अध्यायः 006

अश्वत्थाम्नः शिबिरद्वारस्थमहाभूतदर्शनम् ॥ 1 ॥ भूतजिगीषया द्रौणिविसृष्टानामस्त्रशस्त्राणां भूतेन ग्रसनम् ॥ 2 ॥ ततश्चिंतातान्तश्च द्रौणेर्महादेवोपासनाध्यवसायः ॥ 3 ॥

धृतराष्ट्र उवाच ।
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ ।
अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे ॥
स़ञ्जय उवाच ।
कृतवर्माणमामन्त्र्य कृपं च स महारथः ।
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् ॥
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् ।
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं रोमहर्षणम् ॥
वसानं चर्म वैयाघ्रं वसारुधिरविस्रवम् ।
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् ॥
बाहुभिः स्वायतैर्भीमैर्नानाप्रहरणोद्यतैः ।
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् ॥
दंष्ट्राकरालवदनं व्यादितास्यं भयानकम् ।
नयनानां सहस्रैश्च विचित्रैरभिभूषितम् ॥
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव च ।
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः ॥
तस्यास्यनासिकाभ्यां च श्रवणाभ्यां च सर्वशः ।
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः ॥
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः ।
प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः ॥
तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम् ।
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् ॥
द्रौणिमुक्ताञ्छरांस्तांस्तु तद्भूतं महदग्रसत् ।
उदधेरिव वार्योघान्पावको बडबामुखः ॥
अश्वत्थामा तु सम्प्रेक्ष्य शरौघांस्तान्निरर्थकान् ।
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव ॥
सा तमाहत्य दीप्ताग्रा रथशक्तिरदीर्यत ।
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता ॥
अथ हेमत्सरुं दिव्यं खङ्गमाकाशवर्चसम् ॥
कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम् ॥
ततः खङ्गवरं धीमान्भूताय प्राहिणोत्तदा ।
स तदासाद्य भूतं वै विलयं तूलवद्ययौ ॥
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् ।
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् ॥
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः ।
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः ॥
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः ।
अचिन्तयत्सुसन्त्रस्तः कृपभोजवचः स्मरन् ॥
ब्रुवतामप्रियं पथ्यं सुहृदां न शृमोति यः ।
स शोचत्यापदं प्राप्य थाऽहमवमत्य तौ ॥
शास्त्रदृष्टानविद्वान्यः समतीत्य जिघांसति ।
स पथः प्रच्युतो धर्म्यात्कुपथे प्रतिहन्यते ॥
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा ।
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च ॥
मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च मातयेत् ।
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ॥
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् ।
अमार्गेणैवमारभ्य घोरामापदमागतः ॥
तां चापदं घोरतरां प्रवदन्ति मनीषिणः ।
यदुद्यम्य महत्कृत्यं भयादपि निवर्तते ॥
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह ।
न हि दैवाद्गरीयो वै मानुष्यं किञ्चिदिष्यते ॥
मानुष्यं कुर्वतः कर्म यदि दैवान्न सिध्यति ।
स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते ॥
प्रतिज्ञानं ह्यविज्ञानं प्रवदन्ति मनीषिणः ।
यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते ॥
तदिदं दुष्प्रणीतेन भयं मा समुपस्थितम् ।
न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन ॥
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् ।
न चैतदभिजानामि चिन्तयन्नपि सर्वथा ॥
ध्रुवं येयमधर्मेण प्रहिता कलुषा मतिः ।
तस्याः फलमिदं घोरं प्रतिघाताय कल्पते ॥
तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम् ।
नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन ॥
सोऽहमद्य महादेवं प्रपद्ये शरणं विभुम् ।
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति ॥
कपर्दिनं प्रपद्येऽहं देवदेवमुमापतिम् ।
कपालमालिनं रुद्रं भगनेत्रहरं हरम् ॥
स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च ।
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् ॥ ॥

इति श्रीमन्महाभारते सौप्तिकपर्वणि षष्ठोऽध्यायः ॥ 6 ॥

10-6-12 रथशक्तिं चक्रम् ॥ 10-6-13 युग्मान्ते सूर्यमिति झ.पाठः तत्र युग्मान्ते मिथुनराशेरन्ते अतिदीप्तं इत्यर्थः ॥ 10-6-15 विलं नकुलवद्ययौ इति झ.पाठः ॥ 10-6-17 अनाकाशं निरवकाशम् ॥ 10-6-6 षष्ठोऽध्यायः ॥

श्रीः