अध्यायः 004

द्रौणिकृपयोः संवादः ॥ 1 ॥

कृप उवाच ।
दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत ।
न त्वां वारयितुं शक्तो वज्रपाणिरपि स्वयम् ॥
अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ ।
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः ॥
अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः ।
परानभिमुखं यान्तं रथावास्थाय दंशितौ ॥
आवाभ्यां सहितः शत्रूञ्श्वो निहन्ता समागमे ।
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान् ॥
शक्तस्त्वमसि विक्रम्य विश्रमस्व निशामिमाम् ।
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम् ॥
विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद ।
समेत्य समरे शत्रून्वधिष्यसि न संशयः ॥
न हि त्वां रथिनां श्रेष्ठं प्रगृहीतवरायुधम् ।
जेतुमुत्सहते कश्चिदपि देवेषु पावकिः ॥
कृपेण सहितं यान्तं गुप्तं च कृतवर्मणा ।
को द्रौणिं युधि संरब्धं योधयेदपि देवराट् ॥
ते वयं निशि विश्रान्ता विनिद्रा विगतज्वराः ।
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान् ॥
तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः ।
सात्वतोपि महेष्वासो नित्यं युद्धेषु कोविदः ॥
ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान् ।
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् ॥
विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम् ।
अहं च कृतवर्मा च प्रभाते त्वां नरोत्तमम् ॥
अनुयास्याव सहितौ धन्विनौ परतापनौ ।
रथिनं त्वरया यान्तं रथमास्थाय दंशितौ ॥
स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे ।
ततः कर्ताऽसि शत्रूणां युध्यतां कदनं महत् ॥
कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि ।
विहरस्व यथा शक्रः सूदयित्वा महासुरान् ॥
त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम् ।
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः ॥
मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा ।
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम् ॥
न चाहं समरे तात कृतवर्मा न चैव हि ।
अनिर्जित्य रणे पाण्डूनपयास्यामि कर्हिचित् ॥
हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह ।
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम् ॥
सर्वोपायैः सहायास्ते प्रभाते वयमाहवे ।
सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ ॥
एवमुक्तस्ततो द्रौणिक्रमातुलेन हितं वचः ।
अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने ॥
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च ।
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः ॥
तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम् ।
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत् ॥
किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन् ।
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति ॥
यथा च निहतः पापैः पिता मम विशेषतः ।
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति ॥
कथं हि मादृशो लोके मुहूर्तमपि जीवति ।
द्रोणहन्तेति यद्वाचः पाञ्चालानां शृणोम्यहम् ॥
धृष्टद्युम्नमहत्वा तु नादं जीवितुमुत्सहे ।
स मे पितुर्वधाद्वध्यः पाञ्चाला ये च सङ्गताः ॥
विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः ।
स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत् ॥
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत् ।
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः ॥
यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः ।
शोकं मे वर्धयत्येष वारिवेग इवार्णवम् ॥
एकाग्नमनसो मेऽद्य कुतो निद्रा कुतः सुखम् ॥
वासुदेवार्जुनाभ्यां च तानहं परिरक्षितान् ।
अविषह्यतमान्मन्ये महेन्द्रेणापि सत्तम ॥
न चापि शक्तः संयन्तुमस्मात्कार्यात्कथञ्चन ।
तं न पश्यामि लोकेऽस्मिन्यो मां कोपान्निवर्तयेत् ॥
इति मे निश्चिता बुद्धिरेषा साधुमता मम ॥
वादिकैः कथ्यमानस्तु मित्राणां मे पराभवः ।
पाण्डवानां च विजयटो हृदयं दहतीव मे ॥
अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके ।
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः ॥ ॥

इति श्रीमन्महाभारते सौप्तिकपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥

10-4-4 निहन्ता निहनिष्यसि ॥ 10-4-23 चतुर्थ आतुरादीनां चतुर्णां मध्ये एको भागः अमर्षः । मे मम स्वप्नं अह्वाय झटिति नाशयेत् । तस्मात् स्वपेत्युक्तं तन्न युज्यते ॥ 23 ॥ 10-4-24 अनुस्मरन् अनुस्मरतः । न शाम्यति अमर्ष इत्यर्थः ॥ 10-4-36 स्वप्ता स्वप्स्यामि ॥ 10-4-4 चतुर्थोऽध्यायः ॥

श्रीः