अध्यायः 014

अर्जुनेन कृष्णाज्ञया द्रौण्यस्त्रप्रत्यस्त्रप्रयोगः ॥ 1 ॥

वैशम्पायन उवाच ।
इङ्गितेनैव दाशार्हस्तस्याभिप्रायमादितः ।
द्रौणेर्बुद्धा महाबाहुरर्जुनं प्रत्यभाषत ॥
अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते ।
द्रोणोपदिष्टं तस्यायं कालः सम्प्रति पाण्डव ॥
भ्रातॄणामात्मनश्चैव परित्राणाय भारत ।
विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम् ॥
केशवेनैवमुक्तोऽथ पाण्डवः परवीरहा ।
अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः ॥
पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने ।
भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परन्तपः ॥
देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः ।
उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम् ॥
ततस्तदस््रं सहसा सृष्टं गाण्डीवधन्वना ।
प्रजज्वाल महार्चिष्मद्युगान्तानलसन्निभम् ॥
तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः ।
प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम् ॥
निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः ।
महद्भयं च भूतानां सर्वेषां समजायत ॥
सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम् ।
चचाल च मही कृत्स्ना सपर्वतवनद्रुमा ॥
तावस्त्रतेजसा लोकांस्त्रासयन्तौ ततः स्थितौ ।
महर्षी सहितौ तत्र दर्शयामासतुस्तदा ॥
नारदः सर्वधर्मात्मा भरतानां पितामहः ।
उभौ शमयितुं वीरौ भारद्वाजधनञ्जयौ ॥
तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैपिणौ ।
दीप्तयोरस््रयोर्मध्ये स्थितौ परमतेजसौ ॥
तदन्तरमनाधृष्यावुपगम्य यशस्विनौ ।
आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ ॥
प्राणभृद्भिरनाधृष्यौ देवदानवसम्मतौ ।
अस्त्रतेजः शमयितुं लोकानां हितकाम्यया ॥
ऋषी ऊचतुः ।
महास्त्रविदुषः पूर्वे येऽप्यतीता महारथाः । नैतदस््रं मनुष्येषु तैः प्रयुक्तं कथञ्चन ।
किमिदं साहसं वीरौ कृतवन्तौ महात्ययम् ॥ ॥

इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वमि चतुर्दशोऽध्यायः ॥ 14 ॥

श्रीः