अध्यायः 022

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
वर्तमाने तदा युद्धे घोररूपे भयानके ।
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः ॥
तांस्तु सर्वानयन्तेन सन्निवार्य महारथाः ।
पुत्रास्ते योधयामासुः पाण्डवानामनीकिनीम् ॥
निवृत्ताः सहसा योधास्तव पुत्रजयैपिणः । सन्निवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम् ।
तावकानां परेषां च देवासुररणोपभम् ॥
परेषां तावकानां च नासीत्कश्चित्पराङ्मुखः ॥
अनुमानेन युध्यन्ते सञ्ज्ञाभिश्च परस्परम् ।
तेषां क्षयो महानासीद्युध्यतामितरेतरम् ॥
ततो युधिष्ठिरो राजा क्रोधेन महता युतः ।
जिगीषमाणः सङ्ग्रामे धार्तराष्ट्रान्सराजकान् ॥
त्रिभिः शारद्वतं विद्व्वा रुक्मपुङ्खैः शिलाशितैः ।
चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः ॥
अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् ।
अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् ॥
ततो दुर्योधनो राजा रथान्सप्तशतान्रणे ।
प्रैषयद्यत्र राजाऽसौ धर्मपुत्रो युधिष्ठिरः ॥
ते रथा रथिभिर्युक्ता मनोमारुतरंहसः ।
अभ्यद्रवन्त सङ्ग्रामे कौन्तेयस्य रथं प्रति ॥
ते समन्तान्महाराज परिवार्य युधिष्ठिरम् ।
अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम् ॥
तं दृष्ट्वा धर्मराजानं कौरवेयैस्तथावृतम् ।
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः ॥
रथैरश्ववरैर्युक्तैः किङ्किणीजालसंवृतैः ।
आजग्मुरथ रक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् ॥
ततः प्रववृते रौद्रः सङ्ग्रामः शोणितोदकः ।
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः ॥
रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम् ।
पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन् ॥
तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः ।
न च तत्तादृशं दृष्टं नैव चापि परिश्रुतम् ॥
वर्तमाने तदा युद्धे निर्मर्यादे समन्ततः ।
वध्यमानेषु योधेषु तावकेष्वितरेषु च ॥
विनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः ।
उत्क्रुष्टैः सिंहनादैश्च गर्जितैश्चैव धन्विनाम् ॥
अतिप्रवृत्ते युद्धे च छिद्यमानेषु मर्मसु ।
धावमानेषु योधेषु जयगृद्धिषु मारिष ॥
संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे ।
वह्नीनामुत्तमस्त्रीणां सीमन्तोद्धरणे कृते ॥
निर्मर्यादे महायुद्धे वर्तमाने सुदारुणे ।
प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः ॥
चचाल शब्दं कुर्वाणा सपर्वतवना मही ।
सदण्डाः सोल्मुका राजन्कीर्यमाणाः समन्ततः ॥
उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् ।
विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः ॥
अश्रूणि मुमुचुर्नागा वेपथुं चास्पृशन्भृशम् ।
एतान्धोराननादृत्य समुत्पातान्सुदारुणान् ॥
पुनर्युद्धाय संयत्ताः क्षत्रियास्तस्थुरव्यथाः ।
रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः ॥
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् ।
युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान् ॥
ततो नः सम्प्रायातानां मद्रयोधास्तरस्विनः ।
हृष्टाः किलाकिलाशब्दमकुर्वत परे तथा ॥
अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः ।
शरासनानि धुन्वन्तः शरवर्षैरवाकिरन् ॥
ततो हतं परैस्तत्र मद्रराजबलं तदा ।
दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम् ॥
गान्धारराजस्तु पुनर्वाक्यमाह ततो बली ।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥
अनीकं दशसाहस्रमश्वानां भरतर्षभ ।
आसीद्गान्धारराजस्य विशालप्रासयोधिनाम् ॥
बलेन तेन विक्रम्य वर्तमाने जनक्षये ।
पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः ॥
तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः ।
अभज्यत महाराज पाण्डूनां सुमहद्बलम् ॥
ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात् ।
अभ्यनोदयदव्यग्रः सहदेवं महाबलम् ॥
असौ सुबलपुत्रो नो जघनं पीड्य दंशितः ।
सैन्यानि सूदयत्येष पश्य पाण्डव दुर्मतिः ॥
गच्छ त्वं द्रौपदेयैश्च शकुनिं सौबलं जहि ।
रथानीकमहं धक्ष्ये पाञ्चालसहितोऽनघ ॥
गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया ।
पादाताश्च त्रिसाहस्राः शकुनिं तैर्वृतो जहि ॥
ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः ।
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान् ॥
पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः ।
रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम् ॥
ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान् ।
जघान पृष्ठतः सेनां जयगृद्वः प्रतापवान् ॥
अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम् ।
प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान् ॥
ते तत्र सादिनः शूराः सौबलस्य महद्बलम् ।
रणमध्ये व्यतिष्ठन्त शरवर्षैरवाकिरन् ॥
तदुद्यतगदाप्रासमकापुरुषसेवितम् ।
प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव ॥
उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन् ।
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत ॥
शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ ।
ज्योतिषामिव सम्पातमपश्यन्कुरुपाण्डवाः ॥
ऋष्टिभिर्विमलाभिश्च तत्रतत्र विशाम्पते ।
सम्पतन्तीभिराकाशमावृतं बह्वशोभत ॥
प्रासानां पततां राजन्रूपमासीत्समन्ततः ।
शलभानामिवाकाशे तदा भरतसत्तम ॥
रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः ।
हयाः परिपतन्तिस्म शतशोऽथ सहस्रशः ॥
अन्योन्यं परिपिष्टाश्च समासाद्य परस्परम् ।
सुविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः ॥
ततोऽभवत्तमो घोरं सैन्येन रजसा वृतम् ।
तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिन्दम ॥
अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति ।
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु ॥
केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः ।
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः ॥
मल्ला इव समासाद्य निजघ्नुरितरेतरम् ।
अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः ॥
भूमौ निपतिताश्चान्ये बहवो विजयैषिणः ।
तत्रतत्र व्यदृश्यन्त पुरुषाः शूरमानिनः ॥
रक्तोक्षितैश्छिन्नभुजैरवकृष्टशिरोरुहैः ।
व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः ॥
दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित् ।
साश्वारोहैर्हतैरश्वैरावृते वसुधातले ॥
रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः । नानाप्रहरणैर्घोरैः परस्परवधैषिभिः ।
सुसन्निकृष्टे सङ्ग्रामे हतभूयिष्ठसैनिके ॥
स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशाम्पते ।
षट््साहस्रैर्हयैः शिष्टेरपायाच्छकुनिस्ततः ॥
तथैव पाण्डवानीकं रुधिरेण समुक्षितम् ।
षट््साहस्रैर्हयैः शिष्टेरपायाच्छ्रान्तवाहनम् ॥
अश्वारोहाश्च पाण्डूनामब्रुवन्रुधिरोक्षिताः ।
सुसन्निकृष्टे सङ्ग्रामे भूयिष्ठे त्यक्तजीविताः ॥
न हि शक्यं रथैर्योद्धुं कुत एव महागजैः ।
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि ॥
प्रतियातो हि शकुनिः स्वमनीकमवस्थितः ।
न पुनः सौबलो राजा योद्धुमभ्यागमिष्यति ॥
ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः ।
प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः ॥
सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते ।
एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः ॥
ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः ।
पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् ॥
तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाऽभ्यवर्तत ।
तावकानां परेषां च परस्परवधैषिणाम् ॥
ते चान्योन्यमवैक्षन्त तस्मिन्वीरसमागमे ।
योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः ॥
असिभिश्छिद्यमानानां शिरसां लोकसंक्षये ।
प्रादुरासीन्महाञ्शब्दस्तालानां पततामिव ॥
विमुक्तानां शरीराणां छिन्नानां पततां भुवि । सायुधानां च बाहूनामूरूणां च विशाम्पते ।
आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः ॥
निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि ।
योधाः परिपतन्ति स्म यथाऽऽमिषकृते खगाः ॥
अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम् ।
अहम्पूर्वमहम्पूर्वमिति निघ्नन्सहस्रशः ॥
संयातेनासनभ्रष्टैरश्वारोहैर्गतासुभिः ।
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः ॥
स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रगामिनाम् ।
स्तनतां च मनुष्याणां सन्नद्धानां विशाम्पते ॥
शक्त्यृष्टिप्रासशब्दश्च तुमुलः समपद्यत ।
भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव ॥
श्रमाभिभूताः संरब्धा श्रान्तवाहाः पिपासवः ।
विक्षताश्च शितैः शस्त्रैरभ्यवर्न्तत तावकाः ॥
मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः ।
जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान् ॥
बहवश्च गतप्राणाः क्षत्रिया जयगृद्विनः ।
भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः ॥
वृकगृध्रशृगालानां तुमुले मोदनेऽहनि ।
आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः ॥
नराश्वकायैः सञ्छन्ना भूमिरासीद्विशाम्पते ।
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी ॥
असिभिः पट्टसैः शूलैस्तक्षमाणाः पुनःपुनः ।
तावकाः पाण़्वेयाश्च न न्यवर्तन्त भारत ॥
प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम् ।
योधाः परिपतन्ति स्म वमन्तो रुधिरं मुखैः ॥
शिरो गृहीत्वा केशेषु कबन्धः स प्रदृश्यते ।
उद्यम्य च शितं खङ्गं रुधिरेण परिप्लुतम् ॥
तथोत्थितेषु बहुषु कबन्धेषु नराधिप ।
तथा रुधिरगन्धेन योधाः कश्मलमाविशन् ॥
मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम् ।
अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः ॥
ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्विनः ।
पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः ॥
कोष्ठकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः ।
शस्त्रैर्नानाविधैर्जघ्नुर्युद्वपारं तितीर्षवः ॥
त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान् ।
रथाश्वपत्तिद्विरदाः पाण्डवानभिदुद्रुवुः ॥
केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम् ।
निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन् ॥
रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः ।
विमानेभ्यो दिवो भ्रष्टाः सिद्वाः पुण्यक्षयादिव ॥
एवमन्योन्यमायत्ता योधा जघ्नुर्महाहवे ।
पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथा परे ॥
एवमासीदमर्यादं युद्वं भरतसत्तम ।
प्रासासिबाणकलिलं वर्तमाने सुदारुणे ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे द्वाविंशोऽध्यायः ॥ 22 ॥

श्रीः