अध्यायः 001

सञ्जयधृतराष्ट्रयोः संलापः ॥ 1 ॥ द्रौणिकृपकृतवर्मभिर्वनमध्यमेत्य न्यग्रोधस्याधस्तादुपवेशनम् ॥ 2 ॥ तत्र रात्रौ घूकेन बहुकाकावधदर्शिना द्रौणिना तद्वत्स्वेनापि पाण्डववधनिर्धारणम् ॥ 3 ॥ ततः कृपकृतवर्माणौ समुद्बौध्य स्वकर्तव्यकथनप्रार्थना ॥ 4 ॥

श्रीवेदव्यासाय नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
सञ्जय उवाच ।
ततस्ते सहिताः सर्वे प्रयाता दक्षिणामुखाः ।
उपास्तमयवेलायां शिबिराभ्याशमागताः ॥
विमुच्य वाहांस्त्वरिता भीताः समनुबोधनात् ।
गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ॥
सेनानिवेशमभितो नातिदूरमवस्थिताः । [निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः ।]
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् ॥
श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ।
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः ॥
ते मुहूर्तात्ततो गत्वा श्रान्तवाहा पिपासिताः ।
नामृष्यन्त महेष्वासाः क्रोधामर्षवशङ्गताः ॥
राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः ॥
धृतराष्ट्र उवाच ।
अश्रद्धेयमिदं कर्म कृतं मीमेन सञ्जय ।
यत्स नागायुतप्राणः पुत्रो मम निपातितः ॥
अवध्यः सर्वभूतानां वज्रसंहननो युवा ।
पाण्डवैः समरे पुत्रो निहतो मम निपातितः ॥
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः ।
यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः ॥
अद्रिसारमयं नूनं हृदयं मम सञ्जय ।
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा ॥
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति ।
न ह्यहं पाण्डुपुत्रस्य विषये वस्तुमुत्सहे ॥
कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय ।
प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् ॥
प्रभुज्य पृथिवीं सर्वां स्थिता मूर्धनि सञ्जय । कथमद्य भविष्यामि श्रोतुं शक्ष्यामि सञ्जय ।
येन पुत्रशतं पूर्णमेकेन निहतं मम ॥ कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः ।
अकुर्वता वचस्तस्य मम पुत्रेण सञ्जय ॥ अधर्मेण हते तात पुत्रे दुर्योधने मम ।
कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय ॥
सञ्जय उवाच ।
गत्वा तु तावका राजन्नातिदूरं मनस्विनः ।
अपश्यन्त वनं घोरं नानाद्रुमलतावृतम् ॥
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः ।
सूर्यास्तमयवेलायां कौरवेयस्य शासनात् ॥
नानामृगगणैर्जुष्टं नानापक्षिभिराकुलम् ।
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् ॥
नानातोयसमाकीर्णैस्तटाकैरुपशोभितम् ।
पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम् ॥
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः ।
शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः ॥
उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः ।
ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ॥
तेऽवतीर्य रथेभ्यश्च विप्रमुच्य च वाजिनः ।
उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो ॥
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे ।
सर्वस्य जगतो धात्री शर्वरी प्रत्यपद्यत ॥
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम् ।
नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः ॥
इच्छया ते प्रवल्गन्ति ये सत्वा रात्रिचारिणः ।
दिवाचराश्च ये सत्वास्ते निद्रावशमागताः ॥
रात्रिञ्चराणां सत्वानां निनादोऽभूत्सुदारुणः ।
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ॥
तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः ।
कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् ॥
उपोपविष्टाः शोचन्तो न्यग्रोधस्य समीपतः ।
तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् ॥
निद्रया च परीताङ्गा निषेदुर्धरणीतले ।
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ॥
ततो निद्रावशं प्राप्तौ कृपभोजौ महाबालौ ।
सुखोचितावदुःखार्हौ निषण्णौ धरणीतले ॥
तौ तु सुप्तौ महाराज तस्मिन्देशे महारथौ । [महार्हशयनोपेतौ भूमावेव ह्यनाथवत् ॥]
क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत ।
न वै स्म स जगामाथ निद्रां सर्प इव श्वसन् ॥
न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना ।
वीक्षाञ्चक्रे महाबाहुस्तद्वनं घोरदर्शनम् ॥
वीक्षमाणो वनोद्देशं नानासत्वैर्निषेवितम् ।
अपश्यत महाबाहुर्न्यग्रोधं वायसावृतम् ॥
तत्र काकसहस्राणि तां निशां पर्यणामयन् ।
सुखं स्वपन्तः कौरव्य पृथक्पृथगुपाश्रयाः ॥
सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः ।
