अध्यायः 006

दुर्योधनेन शल्यस्य सैनापत्येऽमिषेचनम् ॥ 1 ॥ कृष्णेन युधिष्ठिरम्प्रति शल्यवधविधानम् ॥ 2 ॥

सञ्जय उवाच ।
एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् ।
दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह ॥
दुर्योधन महाबाहो शृणु वाक्यविदां वर । यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनांवरौ ।
न मे तुल्यावुभावेतौ बाहुवीर्ये कथञ्चन ॥
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम् ।
योधयेयं रणमुखे सङ्क्रुद्धः किमु पाण्डवान् ॥
विजेष्यामि रणे पार्थान्सोमकांश्च समागतान् ।
अहं सेनाप्रमेता ते भविष्यामि न संशयः ॥
तं च व्यूहं विधास्यामि न क (त) रिष्यन्ति यं परे ।
इति सत्यं ब्रवीम्येष दुर्योधन न संशयः ॥
`अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः ।
निहनिष्यामि वा राजन्स्वर्गं यास्यामि वा हतः ॥
अद्य पश्यन्तु मां लोका विचरन्तमभीतवत् ॥
अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः । पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः ।
धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः ॥
विक्रमं मम पश्यन्तु धनुषश्च महद्बलम् ।
लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि ॥
अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः ।
यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे ॥
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः ।
प्रतीकारपरा भूत्वा चेष्टन्ते विविधाः क्रियाः ॥
अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः ॥
द्रोणभीष्मावति विमो सूतपुत्रं च संयुगे ।
विचरिष्ये रणमुखे प्रियार्थं तव कौरव ॥
सञ्जय उवाच ।
एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा । अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम ।
विधिना शास्त्रदृष्टेन क्लिष्टरूपो विशाम्पते ॥
अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत् ।
तव सैन्येऽभ्यवाद्यन्त वादित्राणि च भारत ॥
हृष्टाश्चासंस्तथा योधा मद्रकाश्च महारथाः ।
तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम् ॥
जय राजंश्चिरं जीव जहि शत्रून्समागतान् । तव बाहुबलं प्राप्य धार्तराष्ट्रो महाबलः ।
निखिलां पृथिवीं सर्वां प्रशास्तु निहतद्विषम् ॥
त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान् ।
मर्त्यधर्माण इह तु किमु सृञ्जयसोमकान् ॥
एवं सम्पूज्यमानस्तु मद्राणामधिपो बली ।
हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः ॥
सञ्जय उवाच ।
अभिषिक्ते तथा शल्ये तव सैन्येषु मानद ।
न कर्णव्यसनं किञ्चिन्मेनिरे तत्र भारत ॥
हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः ।
मेनिरे निहतान्पार्थान्मद्रराजवशङ्गतान् ॥
प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ ।
तां रात्रिं सुखिता सुप्ता हर्षचित्ता च साभवत् ॥
सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः ।
वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य पश्यतः ॥
मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माघव ।
सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः ॥
एतज्ज्ञात्वा यथाभूतं कुरु माधव यत्क्षमम् ।
भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम् ॥
तमब्रवीन्महाराज वासुदेवो जनाधिपम् ।
आर्तायनिमहं जाने यथातत्त्वेन भारत ॥
वीर्यवांश्च महातेजा महात्मा च विशेषतः ।
कृती च चित्रयोधी च संयुक्तो लाघवेन च ॥
यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे ।
तादृशृस्तद्विशिष्टो वा मद्रराजो मतो मम ॥
युध्यमानस्य तस्याहं चिन्तयानश्च भारत ।
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप ॥
शिखण़्ड्यर्जुनभीमानां सात्वतस्य च भारत ।
धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे ॥
मद्रराजो महाराजः सिंहद्विरदविक्रमः ।
विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव ॥
तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहने ।
त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम् ॥
स त्वमेको हि लोकेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत् ।
मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन ॥
अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव ।
तस्माज्जहि रणे शल्यं मघवानिव शम्बरम् ॥
सौतेः पश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः । तवैव हि जयो नूनं हते मद्रेश्वरे युधि ।
तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत् ॥ एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम् ।
प्रत्युद्याहि रणे पार्थ मद्रराजं महारथम् ॥
जहि चैनं महाबाहो वासवो नमुचिं यथा ॥
न चैवात्र दया कार्या मातुलोऽयं ममेति वै ।
क्षत्रवर्म पुरस्कृत्य जहि मद्रजनेश्वरम् ॥
द्रोणभीष्मार्णवं तीर्त्वा कर्णपातालसम्भवम् । मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम् ।
यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव ।
तद्दर्शय रणे सर्वं जहि चैनं महारथम् ॥
सञ्जय उवाच ।
एतावदुक्त्वा वचनं केशवः परवीरहा ।
जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः ॥
केशवे तु तदा याते धर्मपुत्रो युधिष्ठिरः । विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान् ।
सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः ॥
ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा ।
कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा ॥
गतज्वरं महेष्वासं तीर्णपारं महारथम् । बभूव पाण्डवेयानां सैन्यं च मुदितं निशि ।
सूतपुत्रस्य निधनाज्जयं लब्ध्वा च मारिष ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि षष्ठोऽध्यायः ॥ 6 ॥

9-6-14 क्लिष्टरूपः पराजयनिश्चयात् ॥ 9-6-18 मर्त्यधर्माणः मर्त्यधर्मणः ॥ 9-6-6 षष्ठोऽध्यायः ॥

श्रीः