अध्यायः 034

xxxxxxxxxx ॥ 1 ॥ तस्मिन्पाण्ढवादिभिरर्चितोपविष्टे पुनर्गदायुद्धारम्भः ॥ 2 ॥

सञ्जय उवाच ।
xxxxxxxxxxxसुसंवृत्ते सुदारुणे ।
xxxxxxxxxxx पाण्डवेषु महात्मसु ॥
ततस्तालध्वजके रामस्तयोर्युद्ध उपस्थिते ।
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः ॥
तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः ।
उपगम्योपसङ्गृह्य विधिवत्प्रत्यपूजयन् ॥
पूजयित्वा ततः पश्चादिदं वचनमब्रुवन् ।
शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव ॥
अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं सपाण्डवम् ।
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम् ॥
राम उवाच ।
चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै । पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः ।
शिष्ययोर्वै गदायुद्धं द्रुष्टुकामोऽस्मि माधव ॥
ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् ।
स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम् ॥
कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम् ।
सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ ॥
माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः ।
अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम् ॥
भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप ।
तथैव चोद्यतगदौ पूजयामासतुर्बलम् ॥
स्वागतेन च ते तत्र प्रतिपूज्य पुनःपुनः ।
पश्य युद्धं महाबाहो इति ते राममब्रुवन् ॥
एवमुचुर्महात्मानं रौहिणेयं नराधिपाः ॥
परिष्वज्य तदा रामः पाण्डवान्सह सृञ्जयान् । अपृच्छत्कुशलं सर्वान्पार्थिवांश्चामितौजसः ।
तथैव ते समासाद्य पप्रच्छुस्तमनामयम् ॥
प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महात्मनः ।
कृत्वा कुशलसम्प्रश्नं संविदं च यथावयः ॥
जनार्दनं सात्यकिं च प्रेम्णा सम्परिषस्वजे ।
मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत ॥
तौ च तं विधिवद्राजन्पूजयामासतुर्गुरुम् ।
ब्रह्माणामिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ ॥
ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिन्दमम् ।
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत ॥
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः ।
न्यविशत्परमप्रीतः पूज्यमानो महारथैः ॥
स बभौ राजमध्यस्थो नीलवासाः सितप्रभः ।
दिवीव नक्षत्रगणैः परिवीतो निशाकरः ॥
ततस्तयोः सन्निपातस्तुमुलो रोमहर्षणः ।
आसीदन्तकरो राजन्वैरस्यान्तं विधित्सतोः ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवशपर्वणि अष्टादशदिवसयुद्धे चतुस्त्रिंशोऽध्यायः ॥ 34 ॥

श्रीः