अध्यायः 026

कृष्णार्जुनयोः संवादः ॥ 1 ॥ सङ्कुलयुद्धम् ॥ 2 ॥ भीमेन सुदर्शननाम्नो दुर्योधनानुजस्य वधः ॥ 3 ॥

सञ्जय उवाच ।
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः ।
हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ ॥
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् ।
उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जयम् ॥
शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः ।
गृहीत्वा सञ्जयं चासौ निवृत्तः शिनिपुङ्गवः ॥
परिश्रान्तश्च नकुलः सहदेवश्च भारत ।
योधयित्वा रणे पापान्धार्तराष्ट्रान्सहानुगान् ॥
दुर्योधनमतिक्रम्य त्रय एते व्यवस्थिन्ताः ।
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥
असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः ।
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः ॥
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः ।
छत्रेण ध्रियामणेन प्रेक्षमाणो मुहुर्मुहुः ॥
प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः ।
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि ॥
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिन्दम ।
यावन्न विद्रवन्त्येते तावज्जहि सुयोधन्सम् ॥
यातु कश्चित्तुं पाञ्चाल्यं क्षिप्रमागम्यतामिति ।
परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी ॥
हत्वा तव बलं सर्वं सङ्ग्रमे धृतराष्ट्रजः ।
जितान्पाण्डुसुतान्प्रत्वा रूपं धारयते महत् ॥
निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः ।
ध्रुवमेष्यति सङ्ग्रमे वधायैवात्मनो नृपः ॥
एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत् । धृतराष्ट्रसुताः सर्वे हता भीमेन माधव ।
यावेतावास्थितौ कृष्ण तावद्य नभविष्यतः ॥
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः ।
मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः ॥
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च । रथानां तु शते शिष्टे द्वे एव तु जनार्दन ।
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः ॥
अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा ।
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः ॥
एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव ।
मोक्षो न नूनं कालात्तु विद्यते भुवि कस्यचित् ॥
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् । अद्याह्ना हि महाराजो हतामित्रो भविष्यति ।
न हि मे मोक्ष्यते कश्चित्परेषामिह चिन्तये ॥
ये त्वद्य समरं कृष्ण न हास्यन्ति मदोत्कटाः ।
तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः ॥
अद्य युद्धे समुत्पन्नं दीर्घं राज्ञः प्रजागरम् ।
अपनेष्यामि गान्धारिं घातयित्वा शितैः शरैः ॥
निकृत्या वै दुराचारो यानि रत्नानि सौबलः ।
सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् ॥
अद्य वेत्स्यन्ति मच्छक्तिं सर्वा नागपुरे स्त्रियः ।
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि ॥
समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति ।
अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च मोक्ष्यति ॥
नापयाति भयात्कृष्ण सङ्ग्रामाद्यदि चेन्मम ।
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् ॥
मम ह्येतदपर्याप्तं वाजिबृन्दमरिन्दम ।
सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् ॥
सञ्जय उवाच ।
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना ।
अचोदयद्धायन्राजन्दुर्योधनबलं प्रति ॥
तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः । भीमसेनोऽकर्जुनश्चैव सहदेवश्च मारिष ।
प्रययुः सिंहनादेन दुर्योधनजिघांसया ॥
तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् ।
सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः ॥
सुदर्शनस्त्व मतो भीमसेनं समभ्ययात् ।
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना ॥
सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् ॥
ततो हि यत्नतः क्षिप्रं तवं पुत्रो जनाधिप ।
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ॥
सोपाविशद्रथोपस्थे तव सुत्रेण ताडितः ।
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् ॥
प्रतिलभ्य ततः सञ्ज्ञां सहदेवो विशाम्पते ।
दुर्योधनं शरैस्तीक्ष्णैः सङ्क्रुद्धः समवाकिरत् ॥
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जयः ।
शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ॥
तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः ।
पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ ॥
ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः ।
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् ॥
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः ।
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ॥
शिलाशितेन च विभो क्षुरप्रेण महायशाः ।
शिरश्चिच्छेद सहसा तप्तकुण्डलभूषणम् ॥
सत्येषुमथ चादत्त योधानां मिषतां ततः ।
यथा सिंहो वने राजन्मृगं परि बुभुक्षितः ॥
तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः ।
विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूओषितान् ॥
ततः प्रायात्त्वरन्पार्थो दीर्घकालं सुसंवृतम् ।
मुञ्जन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति ॥
तमर्जुनः पृषत्कानां शतेन भरतर्षभ ।
पूरयित्वा ततो वाहान्प्राहरत्तस्य धन्विनः ॥
ततः शरं समादाय यमदण्डोपमं तदा ।
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव ॥
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना ।
सुशर्माणं समासाद्य बिभेद हृदयं रणे ॥
स गतासुर्महाराज पपात धरणीतले ।
नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् ॥
सुशर्माणं रणे हत्वा पुत्रानस्य महारथान् ।
सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् ॥
ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान् ।
अभ्यगाद्भारतीं सेनां हतशेषां महारथः ॥
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप ।
सुदर्शनमदृश्यन्तं शरैश्चक्रे हसन्निव ॥
ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत् ।
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि ॥
तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः ।
परिवव्रू रमे भीमं किरन्तो विविधाञ्शरान् ॥
ततस्तु निशितैर्बाणैस्तवानीकं वृकोदरः ।
इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् ॥
ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ ॥
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महारथाः ।
भीमसेनं समासाद्य ततोऽयुध्यन्त भारत ॥
स तान्सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः । तथैव तावका राजन्पाण्डवेयान्महारथान् ।
शरवर्षेण महता समन्तात्पर्यवारयन् ॥
व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह ।
तावकानां च समरे पाण्डवेंयैर्युयुत्सताम् ॥
तत्र योधास्तदा पेतुः परस्परसमाहताः ।
उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे षड्विंशोऽध्यायः ॥ 26 ॥

9-26-17 मोक्षो नूनं कालसृष्टः इति क.पाठः ॥ 9-26-26 षड्विंशोऽध्यायः ॥

श्रीः