अध्यायः 017

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
शल्येऽथ निहते राजन्मद्रराजपदानुगाः ।
रथाः सप्तशता वीरा दुद्रुवुर्महतो बलात् ॥
दुर्योधनस्तु द्विरदमारुह्याचलसन्निभम् । छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः ।
न गन्तव्यं न गन्तव्यमिति मद्रानवारयत् ॥
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः ।
युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम् ॥
ते तु शूरा महाराज कृतचित्ताश्च योधने ।
धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः ॥
श्रुत्वा च निहतं शल्यं धर्मपुत्रं च पीडितम् ।
मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः ॥
आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः ।
पूरयन्रथघोषेण दिशः सर्वा महारथः ॥
ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ ।
सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः ॥
धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः ।
युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन् ॥
ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभैः । क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा ।
वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः ॥
पुरोवातेन गङ्गेव--क्षोभ्यमाणा महानदी ।
अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी ततः ॥
प्रस्कन्द्य सेनां महतीं महात्मानो महारथाः । बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः ।
भ्रातरो वाऽस्य ते शूरा दृश्यन्ते नेह केचन ॥
धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः ।
पाञ्चालाश्च महावीर्याः शिखण्डी च महारथः ॥
एवं तान्वादिनः शूरान्द्रौपदेया महारथाः ।
अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान् ॥
चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः ।
सम्प्रदृश्यन्त समरे तावका निहताः परैः ॥
आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः ।
वार्यमाणा ययुर्वेगात्पुत्रेण तव भारत ॥
दुर्योधनश्च तान्वीरान्वारयामास सान्त्वयन् ।
न चास्य शासनं केचित्तत्र चक्रुर्महारथाः ॥
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् ।
दुर्योधनं महाराज वचनं वचनक्षमम् ॥
किं नः सम्प्रेक्षमाणानां मद्राणां हन्यते बलम् ।
न युक्तमेतत्समरे त्वयि तिष्ठति भारत ॥
सहितैर्नाम योद्धव्यमित्येष समयः कृतः ।
अथ कस्मात्स्मरन्नेव घ्नतो मर्षयसे नृप ॥
दुर्योधन उवाच ।
वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम ।
एते विनिहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् ॥
शकुनिरुवाच ।
न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः ।
अलं क्रोद्वुमथैतेषां नायं काल उपेक्षितुम् ॥
यामः सर्वेऽत्र सम्भूय सवाजिरथकुञ्जराः ।
परित्रातुं महेष्वासान्मद्रराजपदानुगान् ॥
अन्योन्यं परिरक्षामो यत्नेन महता नृप ।
एवं सर्वेऽनुसञ्चिन्त्य प्रययुर्यत्र सैनिकाः ॥
सञ्जय उवाच ।
एवमुक्तस्तदा राजा बलेन महता वृतः ।
प्रययौ सिंहनादेन कम्पयन्निव मेदिनीम् ॥
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत ।
इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत ॥
पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान् ।
सहितानभ्यवर्तन्तं गुल्ममास्थाय मध्यमम् ॥
ते मुहूर्ताद्रणे वीरा हस्ताहस्ति विशाम्पते ।
निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः ॥
ततो नः सम्प्रयातानां हता मद्रास्तरस्विनः ।
हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे ॥
अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः ।
पपात महती चोल्का मध्येनादित्यमण्डलम् ॥
रथैर्भग्नयुगाक्षैश्च निहतैश्च महारथैः ।
अश्वैर्निपातितैश्चैव सञ्छन्नाऽभूद्वसुन्धरा ॥
वातायमानैस्तुरगैर्युगासक्तैस्ततस्ततः ।
अकृष्यन्त महाराज योधास्तत्र रणाजिरे ॥
भग्नचक्रान्रथान्केचिदहरंस्तुरगा रणे । रथार्धं केचिदादाय दिशो दश विबभ्रमुः ।
तत्रतत्र व्यदृश्यन्त योक्त्रैः श्लिष्टाः स्म वाजिनः ॥
रथिनः पतमानाश्च दृश्यन्ते स्म नरोत्तमाः ।
गगनात्प्रच्युताः सिद्धाः पुण्यानामिव सङ्क्षये ॥
निहतेषु च शूरेषु मद्रराजानुगेषु वै ।
अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः ॥
अभ्यवर्तन्त वेगेन जयगृद्धाः प्रहारिणः ।
बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिःस्वनैः ॥
अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः ।
शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः ॥
ततो हतमभिप्रेक्ष्य मद्रराजबलं महत् । मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् ।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥
वध्यमानं महाराज पाण्डवैर्जितकाशिभिः ।
दिशो भेजेऽथ सम्भ्रान्तं त्रासितं दृढधन्विभिः ॥ ॥

इति श्रीमन्महाभारते शल्यवपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे सप्तदशोऽध्यायः ॥ 17 ॥

9-17-20 प्रस्कन्नाः प्रपन्नाः ॥ 9-17-17 सप्तदशोऽध्यायः ॥

श्रीः