अध्यायः 014

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः ।
चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् ॥
ततो राजन्समापेतुः शरधाराः सहस्रशः ।
अम्बुदानां यथा काले जलधाराः समन्ततः ॥
राजा च पार्षतं विद्ध्वा शरैः पञ्चभिराशुगैः ।
द्रोणहन्तारमुग्रेषुं पुनर्विव्याध सप्तभिः ॥
धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः ।
सप्तत्या विशिखानां वै दुर्योधनमपीडयत् ॥
पीडितं वीक्ष्य राजानं सोदर्या भरतर्षभ ।
महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् ॥
स तैः परिवृतः शूरः सर्वतोऽतिरथै र्भृशम् ।
व्यचरत्समरे राजन्दर्शयन्नस्त्रलाघवम् ॥
शिखण्डी कृतवर्माणं गौतमं च महारथम् ॥
प्रभद्रकैः समायुक्तो योधयामास धन्विनौ ॥
तत्रापि सुमहद्युद्धं घोररूपं विशाम्पते ।
प्राणान्सन्तजतां युद्धे प्राणद्यूताभिदेवने ॥
शल्यः सायकवर्षाणि विमुञ्जन्सर्वतोदिशम् ।
पाण्डवान्पीडयामास ससात्यकिवृकोदरान् ॥
तथा तौ तु यमौ यमतुल्यपराक्रमौ ।
योधयामास राजेन्द्र वीर्येणास्त्रबलेन च ॥
शल्यसायकनुन्नानां पाण्डवानां महामृधे ।
त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः ॥
ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते ।
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः ॥
सञ्छाद्य समरे वीरं नकुलः परवीरहा ।
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे ॥
सर्वपारसवैर्बाणैः कर्मारपरिमार्जितैः ।
स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः ॥
शल्यस्तु पीडितस्तेन स्वस्रीयेण हि मातुलः ।
नकुलं पीडयामास पत्रिभिर्नतपर्वभिः ॥
ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः ।
सहदेवश्च माद्रेणो मद्रराजमुपाद्रवन् ॥
तानापतत एवाशु पूरयाणान्रथस्वनैः । दिशश्च विदिशश्चैव कम्पयानांश्च मेदिनीम् ।
प्रतिजग्राह समरे सेनापतिरमित्रजित् ॥
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च पञ्चभिः ।
सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः ॥
ततस्तु सशरं चापं नकुलस्य महात्मनः ।
मद्रेश्वरः क्षुरप्रेण मध्ये चिच्छेद मारिष ॥
तदपास्य धनुश्छिन्नं ततः शल्यस्य सायकैः । अथान्यद्धनुरादाय माद्रीपुत्रो महारथः ।
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः ॥
युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष ।
दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् ॥
भीमसेनस्तु तं षष्ट्या सात्यकिर्दशभिः शरैः ।
मद्रराजमभिद्रुत्य जघ्नतुः xxङ्कपत्रिभिः ॥
मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः ।
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् ॥
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष ।
हयांश्च चतुरः सङ्ख्ये प्रेषयामास मृत्यवे ॥
विरथं सात्यकिं कृत्वा मद्रराजो महारथः ।
विशिखानां शतेनैनमाजघान समन्ततः ॥
माद्रीपुत्रं च संरब्धो भीमसेनं च पाण्डवम् ।
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः ॥
तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् ।
यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे ॥
अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः । पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् ।
अभिदुद्राव वेगेन मद्राणामधिपं बलात् ॥
आपतन्तं रथं तस्य शल्यः समितिशोभनः ।
प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् ॥
स सन्निपातस्तुमुलो बभूवाद्भुतदर्शनः । सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च ।
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः ॥
सात्यकिः प्रेक्ष्य समरे मद्रराजमवस्थितम् ।
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् ॥
मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना ।
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः ॥
ततः पार्था महेष्वासाः सात्वताऽभिसृतं नृपम् ।
अभ्यवर्तन्रथैस्तूर्णं मातुलं वधकाङ्क्षया ॥
तत आसीत्परामर्दस्तुमुलः शोणितोदकः ।
शूराणां युध्यमानानां सिंहानामिव नर्दताम् ॥
तेषामासीन्महाराज व्यधिक्षेपः परस्परम् ।
सिंहानामामिषेप्सूनां कूजतामिव संयुगे ॥
तेषां बाणसहस्रौघैराकीर्णा वसुधाऽभवत् ।
अन्तरिक्षं च सहसा बाणभूतमभूत्तदा ॥
शरान्धकारं सहसा कृतं तेन समन्ततः ।
अभ्रच्छायेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः ॥
तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नैगः ।
स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तदा ॥
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः ।
यदेकः समरे शूरो योधयामास वै बहून् ॥
मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः ।
सम्पतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी ॥
तत्र शल्यरथं राजन्विचरन्तं महाहवे ।
अपश्याम यथापूर्वं शक्रस्यासुरसंक्षये ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे चतुर्दशोऽध्यायः ॥ 14 ॥

श्रीः