अध्यायः 008

व्यासेन धृतराष्ट्रस्य शोकापनोदनम् ॥ 1 ॥

वैशम्पायन उवाच ।
विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः ।
पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः ॥
तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः ।
कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा ॥
सञ्जयः सुहृदश्चान्ये द्वास्था ये चास्य सम्मताः ।
जलेन सुखशीतेन तालवृन्तैश्च भारत ॥
पस्पर्शुश्च करैर्गात्रं वीजमानाश्च यत्नतः ।
अन्वासत चिरं कालं धृतराष्ट्रं तथाविधम् ॥
अथ दीर्घस्य कालस्य लब्धस़ञ्ज्ञो महीपतिः ।
विललाप चिरं कालं पुत्राधिभिरभिप्लुतः ॥
धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् ।
यतोमूलानि दुःखानि सम्भवन्ति पुनःपुनः ॥
मित्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामपि ।
प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो ॥
येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति ।
येनाभिभूतः पुरुषो मरणं प्रतिपद्यते ॥
तदिदं मरणं प्राप्तं मया भाग्यविपर्ययात् । [तस्यान्तं नाधिगच्छामि ऋते प्राणविमोक्षणात्]
तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम ।
इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम् ॥
धृतराष्ट्रोऽभवन्मूढः स शोकं परमं गतः ।
अभूच्च तूष्णीं राजाऽसौ ध्यायमानो महीपतिः ॥
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः ।
पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत् ॥
व्यास उवाच ।
धृतराष्ट्र महाबाहो शृणु वक्ष्यामि पुत्रक ।
श्रुतवानसि मेधावी धर्मार्थकुशलः प्रभो ॥
न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप ।
अनित्यतां हि भूतानां विजानासि न संशयः ॥
अध्रुवे जीवलोके च स्थाने वा शाश्वते सति ।
जीविते मरणान्ते च कस्माच्छोचसि पुत्रक ॥
प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः ।
पुत्रं ते कारणं कृत्वा कालयोगेन निर्मितः ॥
अवश्यं भवितव्ये च कुरूणां सङ्क्षये नृप ।
कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम् ॥
जानता च महाबाहो विदुरेण महात्मना ।
यतितं सर्वयत्नेन शमं प्रति जनेश्वर ॥
न च दैवकृतो मार्गः शक्यो भूतेन केनचित् ।
घटताऽपि चिरं कालं नियन्तुमिति मे मतिः ॥
देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम् ।
तत्तेऽहं सम्प्रवक्ष्यामि यथा स्थैर्यं भवेत्तव ॥
पुराऽहं परितो यातः सभामैन्द्रीं जितक्लमः ।
अपश्यं तत्र च सदा समवेतान्दिवौकसः ॥
नारदप्रमुखांश्चापि सर्वान्देवर्षिसत्तमान् ।
तत्र चापि मया दृष्टा पृथिवी पृथिवीपते ॥
कार्यार्थमुपसम्पन्ना देवतानां समीपतः ।
उपगम्य तदा धात्री देवानाह समागतान् ॥
यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा ।
प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम् ॥
तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः ।
उवाच वाक्यं प्रहसन्प्रभुस्तां देवसंसदि ॥
धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै ।
दुर्योधन इति ख्यातः स ते कार्यं करिष्यति ॥
तं च प्राप्य महीपालं कृतकृत्या भविष्यसि ।
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रं समागताः ॥
अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः ।
ततस्ते भविता देवि भारस्य युधि नाशनम् ॥
गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने ।
स एष ते सुतो राजँल्लोकसंहारकारणात् ॥
कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप ।
अमर्षी बलवाञ्शूरः क्रोधनो दुष्प्रसाधनः ॥
दैवयोगात्समुत्पन्ना भ्रातरस्तस्य तादृशाः ।
शकुनिर्मातुलश्चैव कर्णश्च परमः सखा ॥
समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः ।
[यादृशो जायते राजा तादृशोऽस्य जनो भवेत् ॥
अधर्मो धर्मतां याति स्वामी चेद्धार्मिको भवेत् ।
स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः ॥
दुष्टं राजानमासाद्य गतास्ते तनया नृप ।] एतमर्थं महाबाहो नारदो वेद तत्त्ववित् ॥
आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते ।
मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् ॥
न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत ।
पुत्रास्तव दुरात्मानो यैरियं घातिता मही ॥
नारदेन च भद्रं ते पूर्वमेव न संशयः ।
युधिष्ठिरस्य समितौ राजसूये निवेदितम् ॥
पाण्डवाः कौरवाः सर्वे समासाद्य परस्परम् ।
नभविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर ॥
नारदस्य वचः श्रुत्वा तथाऽकुर्वत पाण्डवाः ।
एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् ॥
कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो ।
स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् ॥
एष चार्थो महाबाहो पूर्वमेव मया श्रुतः ।
कथितो धर्मराजस्य राजसूये कुरूत्तम ॥
यतितं धर्मपुत्रेण मया गुह्ये निवेदिते ।
अविग्रहे कौरवाणां दैवं तु बलवत्तरम् ॥
अनतिक्रमणीयो हि विधी राजन्कथञ्चन ।
कृतान्तस्य तु भूतेन स्थावरेण चरेण च ॥
भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत ।
मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च ॥
त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः ।
ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् ॥
कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि ।
स कथं त्वयि राजेन्द्र कृपां नैव करिष्यति ॥
मम चैव नियोगेन विधेश्चाप्यनिवर्तनाम् ।
पाण्डवानां च कारुण्यात्प्राणान्धारय भारत ॥
एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति ।
धर्मार्थः सुमहांस्तात तप्तं स्याच्च तपश्चिरात् ॥
पुत्रशोकं समुत्पन्नं हुताशं ज्वलितं यथा ।
प्रज्ञाम्भसा महाराज निर्वापय सदा सता ॥
वैशम्पायन उवाच ।
तच्छ्रुत्वा तस्य वचनं व्यासस्यामिततेजसः ।
मुहूर्तं समनुध्यायन्धृतराष्ट्रोऽभ्यभाषत ॥
महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम ।
नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः ॥
इदं तु वचनं श्रुत्वा तव देवनियोगजम् ।
धारयिष्याम्यहं प्राणान्यतिष्ये च न शोचितुं ॥
एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः ।
धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत ॥ ॥

