाञ्चालानां महारथः ।
भीमसेनं पुरस्कृत्य न चिरात्प्रत्यदृश्यत ॥
महाधनुर्धरः श्रीमानमित्रगणमर्दनः ।
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महायशाः ॥
पारावतसवर्णाश्वं कोविदारवरध्वजम् ।
धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात् ॥
गान्धारराजं श्रीघ्रास्त्रमनुसृत्य यशस्विनौ ।
अचिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी ॥
चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष ।
हत्वा त्वदीयं सुमहत्सैन्यं शङ्खानथाधमन् ॥
ते सर्वे तावकान्प्रेक्ष्य द्रवतो वै पराङ्मुखान् ।
अभ्यधावन्त निघ्नन्तो वृषाञ्चित्वा वृषा इव ॥
सेनावशेषं तं दृष्ट्वा तव पुत्रस्य पाण्डवः ।
अवस्थितं सव्यसाची चुक्रोध बलवन्नृप ॥
तत एनं शरै राजन्सहसा समवाकिरत् ।
रजसा चोद्गतेनाथ न स्म किञ्चन दृश्यते ॥
अन्धकारीकृते लोके शरीभूते महीतले ।
दिशः सर्वा महाराज तावकाः प्राद्रवन्भयात् ॥
भज्यमानेषु सर्वेषु कुरुराजो विशाम्पते ।
परेषामात्मनश्चैव सैन्ये ते समुपाद्रवत् ॥
ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान् ।
युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः ॥
त एनमभिगर्जन्तं सहिताः समुपाद्रवन् ।
नानाशस्त्रसृजः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः ॥
दुर्योधनोऽप्यसम्भ्रान्तस्तानरीन्व्यधमच्छरैः ॥
तत्राद्भुतमपरश्याम तव पुत्रस्य पौरुषम् ।
यदेनं पाण्डवाः सर्वे न शेकुरतिवर्तितुम् ॥
नातिदूरापयातं च कृतबुद्धि पलायने ।
दुर्योधनः स्वकं सैन्यमपश्यकद्भृशविक्षतम् ॥
ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः ।
हर्षयन्निव तान्योधांस्ततो वचनमब्रवीत् ॥
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च ।
यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः ॥
स्वल्पं चैव बलं तेषां कृष्णौ च भृशविक्षतौ ।
यदि सर्वेऽपि तिष्ठामो ध्रुवं नो विजयो भवेत् ॥
विप्लयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्पिषान् ।
अनुसृत्य हनिष्यन्ति श्रेयोः न समरे वधः ॥
सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् ।
मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते ॥
शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः ।
द्विषतो भीमसेनस्य वशमेष्यथ विद्रुताः ॥
पितामहैराचरितं न धर्मं हातुमर्हथ ।
नान्यत्कर्मास्ति पापीयः क्षत्रियस्य पलायनात् ॥
न युद्वधर्माच्छ्रेयान्हि पन्थाः स्वर्गस्य कौरवाः ।
सुचिरेणार्जिताँलोकान्सद्यो युद्धात्समश्नुते ॥
तस्य तद्वचनं राज्ञः पूजयित्वा महारथाः । पुनरेवाभ्यवर्तन्त क्षत्रियाः पाण्डवान्प्रति ।
पराजयममृष्यन्त कृतचित्ताश्च विक्रमे ॥
ततः प्रववृते युद्धं पुनरेव सुदारुणम् ।
तावकानां परेषां च देवासुररणोपमम् ॥
युधिष्ठिरपुरोगांश्च सर्वसैन्येन पाण्डवान् । अन्वधावन्महाराज पुत्रो दुर्योधनस्तव ॥] ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अध्यायः ॥