अध्यायः 009

द्रौणिकृपकृतवर्मभिर्दुर्योधनमेत्य शोचनम् ॥ 1 ॥ दुर्योधनम्प्रति द्रौणिना सुप्तजवधकथनम् ॥ 2 ॥ दुर्योधनेन प्राणत्यागः ॥ 3 ॥ द्रौण्यादीनां नगरगमनम् ॥ 4 ॥ सञ्जयस्य व्यासानुग्रहप्राप्तदिव्यज्ञाननाशः ॥ 5 ॥

सञ्जय उवाच ।
ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः ।
आगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः ॥
गत्वा चैनमपश्यन्त किञ्चित्प्राणं जनाधिपम् ।
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् ॥
तं भग्रसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम् ।
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले ॥
वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः ।
सालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात् ॥
निरायन्तं कृच्छ्रात्ताञ्श्वापदांश्च चिखादिषून् ।
विवेष्टमानमुरुभ्यां सुभृशं गाढवेदनम् ॥
तं शयानं तथा दृष्ट्वा भूमौ सुरुधिरोक्षितम् । हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यदेवयन् ।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥
तैस्त्रिभिः शोणितादिग्धौर्निः श्वसद्भिर्महारथैः ।
शुशुभे स वृतो राजा वेदी त्रिभिरिवाग्निभिः ॥
ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम् ।
अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः ॥
ततस्तु रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य हि ।
रणे राज्ञः शयानस्य कृपः सम्पर्यदेवयत् ॥
कृप उवाच ।
न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः ।
एकादशचमूभर्ता शेते दुर्योधनो हतः ॥
पश्य चामीकराभस्य चामीकरविभूषिताम् ।
गदां गदाप्रियस्येमां समीपे पतितां भुवि ॥
इयमेनं गदा शूरं न जहाति रणेरणे ।
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् ॥
पश्येमां सह वीरेण जाम्बूनदविभूषिताम् ।
शयानां शयने हर्म्ये भार्यां प्रीतिमतीमिव ॥
योऽयं मूर्धाभिषिक्तानामग्रे याति परन्तपः ।
स हतो ग्रसते पांसून्पश्य कालसय पर्ययम् ॥
येनाजौ निहता भूमौ शेरते क्षत्रियर्षभाः ।
स भूमौ निहतः शेते कुरुराजः परैरयम् ॥
भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः ।
स वीरशयने शेते क्रव्याद्भिः परिवारितः ॥
यमुपासन्नृपाः पूर्वमर्थहेतोर्महीपतिम् ।
उपात्पते च तं ह्यद्य क्रव्यादा मांसगृद्धिनः ॥
सञ्जय उवाच ।
तं शयानं कुरुश्रेष्ठं ततो भरतसत्तमम् ।
अश्वत्थामा समालिङ्ग्य करुणं पर्यदेवयत् ॥
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम् ।
धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य च ॥
कथं विवरमद्राक्षीद्भीमसेनस्तवानघ ।
बलिनं कृतिनो नित्यं सूदः पापात्मवान्नृप ॥
कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः ।
पश्यामो निहतं त्वां च भीमसेनेन संयुगे ॥
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः ।
निकृत्या हतवान्मन्दो नून कालो दुरत्ययः ॥
द्वन्द्वयुद्धे ह्यधर्मेण समाहूयौजसा मृधे ।
गदया भीमसेनेन निर्भग्ने सक्थिनी तव ॥
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः ।
य उपेक्षितवान्क्षुद्रं धिक्तमस्तु--युधिष्ठिरम् ॥
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम् ।
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः ॥
ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः ।
दुर्योधनसमो नास्ति गदायामिति वीर्यवान् ॥
श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत ।
स शिष्यो मम कौरव्यो गदायुद्ध इति प्रभो ॥
यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः ।
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् ॥
दुर्योधन न शोचामि त्वामहं पुरुषर्षभ ।
हतपुत्रौ तु शोचामि गान्धारीं पिरं च ते ॥
द्वावनाथौ कृतौ वीर त्वया नाथेन वर्धितौ ।
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्् ॥
घिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम् ।
धर्मज्ञमानिमौ यौ त्वां वध्यमानमुपेक्षताम् ॥
