अध्यायः 007

विदुरेण धृतराष्ट्रम्प्रति तत्त्वकथनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
अहोऽभिहितमाख्यान भवता तत्त्वदर्शिना ।
भूय एव तु मे हर्षः श्रोतुं वागमृतं तव ॥
विदुर उवाच ।
शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम् ।
यच्छ्रुत्वा विप्रमुच्यन्ते संसाराद्वि विचक्षणाः ॥
यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः ।
क्वचित्क्वचिच्छ्रमस्थानं कुरुते वासमेव वा ॥
एवं संसारपर्याये गर्भवासेषु भारत ।
कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः ॥
तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः ।
यत्तत्संसारगहनं वनमाहुर्मनीषिणः ॥
सोयं लोकसमावर्तो मर्त्यानां भरतर्षभ ।
चराणां स्थावराणां च न गृध्येत्तत्र पाण्डितः ॥
शारीरा मानसाश्चैव मर्त्यानां व्याधयश्च ये ।
प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः ॥
क्लिश्यमानाश्च तैर्नित्यं मार्यमाणाश्च भारत ।
स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः ॥
अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप ।
आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी ॥
शब्दरूपरसस्पर्शगन्धैश्च विविधैरपि ।
मज्जमानं महापङ्के निरालम्बे समन्ततः ॥
संवत्सरर्तवो मासाः पक्षाहोरात्रसन्धयः ।
क्रमेणास्य प्रवृज्जन्ति रूपमायुस्तथैव च ॥
एते कालस्य विधयो नैताञ्जानान्ति दुर्बुधाः ।
धात्राऽभिलिखितान्याहुः सर्वभूतानि कर्मणा ॥
रथः शरीरं भूतानां सत्वमाहुस्तु सारथिम् ।
इन्द्रियाणि हयानाहुः कर्मबुद्विस्तु रश्मयः ॥
तेषां हयानां यो वेगं धावतामनु धावति ।
सतु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते ॥
यस्तान्संयमते बुद्ध्या संयतो न निवर्तते ।
यस्तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते ॥
[भ्रममाणा न मुह्यन्ति संसारे न भ्रमन्ति ते ।
संसारे भ्रमतां राजन्दुःखमेतद्धि जायते ॥
तस्पादस्य निवृत्त्यर्थं यत्नमेवाचरेद्बुधः ।
उपेक्षा नात्र कर्तव्या शतशाखः प्रवर्धते ॥
यतेन्द्रियो नरो राजन्क्रोधलोभनिराकृतः । सन्तुष्टः सत्यवादी यः स शान्तिमधिगच्छति ॥]
याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः ।
स चैतत्प्राप्नुयाद्राजन्यत्त्वं प्राप्तो नराधिप ॥
अनुतर्षुलमेवैतद्दुःखं भवति मारिष । राज्यनाशः सुहृन्नाशः सुतनाशश्च भारत ।
साधुः परमदुःखानां दुःखभैषज्यमारभेत् ॥
ज्ञानौषधमवाप्येह दूरपारं महौषधम् ।
छिन्द्याद्दुःखमहाव्याधिं नरः संयतमानसः ॥
न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः ।
तस्मान्मोचयते दुःखाद्यथात्मा स्थिरनिश्चयः ॥
तस्मान्मैत्रं समास्थाय शीलमापदि भारत ।
दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः ॥
शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे ।
त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति ॥
अभयं सर्वभूतेभ्यो यो ददाति महीपते ।
स गच्छति परं स्थानं विष्णोः पदमनामयम् ॥
न तत्क्रतुसहस्रेण नोपवासैश्च नित्यशः ।
अभयस्य च दानेन यत्फलं प्राप्नुयान्नरः ॥
न ह्यात्मनः प्रियतरं किञ्चिद्भूतेषु निश्चितम् ।
अनिष्टं सर्वभूतानां मरणं नाम भारत ॥
तस्मात्सर्वेषु भूतेषु दया कार्या विपश्चिता ॥
नानायोगसमायुक्ता बुद्धिजालेन संवृताः । असूक्ष्मदृष्टयो मन्दा भ्राम्यन्ते तत्रतत्र ह ।
सुसूक्ष्मदृष्टयो राजन्व्रजन्ति ब्रह्मसाम्यताम् ॥
एवं ज्ञात्वा महाप्राज्ञ स तेषामौर्ध्वदैहिकम् ।
कर्तुमर्हति तेनैव फल प्राप्स्यति वै भवान् ॥ ॥

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

11-7-3 श्रमाच्छ्रान्त इति झ.पाठः ॥ 11-7-8 वार्यमाणाश्च भारतेति झ.पाठः ॥ 11-7-9 अथापि तैर्न मुच्येतेति क.पाठः ॥ 11-7-10 मज्जमांसमहापङ्के इति झ.पाठः ॥ 11-7-17 ये तु संसारचक्रेऽस्मिन्निति झ.पाठः ॥ 11-7-15 शतशास्वः संसारवृक्षः ॥ 11-7-17 क्रोधलोभौ निराकृतौ येन सः ॥ 11-7-18 याम्यं योमलोकप्रापकं संसारगहनम् ॥ 11-7-19 अनुतर्षुलं तृष्णाशीलं लक्षीकृत्य । अनुकर्षणमेनैतद्दुःखं न भवति भारतेति क.छ.पाठः ॥ 11-7-20 दूरपारं ब्रह्मज्ञानम् ॥ 11-7-23 ब्रह्मणः ब्रह्मलोकस्य प्रापका इति शेषः ॥ 11-7-7 सप्तमोऽध्यायः ॥

श्रीः