अध्यायः 012

द्रौणिजिघांसया भीमे प्रतिगते कृष्णेन युधिष्ठिरम्प्रति द्रौणिदौश्शील्यादिकथनपूर्वकं भीमस्य ततो रक्षणीयत्वकथनम् ॥ 1 ॥

वैशम्पायन उवाच ।
तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः ।
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥
एष पाण़्डवे ते भ्राता पुत्रशोकपरायणः ।
जिघांसुर्द्रौणिमाक्रन्दे एक एवाभिधावति ॥
भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ ।
तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्युपपद्यसे ॥
यत्तदाचष्ट पुत्राय द्रोणः परपुरञ्जयः ।
अस्त्रं ब्रह्मशिरो नाम दहेत पृथिवीमपि ॥
तन्महात्मा महाभागः केतुः सर्वधनुष्मताम् ।
प्रत्यपायदाचार्यः प्रीयमाणो धनञ्जयम् ॥
तं पुत्रोऽप्येक एवैनमन्वयाचदमर्षणः ।
ततः प्रोवाच पुत्राय नातिहृष्टमना इव ॥
विदितं चापलं ह्यासीदात्मजस्य दुरात्मनः ।
सर्वधर्मविदाचार्यः सोऽन्वशासत्सुतं ततः ॥
परमापद्गतेनापि न स्म तात त्वया रणे ।
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः ॥
इत्युक्त्वान्गुरुः पुत्रं द्रोणः पश्चाथोक्तवान् ।
न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ ॥
स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम् ।
निराशः सर्वकल्याणैः शोकात्पर्यचरन्महीम् ॥
ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत ।
अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः ॥
स कदाचित्समुद्रान्ते वसन्द्वारवतीमनु ।
एक एकं समागम्य मामुवाच हसन्निव ॥
यत्तदुग्रं तपः कृष्ण चरन्नमितविक्रमः ।
अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता ॥
अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् ।
तदद्य मयि दाशार्ह यथा पितरि मे तथा ॥
अस्मत्तस्दुपादाय दिव्यमस्त्रं यदूत्तम ।
ममाप्यस््रं प्रयच्छ त्वं चक्रं रिपुहणं रणे ॥
स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः ।
याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ ॥
देवदानवगन्धर्वमनुष्यपतगोरगाः ।
न समा मम वीर्यस्य शतांशेनापि पिण्डिताः ॥
इदं धनुरियं शक्तिरिदं चक्रमियं गदा ।
यद्यदिच्छसि चेदस््रं मत्तस्तत्तद्ददामि ते ॥
यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे ।
तद्गृहाण विनाऽस्त्रेण यन्मे दातुमभीप्ससि ॥
स सुनाभं सहस्रारं वज्रनाभमयस्मयम् ।
वव्रे चक्रं महाभागो मत्तः स्पर्धन्मया सह ॥
गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् ।
जग्राहोत्पत्य सहसा चक्रं सव्येन पाणिना ॥
न चैनमशकत्स्थानात्सञ्चालयितुमप्युत ।
अथैनं दक्षिणेनापि ग्रहीतुमुपचक्रमे ॥
सर्वयत्नेन तेनापि गृह्य नैनमकम्पयत् ॥
ततः सर्वबलेनापि यदैनं न शशाक ह । उद्यन्तुं वा चालयितुं द्रौणिः परमदुर्मनाः ।
कृत्वा यत्नं परिश्रान्तः स न्यवर्तत भारत ॥
निवृत्मनसं तस्मादभिप्रायाद्विचेतसम् ।
अहमामन्त्र्य संविग्नमश्वत्थामानमब्रुवम् ॥
यः स दैवमनुष्येषु प्रमाणं परमं गतः ।
गाण्डीवधन्वा श्वेताश्चः कपिप्रवरकेतनः ॥
यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम् ।
द्वन्द्वयुद्धे पुरा जिष्णुस्तोषयामास शङ्करम् ॥
यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि ।
नादेयं यस्य मे किञ्चिदपि प्राणान्महात्मनः ॥
तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा ।
नोक्पूर्वमिदं वाक्यं यस्त्वं मामभिभाषसे ॥
ब्रह्मचर्यं महद्धोरं तीर््वा द्वादशवार्षिकम् ।
हिमवत्पार्श्वमास्थाय यो मया तपसाऽऽर्जितः ॥
समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत ।
सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः ॥
तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं रणे ।
न प्रार्थितमभून्मूढ तदितं प्रार्थितं त्वया ॥
रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन ।
न गदेन साम्बेन यदिदं प्रार्थितं त्वया ॥
द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः ।
नोक्तपूर्वमिदं क्षुद्रं तदिदं प्रार्थितं त्वया ॥
भारताचार्यपुत्रस्त्वं मानितः सर्वयादवैः ।
चक्रेण रथिनां श्रेष्ठ कं नु तात युयुत्ससे ॥
एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह ।
प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वया सह ॥
प्रार्थितं ते मया चक्रं देवदानवपूजितम् ।
अजेयः स्यामिति विभो सत्यमेद्ब्रवीमि ते ॥
सोऽहं तद्दुर्लभं चक्रमनवाप्यैव केशव ।
प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम् ॥
एतत्सुनाभं भोजानामृषभेण त्वया धृतम् ।
चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते ॥
एतावदुक्त्वा द्रौणिर्मां युग्यानश्वान्धनानि च ।
आदायोपययौ काले रत्नानि वविधानि च ॥
स संरम्भी दुरात्मा च चपलः क्रूर एव च ।
वेद चास््रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः ॥ ॥

इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि द्वाशोऽध्यायः ॥ 12 ॥

10-12-11 मे मह्यं दातुमिच्छसि तेन विनापि गृहाण । त्वदीयेऽस्त्रे ममेच्छा नास्तीति भावः ॥ 10-12-12 द्वादशोऽध्यायः ॥

श्रीः