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिप ।
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः ॥
धन्यस्त्वमसि गान्धारे यस्वमायोधने हतः ।
प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ ॥
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा ।
प्रज्ञाचक्षुश्च दुर्धर्षः कां दशां प्रतिपत्स्यते ॥
धिगस्तु कृतवर्माणं मां कृपं च महारथम् ।
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् ॥
दातारं सर्वकामानां रक्षितारं प्रजाहितम् ।
यद्वयं नानुगच्छाम त्वां धिगस्मान्नराधमान् ॥
कृपस्य तव वीर्येण मम चैव पितुश्च मे ।
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च ॥
तव प्रसादादस्माभिः समित्रैः सह बान्धवैः ।
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः ॥
कुतश्चापीदृशं पापाः प्रवर्तिष्यामहे वयम् ।
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् ॥
वयमेव त्रयो राजन्गच्छन्तं परमां गतिम् । यद्वै त्वां नानुगच्छाभस्तेन तप्स्यामहे वयम् ।
तत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते ।
किं नाम तद्भवेत्कर्म येन त्वां न व्रजाम वै ॥
दुःखं नून कुरुश्रेष्ठ चरिष्याम महीमिमाम् ।
हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखं ॥
गत्वैव तु महाराज समेत्य च महारथान् ।
यथाज्येष्ठं यथाश्रेष्ठं पूजयेर्वचनान्मम ॥
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम् ।
हतं मयाऽद्य शंशेथा दृष्टद्युम्नं नराधिप ॥
परिष्वजेथा राजानं बाह्लिकं सुमहारथम् ।
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च ॥
तथा पूर्वगतानन्यान्स्वर्गे पार्थिवसत्मान् ।
अस्मद्वाक्यात्परिष्वज्य सम्पृच्छेस््वमनामयम् ॥
सञ्जय उवाच ।
इत्येवमुक््वा राजानं भग्नसक्थमचेतसम् ।
अश्वत्थामा लघुप्राणं पुनर्वचनमब्रवीत् ॥
दुर्योधन जीवसि चेद्वाक्यं श्रोत्रमुखं शृणु ।
सप् पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयो वयम् ॥
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः ।
अहं च कृतवर्मा च कृपः शारद्वतस्तथा ॥
द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः ।
पञ्चाला निहताः सर्वे मत्स्यशेषं च भारत ॥
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः ।
सौप्तिके शिबिरं तेषां हतं सनरवाहनम् ॥
मया च पापकर्माऽसौ धृष्टद्युम्नो महीपते ।
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः ॥
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम् ।
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत् ॥
न मेऽकरोत्द्गाङ्गेयो न कर्णो न च ते पिता ।
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम् ॥
स च सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना ।
तेन मन्ये मघवता सममात्मानमद्य वै ॥
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः ।
इत्येवमुक्त्वा पुत्रस्ते कुरुराजो महामनाः ॥
प्राणानुपासृजद्वीरः सुहृदां दुःखमादधत् ।
अपाक्रामद्दिवं पुण्यां शरीरं क्षितिमाविशत् ॥
एवं ते निधनं यातः पुत्रो दुर्योधनो नृप ।
अग्रे यात्वा रणे शूरः पश्राद्विनिहतः परैः ॥
तथैव ते परिष्वक्ताः परिष्वज्य च ते नृपम् ।
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् ॥
इत्येवं द्रोणपुत्रस्य निशम्य करुणां गिरम् ।
प्रत्यूषकाले शोकार्ताः प्राद्रवन्नगरं प्रति ॥
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः ।
घोरो विशसनो रौद्रो राजन्दुर्मन्त्रिते तव ॥
तव पुत्रे गते स्वर्गं शोकार्स्य ममानघ ।
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै ॥
वैशम्पायन उवाच ।
इति श्रुत्वा स नृपतिर्ज्ञातिपुत्रवधं तदा ।
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् ॥ ॥

इति श्रीमन्महाभारते सौप्तिकपर्वणि नवमोऽध्यायः ॥ 9 ॥

10-9-17 उपासत द्विजाः पूर्वमर्थहेतोर्यमीश्वरमिति झ.पाठः ॥ 10-9-23 धर्मयुद्धे ह्यधर्मेणेति झ.पाठः ॥ 10-9-9 नवमोऽध्यायः ॥

श्रीः