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि अष्टमोऽध्यायः ॥ 8 ॥56

11-8-29 कालः संहारकारणादिति क.छ.ठ.पाठः ॥ 11-8-37 नारदेन समाख्यातमिति क.छ.ठ.पाठः ॥ 11-8-39 तदाऽशोचन्त पाण्डवा इति झ.पाठः ॥ 11-8-48 धर्मश्च सुमहास्तात तप्तस्य तपसश्चिरादिति क.छ.ठ.पाठः ॥

श्रीः

  1. 11-8-8 अष्टमोऽध्यायः ॥
  2. [जनमेजय उवाच ।
    गते भगवति व्यासे धृतराष्ट्रो महीपतिः ।
    किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥
    तथैव कौरवो राजा धर्मपुत्रो महामनाः ।
    कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ॥
    अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः ।
    वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः ॥
    वैशम्पायन उवाच ।
    हते दुर्योधने चैव हते सैन्ये च सर्वशः ।
    सञ्जयो विगतप्रज्ञो धृतराष्ट्रमुपस्थितः ॥
    6
  3. 11-9-4 विगता प्रज्ञा व्यासदत्तं दिव्यज्ञानं यस्य स विगतप्रज्ञः ॥
  4. सञ्जय उवाच ।
आगम्य नानादेशेभ्यो नानाजनपदेश्वराः ।
पितृलोकं गता राजन्सर्वे तव सुतैः सह ॥
याच्यमानेन सततं तव पुत्रेण भारत ।
घातिता पृथिवी सर्वा वैरस्यान्तं विधित्सता ॥
पुत्राणामथ पौत्राणां पितॄणां च महीपते ।
आनुपूर्व्येण सर्वेषां प्रेतकार्याणि कारय ॥
वैशम्पायन उवाच ।
तच्छ्रुत्वा वचनं घोरं सञ्जयस्य महीपतिः ।
गतासुरिव निश्चेष्टो न्यपतत्पृथिवीतले ॥
तं शयानमुपागम्य पृथिव्यां पृथिवीपतिम् ।
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् ॥
उत्तिष्ठ राजन्किं शेषे मा शुचो भरतर्षभ ।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः ॥
अभावादीनि भूतानि भावमध्यानि भारत ।
अभावनिधनान्येव तत्र का परिदेवना ॥
न शोचन्मृतमन्वेति न शोचन्म्रियते नरः ।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि ॥
अयुध्यमानो म्रियते युध्यमानस्तु जीवति ।
कालं प्राप्य महाराज न कश्चिदतिवर्तते ॥
कालः कर्षति भूतानि सर्वाणि विविधानि च ।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ॥
यथा वायुस्तृणाग्राणि संवर्तपति सर्वतः ।
तथा कालवशं यान्ति भूतानि भरतर्षभ ॥
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् ।
यस्य कालः प्रयात्यग्रे तत्र का परिदेवना ॥
यांश्चापि निहतान्युद्धे राजंस्त्वमनुशोचसि ।
न शोच्या हि माहत्मानः सर्वे ते त्रिदिवं गताः ॥
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया ।
तथा स्वर्गमुपायान्ति यथा शूरास्तनुत्यजः ॥
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ॥
शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः ।
हूयमानाञ्शरांश्चैव सेहुरुत्तमपूरषाः ॥
एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम् ।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते ॥
क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः ।
आशिषं परमां प्राप्ता न शोच्याः सर्व एव हि ॥
आत्मनाऽऽत्मानमाश्वास्य मा शुचः पुरुषर्षभ ।
नाद्य शोकाभिभूतस्त्वं कार्यमुत्स्नष्टुमर्हसि ॥ ॥

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि अध्यायः ॥

वैशम्पायन उवाच ।
विदुरस्य तु तद्वाक्यं श्रुत्वा तु पुरुषर्षभः ।
युज्यतां यानमित्युक्त्वा पुनर्वचनमव्रवीत् ॥
धृतराष्ट्र उवाच ।
शीघ्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः ।
वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः ॥

strIB-11-8-11 शोकस्यातिगाढत्वात्पुनर्विदुरेणोक्तं अभावदीनीत्यादि ॥ strIB-11-8-15 संवर्तयति वर्तुलयति कम्पयति वा ॥ strIB-11-8-21 आचक्षे कथयामि ॥ strIB-11-8-23 कार्यं अवश्यकर्तव्यमुदकदानादि ॥

  • 11-9-4 विगता प्रज्ञा व्यासदत्तं दिव्यज्ञानं यस्य स विगतप्रज्ञः ॥