सोऽपश्यत्सहसा यान्तमुलूकं घोरदर्शनम् ॥
महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् ।
सुतीक्ष्णघोणानखरं सुपर्णमिव वेगितम् ॥
सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण़्डजः ।
न्यग्रोधस्य ततः साखां पातयामास भारत ॥
सन्निपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः ।
सुप्ताञ्जघान विस्रब्धान्वायसान्वायसान्तकः ॥
केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह ।
चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः ॥
क्षणेनाघ्नत्स बलवान्येऽस्य दृष्टिपथे स्थिताः ॥
तेषां शरीरावयवैः शरीरैश्च विशाम्पते ।
न्यग्रोधमण्डलं सर्वं सञ्छन्नं पर्वतोपमम् ॥
तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् ।
प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ॥
तद्दृष्ट्वा तादृशं कर्म कौशिकेन कृतं निशि ।
तद्भावे कृतसङ्कल्पो द्रौणिरेकोऽन्वचिन्तयत् ॥
उपदेशः कृतोऽनेन पक्षिणा मम संयुगे ।
शत्रूणां क्षपणं युक्तं प्राप्तः कालश्च मे मतः ॥
नाद्य शक्यं मया हन्तुं पाण्डवा जितकाशिनः ।
बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः ॥
राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया ।
पतङ्गाग्निसमां वृत्तिमास्यायात्मविनाशिनीम् ॥
न्यायतो युध्यमानस्य प्राणत्यागो न संशयः ।
छद्मना तु भवेत्सिद्विः शत्रूणां च क्षयो महान् ॥
तत्र सशयितादर्थाद्योऽर्थो निःसंशयो भवेत् ।
तं जना बहुमन्यन्ते येऽर्थशास्त्रविशारदाः ॥
यच्चाप्यत्र भवेत्कार्यं गर्हितं लोकनिन्दितम् ।
कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता ॥
निन्दितानि च कर्माणि कुत्सितानि पदेपदे ।
सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः ॥
अस्मिन्नर्थे पुरा गीताः श्रूयन्ते धर्मवित्तमैः ।
श्लोका न्यायमवेक्षद्भिस्तत्त्वार्थास्तत्त्वदर्शिभिः ॥
परिश्रान्ते विदीर्णे वा भुञ्जाने वाऽपि शत्रुभिः ।
प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम् ॥
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम् ।
भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् ॥
इत्येवं निश्चयं चक्रे सुप्तानां निशि मारणे ।
पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् ॥
स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः ।
सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च ॥
तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबालौ ।
नोत्तरं प्रतिपद्येतां तत्र युक्तं हिया वृतौ ॥
स मुहूर्तमिव ध्यात्वा तावुभौ वाक्यमब्रवीत् ॥
हतो दुर्योधनो राजा एकवीरो मबाहलः ।
यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह ॥
एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः ।
पातितो भीमसेनेन एकादशचमूपतिः ॥
वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् ।
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्गता ॥
विनर्दन्ति च पाञ्चालाः क्ष्वेलन्ति च हसन्ति च ।
धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् ॥
वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिःस्वनैः ।
अनिलेनेरितो घोरो दिशः पूरयतीव ह ॥
अश्वानां हेषमाणानां गजानां चैव बृंहताम् ।
सिंहनादश्च शूराणां श्रूयते सुमहानयम् ॥
दिशं प्राचीं समाश्रित्य हृष्टानां गच्छतां भृशम् ।
रथनेमिस्वनाश्चैव श्रूयन्ते रोमहर्षणाः ॥
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् ।
वयमेव त्रयः शिष्टा अस्मिन्महति वैशसे ॥
केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः ।
निहताः पाण्डवैर्यस्मिन्मन्ये कालस्य पर्ययम् ॥
एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः ।
यथा ह्यस्येदृशी निष्ठा कृते यत्नेऽपि दुष्करे ॥
भवतोस्तु यदि प्रज्ञा न मोहादपचीयते ।
व्यसनेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम् ॥ ॥

इति श्रीमन्महाभारते सौप्तिकपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

10-1-1 ततः दुर्योधनेन सैनापत्येऽश्वत्थाम्नोऽभिषेकानन्तरं ते अश्वत्थामकृपाचार्यकृतवर्माणः ॥ 10-1-2 शिबिरनिकटस्थं देशं आसाद्य वाहान्विमुच्य न्यविशन्तेति योजना ॥ 10-1-4 अनुसारः पृष्ठगमनम् । प्राद्रवन्निति पुनर्वाहान्योजयित्वेति गम्यते ॥ 10-1-6 राज्ञो दुर्योधनस्य ॥ 10-1-20 नानापुष्पोपशोभितमिति झ.पाठः ॥ 10-1-23 अन्वासत उपासितवन्तः ॥ 10-1-25 अंशुकं वस्त्रम् ॥ 10-1-32 शयनोपेतौ प्रागिति शेषः ॥ 10-1-36 पर्यणामयन् परिणीतवन्त आसन् ॥ 10-1-38 हर्यक्ष्यं हरिन्मणिनिभलोचनम् । षाणा नासा ॥ 10-1-1 प्रथमोऽध्यायः ॥

श्रीः