अध्यायः 005

दुर्योधनेन कृपम्प्रति कारणकथनपूर्वकं सन्ध्यनङ्गीकरणम् ॥ 1 ॥

सञ्जय उवाच ।
एवमुक्तस्ततो राजा गौतमेन तपस्विना ।
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते ॥
ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः ।
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः ॥
यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् ।
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता ॥
गाहमानमनीकानि युध्यमानं महारथैः ।
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ॥
सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम् ।
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ॥
हेतुकारणसंयुक्तं हितं वचनमुत्तमम् ।
उच्यमानं महाबाहो न मे विप्राग्र्य रोचने ॥
राज्याद्विनिकृतोऽस्माभिः कथं सोस्मासु विश्वसेत् ॥
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः ।
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ॥
तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः । प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम् ।
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते ॥
विललाप च यत्कृष्णा सभामध्ये समेयुषी ।
न तन्मर्षयते कृष्णो न राज्यहरणं तथा ॥
एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ ।
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ॥
स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः ।
कृतागसो वयं तस्य हितं मे स कथं चरेत् ॥
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः ।
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ॥
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः ।
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत् ॥
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ ।
कृतवैरावुभौ वीरौ यमावपि यमोपमौ ॥
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह ।
तौ कथं मद्धिते यत्नं कुर्यातां द्विजसत्तम ॥
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला ।
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ॥
कथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः ।
न निवारयितुं शक्याः सङ्ग्रामत्ते परन्तपाः ॥
यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता । उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये ।
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम् ॥
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा ।
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ॥
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन ।
अभिमन्योर्विनाशेन स सन्धेयः कथं मया ॥
कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम् ।
पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम् ॥
उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा ।
युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत् ॥
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् ।
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ॥
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया ॥
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन ।
सुनीतमनुपश्यामि सुयुद्धेन परन्तप ॥
नायं क्लीबायितुं कालः संयोद्धुं काल एव नः ॥
इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः ।
प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्निं च स्थितम् ॥
भृत्या मे सुभृतास्तात दीनश्चाभ्यृद्भृतो जनः ।
नोत्सहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम् ॥
जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् । भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया ॥ == ॥

इति श्रीमन्महाभारते

9-5-1 9-5- 9-5- 9-5- 9-5- 9-5- 9-5- 9-5- 9-5- 9-5- 9-5-

श्रीः