अध्यायः 013

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः ।
तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः ॥
द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः । तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनञ्जयः ।
भूयश्चैव महाराज शरवर्षैरवाकिरत् ॥
शरकण्टकितास्ते तु तावका भरतर्षभ ।
न जहुः पार्थमासाद्य ताड्यमानाः शितैः शरैः ॥
अर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः ।
परिवार्य मुदा युक्ता योधयन्तश्चकाशिरे ॥
तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः ।
अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा ॥
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम् ।
विव्यधुश्च शरैर्घोरैः प्रहृष्टा युद्धदुर्मदाः ॥
कूबरं रथचक्राणि ईषा योक्त्राणि वा विभो ।
युगं चैवानुकर्षं च शरभूतमभूत्तदा ॥
नैतादृशं दृष्टपूर्वं राजन्नेव च नः श्रुतम् ।
यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे ॥
स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः ।
उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले ॥
ततोऽर्जुनो महाराज शरैः सन्नतपर्वभिः ।
अवाकिरत्तां पृतनां मेघो धृष्ट्येव पर्वतम् ॥
ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः ।
पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् ॥
कोपोद्धूतशरज्वालो धनुःशब्दानिलो महान् ।
सैन्येन्धनं ददाहाशु तावकं पार्थपावकः ॥
चक्राणां पततां चापि युगानां च धरातले ।
तूणीराणां पताकानां ध्वजानां च रथैः सह ॥
ईषाणामनुकर्षाणां त्रिवेणूनां च भारत ।
अक्षाणामथ योक्त्राणां प्रतोदानां च राशयः ॥
शिरसां पततां चापि कुण्डलोष्णीषधारिणाम् ।
भुजानां च महाभाग स्कन्धानां च समन्ततः ॥
छत्राणां व्यजनैः सार्धं मकुटानां च राशयः ।
समदृश्यन्त पार्थस्य रथमार्गेषु भारत ॥
अगम्यरूपा पृथिवी मांसशोणितकर्दमा । भीरूणां त्रासजननी शूराणां हर्षवर्धिनी ।
बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा ॥
हत्वा तु समरे पार्थः सहस्रे द्वे परन्तपः ।
रथानां सवरूथानं विधूमोऽग्निरिव ज्वलन् ॥
यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम् ।
विधूमो दृश्यते राजंस्तथा पार्थो धऩञ्जयः ॥
द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम् ।
रथेनातिपताकेन पाण्डवं प्रत्यवारयत् ॥
तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ ।
समीयतुस्तदाऽन्योन्यं परस्परवधैषिणौ ॥
तयोरासीन्महाराज बाणवर्षं सुदारुणम् ।
जीमूतयोर्यथा वृष्टिस्तपान्ते भरतर्षभ ॥
अन्योन्यस्पर्धिनौ तौ तु शरैः सन्नतपर्वभिः ।
ततक्षतुस्तदाऽन्योन्यं शृङ्गाभ्यां वृषभाविव ॥
तयोर्युद्धं महाराज चिरं सममिवाभवत् ।
शस्त्राणां सङ्गमश्चैव घोरस्तत्राभवत्पुनः ॥
ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः ।
वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत ॥
ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः ।
मानयित्वा मुहूर्तं तु गुरुपुत्रं महाहवे ॥
व्यश्वसूतरथं चक्रे सव्यसाची परन्तपः ।
मृदुपूर्वं ततश्चैनं पुनःपुनरताडयत् ॥
हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम् ।
मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् ॥
तमापतन्तं सहसा हेमपट्टविभूषितम् ।
चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः ॥
स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः । आददे परिघं घोरं नगेन्द्रशिखरोपमम् ।
चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः ॥
तमन्तकमिव क्रुद्दं परिघं प्रेक्ष्य पाण्डवः ।
अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः ॥
स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे ।
दारयन्पृथिवीन्द्राणां मनः सब्देन भारत ॥
ततोऽपरैस्त्रिभिर्भल्लैर्द्रौणिं विव्याध पाण़्डवः ॥
सोऽतिविद्धो बलवता पार्थेन सुमहात्मना ।
नाकम्पत तदा द्रौणिः पौरुषेषु व्यवस्थितः ॥
सुरथं च ततो राजन्भारद्वाजो महारथम् ।
अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः ॥
ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः ।
रथेन मेघघोषेण द्रौणिमेवाभ्यधावत ॥
विकर्षन्वै धनुःश्रेष्ठं सर्वभारसहं दृढम् ।
ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् ॥
सुरथं तं ततः क्रुद्धमापतन्तं महारथम् ।
चुकोप समरे द्रौणिर्दण्डाहत इवोरगः ॥
त्रिशिखां भ्रुकुटीं कृत्वा सृक्विणी परिसंलिहन् । उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च ।
मुमोच तीक्ष्णं नाराचं यमदण्डोपमद्युतिम् ॥
स तस्य हृदयं भित्त्वा प्रविवेशातिवेगितः ।
शक्ताशनिरिवोत्सृष्टो विदार्य धरणीतलम् ॥
ततः स पतितो भूमौ नाराचेन समाहतः ।
वज्रेण च यथा शृङ्गं पर्वतस्येव दीर्यतः ॥
तस्मिन्विनिहते वीरे द्रोणपुत्रः प्रतापवान् ।
आरुरोह रथं तूर्णं तमेव रथिनां वरः ॥
ततः सज्जो महाराज द्रौणिराहवदुर्मदः ।
अर्जुनं योधयामास संशप्तकवृतो रणे ॥
तत्र युद्धं महच्चासीदर्जुनस्य परैः सह ।
मध्यन्दिनगते सूर्ये यमराष्ट्रविवर्धनम् ॥
तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् ।
यदेको युगपद्वीरान्समयोधयदर्जुनः ॥
विमर्दः सुमहानासीदर्जुनस्य परैः सह ।
शतक्रतोर्यथापूर्वं महत्या दैत्यसेनया ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे त्रयोदशोऽध्यायः ॥ 13 ॥

श्रीः